मातङ्ग्यष्टोत्तरशतनामस्तोत्रम्
(अथ श्रीकालीविलासतन्त्रे सप्तदशपटलः ।)
श्रीतामस उवाच ।
मातङ्गी शतनामानो-दानीं कलिमते शृणु ।
यस्य प्रसादा दीशोहं पार्वति प्राणवल्लभे ॥ १॥
अस्य श्रीमातङ्गी शतनामस्तोत्रस्य श्रीकृष्ण
ऋषिर्गायत्रीच्छन्दः श्रीमातङ्गी देवता चतुर्वर्ग
सिद्धये विनियोगः ॥
ॐ माधवी मथुरा मत्ता माननीया मदोद्धता ।
मान्या च मानदात्री च मनीषा मानमोहिनी ॥ २॥
मथुरा माधवी मध्या मानसी मनमोहिनी ।
माधुरा मानयोग्या च मत्तमातङ्गगामिनी ॥ ३॥
मेनका मानवी मेधा मदना मदनोत्तरा ।
मत्ता प्रमत्ता मदना मोदना मदनोद्धता ॥ ४॥
माननी मानयोग्या च मेखला मरमोहिनी ।
मनोरूपा उन्मनी च माषामेधामदोद्धता ॥ ५॥
निमेषा निर्निमेषा च मानगी मथुरा तथा ।
मदमत्ता महामत्ता मानदा मधुसूदनी ॥ ६॥
मतिर्माता महालक्ष्मीर्नित्या मदनपीडिता ।
मेघविद्युत्प्रभाकाशा मेघानन्दप्रवर्द्धिनी ॥ ७॥
मदना मदरूपा च मुनिगुह्या मुनिस्तुता ।
अर्थरूपा महामेधा माया मत्ता स्वरूपिणी ॥ ८॥
मुकुन्दपूजिता मौनी मौनव्रतपरायणा ।
मेधा मेधावती मध्या मदना मदनातुरा ॥ ९॥
मानुषी च मनोरूपा महामोहस्वरूपिणी ।
तरणी तरुणी तारा तारिणी तरलेक्षणा ॥ १०॥
तुरोया च तथा तुथ्या तुल्या च तामसी तिथिः ।
तीर्थातीर्थ मयी तीर्थरूपिणी तामसान्तरा ॥ ११॥
तपस्या तापसी तापा तपना तुलना इति ।
गोलोकवासिनी गम्या गुणज्ञा गुणरूपिणी ॥ १२॥
गौरी च गोपिनी गौरा गानागानस्वरूपिणी ।
गिरीशा गिरिशा गन्धा गगणा गगणेश्वरी ॥ १३॥
ईकाररूपिणी नित्या ईश्वरी ईश्वरप्रिया ।
सङ्गृह्य इति ते देवि शतनाम इतीरितम् ॥ १४
त्रिसन्ध्य यः पठेन्नित्यं तस्य सिद्धिर्न संशयः ॥ १५॥
इति श्रीकालीविलासतन्त्रे श्रीमातङ्गीशतनामस्तोत्रं समाप्तम् ।
ॐ तत्सदित्यादि ।
इति श्रीकालीविलासतन्त्रे सप्तदशपटलः समाप्तः ।
Proofread by Rajesh Thyagarajan