श्रीमातङ्गीध्यानम्
तालीदलेनार्पितकर्णभूषां
माध्वीमदोद्घूर्णितनेत्रपद्माम् ।
घनस्तनीं शम्भुवधूं नमामि ।
तडिल्लताकान्तिमनर्घ्यभूषाम् ॥ १॥
घनश्यामलाङ्गीं स्थितां रत्नपीठे
शुकस्योदितं शृण्वतीं रक्तवस्त्राम् ।
सुरापानमत्तां सरोजस्थितां श्रीं
भजे वल्लकीं वादयन्तीं मतङ्गीम् ॥ २॥
माणिक्याभरणान्वितां स्मितमुखीं नीलोत्पलाभां वरां
रम्यालक्तक लिप्तपादकमलां नेत्रत्रयोल्लासिनीम् ।
वीणावादनतत्परां सुरनुतां कीरच्छदश्यामलां
मातङ्गीं शशिशेखरामनुभजे ताम्बूलपूर्णाननाम् ॥ ३॥
श्यामाङ्गीं शशिशेखरां त्रिनयनां वेदैः करैर्बिभ्रतीं
पाशं खेटमथाङ्कुशं दृढमसिं नाशाय भक्तद्विषाम् ।
रत्नालङ्करणप्रभोज्वलतनुं भास्वत्किरीटां शुभां
मातङ्गीं मनसा स्मरामि सदयां सर्वार्थसिद्धिप्रदाम् ॥ ४॥
देवीं षोडशवार्षिकीं शवगतां माध्वीरसाघूर्णितां
श्यामाङ्गीमरुणाम्बरां पृथुकुचां गुञ्जावलीशोभिताम् ।
हस्ताभ्यां दधतीं कपालममलं तीक्ष्णां तथा कर्त्रिकां
ध्यायेन्मानसपङ्कजे भगवतीमुच्छिष्टचाण्डालिनीम् ॥ ५॥
इति श्रीमातङ्गीध्यानम् ॥
Proofread by PSA Easwaran