मायास्तवम्
अथ मायास्तवम् ।
शौनक उवाच ।
शशिध्वजो महाराजः स्तुत्वा मायां गतः कुतः ।
का वा मायास्तुतिः सूत ! वद तत्त्वविदां वर ! ।
या त्वत्कथा विष्णुकथा वक्तव्या सा विशुद्धये ॥ १॥
सूत उवाच ।
शृणुध्वं मुनयः सर्वे मार्कण्डेयाय पृच्छते ।
शुकः प्राह विशुद्धात्मा मायास्तवमनुत्तमम् ॥ २॥
तच्छृणुष्व प्रवक्ष्यामि यथाधीतं यथाश्रुतम् ।
सर्वकामप्रदं नॄणां पापतापविनाशनम् ॥ ३॥
शुक उवाच ।
भल्लाटनगरं त्यक्त्वा विष्णुभक्तः शशिध्वजः ।
आत्मसंसारमोक्षाय मायास्तवमलं जगौ ॥ ४॥
शशिध्वज उवाच ।
ॐ ह्रींकारां सत्त्वसारां विशुद्धां
ब्रह्मादीनां मातरं वेदबोध्याम् ।
तन्वीं स्वाहां भूततन्मात्रकक्षां
वन्दे वन्द्यां देवगन्धर्वसिद्धैः ॥ ५॥
लोकातीतां द्वैतभीतां समीडे
भूतैर्भव्यां व्याससामासिकार्थैः ।
नानारूपैर्देवतिर्यङ्मनुष्यै-
स्तामाधारां ब्रह्मरूपां नमामि ॥ ६॥
यस्या भासा त्रिजगद्भाति भूतै-
र्न भात्येतत्तदभावे विधातुः ।
विद्वद्गीतां कालकल्लोललोलां
लीलापाङ्गीं क्षिप्तसंसारदुर्गाम् ॥ ७॥
in print, alternatively, 7 is sometimes switched with 8
पूर्णां प्राप्यां द्वैतलभ्यां शरण्या-
माद्ये शेषे मध्यतो या विभाति ।
कालो दैवं कर्म सोपाधयो ये
तस्या तासां तां विशिष्टां नमामि ॥ ८॥
भूमौ गन्धो रसताप्सु प्रतिष्ठा
रूपं तेजस्येव वायौ स्पृशत्वम् ।
खे शब्दो वै यच्छिदाभाति नाना
तामाद्यां तां विश्वरूपां नमामि ॥ ९॥
सावित्री त्वं ब्रह्मरूपा भवानी
भूतेशस्य श्रीपतेः श्रीस्वरूपा ।
शची शक्रस्यापि नाकेश्वरस्य
पत्नी श्रेष्ठा भासि माये ! जगत्सु ॥ १०॥
बाल्ये बाला युवती योवने त्वं
वार्द्धक्ये या स्थविरा कालकल्पा ।
नानाकारैर्यागयोगैरूपास्या
ज्ञानातीता कामरूपा विभासि ॥ ११॥
वरेण्या त्वं वरदा लोकसिद्धा
साध्वी धन्या लोकमान्या सुकन्या ।
चण्डी दुर्गा कालिका कालिकाख्या
नानादेशे रूपवेशैर्विभासि ॥ १२॥
तव चरणसरोजं देवि देवादिवन्द्यं
यदि हृदयसरोजे भावयन्तीह भक्त्या ।
extra line शुककृतमतिशुद्धं हृत्सरोजे स्मरन्ति
श्रुतियुगकुहरे वा संश्रुतं धर्मसम्पत्
जनयति जगदाद्ये सर्वसिद्धिन्ऽच तेषाम् ॥ १३
मायास्तवमिदं पुण्यं शुकदेवेन भाषितम् ।
मार्कण्डेयादयव्यापि सिद्धिं लेभे शशिध्वजः ॥ १४
कोकामुखे तपस्तप्त्वा हरिं ध्यात्वा वनान्तरे ।
सुदर्शनेन निहतो वैकुण्ठशरणं ययौ ॥ १५॥
इति श्रीकल्किपुराणेऽनुभागवते भविष्ये तृतीयांशे
मायास्तवो नाम पञ्चदशोऽध्यायः ।