श्रीललितास्तोत्रम्
कथनीयं किं वाञ्छितमम्ब पुरस्ते न सर्वज्ञा ।
किं त्वं शैलेशसुते पूरय वाञ्छां ममाशु करुणाब्धे ॥ १॥
एतावता तव स्यात्का हानिः कामवैरिपुण्यतते ।
पश्य दृगग्रेण जनं क्लिष्टमिमं बहुविधैर्दुःखैः ॥ २॥
ईडितपदे सुराग्र्यैरीशानप्रभृतिभिर्निजेष्टाप्त्यै ।
ईप्सितवितरणनिर्जितकल्पतरो रोहिणीशशिशुचूडे ॥ ३॥
लक्ष्यं भूयादक्ष्णोर्ललनारत्नं ललाटनयनस्य ।
क्व नु मम हेतुविहीनापारकृपाजन्मगेहमगजन्म ॥ ४॥
ह्रीमान्को वा न भवति गिरिजे त्वत्पादपङ्कजं स्तोतुम् ।
पद्मजषण्मुखफणिराण्मुख्या अपि यत्र मूकतां यान्ति ॥ ५॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीललितास्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran