श्रीमीनाक्षीषोडशोपचारस्तुतिः
इक्षुकोदण्ड पुष्पेषु पाशाङ्कुशकरोज्ज्वलाम् ।
उद्यत्सूर्यनिभां वन्दे महात्रिपुरसुन्दरीम् ॥ १॥
श्रीमत्सुन्दरनाथस्य देवीं शफरलोचनाम् ।
कलये हृदये नित्यं कदम्बवनवासिनीम् ॥ २॥
बालार्कारुणपद्मपीठनिलयां वामादिशक्त्यावृतां
एलागन्धि सुकुन्तलां द्विनयनां हेमाम्बरालङ्कृताम् ।
वामे लम्बित दोर्लतां सुचरणां दक्षेधृतेन्दीवरां
श्यामाभां शरदिन्दुचारुवदनां वन्दे सुमीनेक्षणाम् ॥ ३॥
आगच्छ वरदे देवि सर्वसम्पत्प्रदायिनि ।
पूजां गृहाण सुमुखि नमस्ते शङ्करप्रिये ॥ ४॥
श्रीमीनाक्षि महाभागे रक्षार्थं मम सर्वदा ।
आवाहयाम्यहं देवि सर्वकामार्थसिद्धये ॥ ५॥
अनेकरत्नसंयुक्तं नानामणि गणान्वितम् ।
कार्तस्वरमयं दिव्यमासनं प्रतिगृह्यताम् ॥ ६॥
गङ्गादि सर्वतीर्थेभ्यो मया प्रार्थनयाऽऽहृतम् ।
तोयमेतत्सुखस्पर्शं पाद्यार्थं प्रतिगृह्यताम् ॥ ७॥
निधीनां सर्वरत्नानां त्वमनर्घ्यगुणा ह्यसि ।
सिंहासन स्थिते देवि गृहाणार्घ्यं नमोऽस्तु ते ॥ ८॥
कर्पूरेण सुगन्धेन सुरभि स्वादु शीतलम् ।
तोयमाचमनीयार्थं देवि त्वं प्रतिगृह्यताम् ॥ ९॥
मन्दाकिन्याः समानीतैः हेमाम्भोरुह वासितैः ।
स्रानं कुरुष्व देवेशि सलिलैश्च सुगन्धिभिः ॥ १०॥
पट्टकूलयुतं देवि कञ्चुकेन समन्वितम् ।
परिदेहि कृपां कृत्वा सर्वसम्पत्प्रदायिनि ॥ ११॥
स्वर्णसूत्रमयं दिव्यं ब्रह्मणा निर्मितं पुरा ।
उपवीतं मया दत्तं गृहाण परमेश्वरि ॥ १२॥
श्रीकण्ठचन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं च देवेशि चन्दनं प्रतिगृह्यताम् ॥ १३॥
हरिद्रां कुङ्कुमं चैव सिन्दूरं कज्जलं तथा ।
सौभाग्यद्रव्यसंयुक्तं गृहाण परमेश्वरि ॥ १४॥
अक्षतान्निर्मलान्शुद्धान् मुक्तामणि समन्वितान् ।
गृहाणेमान् महादेवि देहि मे निर्मलां धियम् ॥ १५॥
माङ्गल्य मणि संयुक्तं मुक्ताफलसमन्वितम् ।
दत्तं मङ्गल सूत्रं ते गृहाण शिववल्लभे ॥ १६॥
रत्नताटङ्ककेयूर हार कङ्कणमण्डिते ।
भूषणं गृह्यतां देवि नमस्ते पाण्ड्यनन्दिनि ॥ १७॥
जाजी पुत्रागमन्दार केतकीचम्पकानि च ।
पुष्पाणि तव पूजार्थमर्पयामि सदा शिवे ॥ १८॥
इति श्रीमीनाक्षीषोडशोपचारस्तुतिः समाप्ता ।
Proofread by Rajesh Thyagarajan