मीनाक्ष्यष्टकम् २
सामीनश्रीरञ्जितपङ्केरुह कान्तेर्नामी यस्याः पादसरोजद्वितयस्य ।
कमी नाक्षीणाशुभवृत्तिर्लभते तां सा मीनाक्षी पातु समीकृत्य ममागः ॥ १॥
अव्यादव्यापादरतध्येयपदाब्जा दिव्या दिव्यापन्निचयान्मामपचेयात् ।
स्तव्या भव्यापादनशीला निगमान्तैरव्याहारव्यापृतिभूमीनदृगीशा ॥ २॥
विद्यल्लेखाविभ्रमविश्राणनदीक्षाबद्धोत्साहश्रीपरिरब्धाङ्गलतायाः ।
मुग्धाकारस्मेरमुखेन्दोर्गिरिजायाः किञ्चिन्मे निष्क्रिञ्चनगम्यं प्रतिभाति ॥ ३॥
पाणौ वीणामादधती कीरकिशोरध्वानध्यातः स्वञ्चिततन्त्रीध्वनिभेदम् ।
लावण्याब्धिर्लक्षितकारुण्यकटाक्षा श्यामा कामं मीनदृगम्बा परिपातु ॥ ४॥
कामारामोद्दामकटाक्षोत्कलिकाभिः क्षेमक्षामक्षालनदक्षा सुजनानाम् ।
देवी वाचामाचरणान्तादनवद्या भायादन्तस्सन्ततमम्बा शफराक्षी ॥ ५॥
चारुस्मेराम्भोरुहकिञ्जल्कसरूपामापादाग्रादञ्चितभूषामुषिताङ्गीम् ।
मालापाशौ पुस्तकचापौ च दधानां मीनाक्षीं तां चेतसि बालां कलयामि ॥ ६॥
वेणीमूलामुक्तनिशानाथवतंसा फालोन्मीलल्लोचनसङ्घर्षिललामा ।
कीरालापध्मापितमन्दस्मितवक्त्रा मीनाक्षी नश्चेतसि नित्यं प्रतिभायात् ॥ ७॥
अम्बाकाराः सन्तु सहस्रं सुरवन्द्याः किञ्चालम्बे कामपि मूर्तिं कमनीयाम् ।
लीलाकीरालङ्कृत पाणिं ललिताङ्गीं लोलापाङ्गां मीनदृगाख्यां शिवपत्नीम् ॥ ८॥
प्रातःकाले जल्पति यो ना नियतात्मा स्मृत्वा देवीमष्टकमिष्टार्थदमेतत् ।
तस्य प्रीता सम्पदमुच्चैरपि वाचं दद्यादद्यालोकसवित्री शफराक्षी ॥ ९॥
श्रीरामभद्रयोगीन्द्रचरणाम्बुजरेणुना ।
कृष्णानन्दसरस्वत्या श्रीमीनाक्ष्यष्टकं कृतम् ।
इति कृष्णानन्दकृतिषु मीनाक्ष्यष्टकं सम्पूर्णम् ॥
Proofread by Rajesh Thyagarajan