महाबुद्धिदेव्यष्टोत्तरशतनामावलिः
ॐ ह्रीं मूलवह्निसमुद्भूतायै नमः ।
ॐ ह्रीं मूलाज्ञानविनाशिन्यै नमः ।
ॐ ह्रीं निरुपाधिमहामायायै नमः ।
ॐ ह्रीं शारदायै नमः ।
ॐ ह्रीं प्रणवात्मिकायै नमः ।
ॐ ह्रीं सुषुम्नामुखमध्यस्थायै नमः ।
ॐ ह्रीं चिन्मय्यै नमः ।
ॐ ह्रीं नादरूपिण्यै नमः ।
ॐ ह्रीं नादातीतायै नमः ।
ॐ ह्रीं ब्रह्मविद्यायै नमः । (१०)
ॐ ह्रीं मूलविद्यायै नमः ।
ॐ ह्रीं परात्परायै नमः ।
ॐ ह्रीं सकामदायिनीपीठमध्यस्थायै नमः ।
ॐ ह्रीं बोधरूपिण्यै नमः ।
ॐ ह्रीं मूलाधारस्थगणपदक्षिणाङ्कनिवासिन्यै नमः ।
ॐ ह्रीं विश्वाधारायै नमः ।
ॐ ह्रीं ब्रह्मरूपायै नमः ।
ॐ ह्रीं निराधारायै नमः ।
ॐ ह्रीं निरामयायै नमः ।
ॐ ह्रीं सर्वाधारायै नमः । (२०)
ॐ ह्रीं साक्षिभूतायै नमः ।
ॐ ह्रीं ब्रह्ममूलायै नमः ।
ॐ ह्रीं सदाश्रयायै नमः ।
ॐ ह्रीं विवेकलभ्यवेदान्तगोचरायै नमः ।
ॐ ह्रीं मननातिगायै नमः ।
ॐ ह्रीं स्वानन्दयोगसंलभ्यायै नमः ।
ॐ ह्रीं निदिध्यासस्वरूपिण्यै नमः ।
ॐ ह्रीं विवेकादिभृत्ययुतायै नमः ।
ॐ ह्रीं शमादिकिङ्करान्वितायै नमः ।
ॐ ह्रीं भक्त्यादिकिङ्करीजुष्टायै नमः । (३०)
ॐ ह्रीं स्वानन्देशसमन्वितायै नमः ।
ॐ ह्रीं महावाक्यार्थसंलभ्यायै नमः ।
ॐ ह्रीं गणेशप्राणवल्लभायै नमः ।
ॐ ह्रीं तमस्तिरोधनकर्यै नमः ।
ॐ ह्रीं स्वानन्देशप्रदर्शिन्यै नमः ।
ॐ ह्रीं स्वाधिष्ठानगतायै नमः ।
ॐ ह्रीं वाण्यै नमः ।
ॐ ह्रीं रजोगुणविनाशिन्यै नमः ।
ॐ ह्रीं रागादिदोषशमन्यै नमः ।
ॐ ह्रीं कर्मज्ञानप्रदायिन्यै नमः । (४०)
ॐ ह्रीं मणिपूराब्जनिलयायै नमः ।
ॐ ह्रीं तमोगुणविनाशिन्यै नमः ।
ॐ ह्रीं अनाहतैकनिलयायै नमः ।
ॐ ह्रीं गुणसत्वप्रकाशिन्यै नमः ।
ॐ ह्रीं अष्टाङ्गयोगफलदायै नमः ।
ॐ ह्रीं तपोमार्गप्रकाशिन्यै नमः ।
ॐ ह्रीं विशुद्धिस्थाननिलयायै नमः ।
ॐ ह्रीं हृदयग्रन्थिभेदिन्यै नमः ।
ॐ ह्रीं विवेकजनन्यै नमः ।
ॐ ह्रीं प्रज्ञायै नमः । (५०)
ॐ ह्रीं ध्यानयोगप्रबोधिन्यै नमः ।
ॐ ह्रीं आज्ञाचक्रसमासीनायै नमः ।
ॐ ह्रीं निर्गुणब्रह्मसंयुतायै नमः ।
ॐ ह्रीं ब्रह्मरन्ध्रपद्मगतायै नमः ।
ॐ ह्रीं जगद्भावप्रणाशिन्यै नमः ।
ॐ ह्रीं द्वादशान्तैकनिलयायै नमः ।
ॐ ह्रीं स्वस्वानन्दप्रदायिन्यै नमः ।
ॐ ह्रीं पीयूषवर्षिण्यै नमः ।
ॐ ह्रीं बुद्ध्यै नमः ।
ॐ ह्रीं स्वानन्देशप्रकाशिन्यै नमः । (६०)
ॐ ह्रीं इक्षुसागरमध्यस्थायै नमः ।
ॐ ह्रीं निजलोकनिवासिन्यै नमः ।
ॐ ह्रीं वैनाक्यै नमः ।
ॐ ह्रीं विघ्नहन्त्र्यै नमः ।
ॐ ह्रीं स्वानन्दब्रह्मरूपिण्यै नमः ।
ॐ ह्रीं सुधामूर्त्यै नमः ।
ॐ ह्रीं सुधार्णवायै नमः ।
ॐ ह्रीं केवलायै नमः ।
ॐ ह्रीं हृद्गुहामय्यै नमः ।
ॐ ह्रीं शुभ्रवस्त्रायै नमः । (७०)
ॐ ह्रीं पीनकुचायै नमः ।
ॐ ह्रीं कल्याण्यै नमः ।
ॐ ह्रीं हेमकञ्चुकायै नमः ।
ॐ ह्रीं विकचाम्भोरुहदललोचनायै नमः ।
ॐ ह्रीं ज्ञानरूपिण्यै नमः ।
ॐ ह्रीं रत्नताटङ्कयुगलायै नमः ।
ॐ ह्रीं भद्रायै नमः ।
ॐ ह्रीं चम्पकनासिकायै नमः ।
ॐ ह्रीं रत्नदर्पणसङ्काशकपोलायै नमः ।
ॐ ह्रीं निर्गुणात्मिकायै नमः । (८०)
ॐ ह्रीं ताम्बूलपूरितस्मेरवदनायै नमः ।
ॐ ह्रीं सत्यरूपिण्यै नमः ।
ॐ ह्रीं कम्बुकण्ढ्यै नमः ।
ॐ ह्रीं सुबिम्बोष्ट्यै नमः ।
ॐ ह्रीं वीणापुस्तकधारिण्यै नमः ।
ॐ ह्रीं गणेशज्ञातसौभाग्यमार्दवोरुद्धयान्वितायै नमः ।
ॐ ह्रीं केवलज्ञानसुखदपदाब्जायै नमः ।
ॐ ह्रीं भारत्यै नमः ।
ॐ ह्रीं मत्यै नमः ।
ॐ ह्रीं वज्रमाणिक्यकटककिरीटायै नमः । (९०)
ॐ ह्रीं मञ्जुभाषिण्यै नमः ।
ॐ ह्रीं विघ्नेशबद्धमाङ्गल्यसूत्रशोभितकन्धरायै नमः ।
ॐ ह्रीं अनेककोटिकेशार्कयुग्मसेवितपादुकायै नमः ।
ॐ ह्रीं वागीश्वर्यै नमः ।
ॐ ह्रीं लोकमात्रे नमः ।
ॐ ह्रीं महाबुद्ध्यै नमः ।
ॐ ह्रीं सरस्वत्यै नमः ।
ॐ ह्रीं चतुष्षष्टिकोटिविद्याकलालक्ष्मीनिषेवितायै नमः ।
ॐ ह्रीं कटाक्षकिङ्करीभूतकेशबृन्दसमन्वितायै नमः ।
ॐ ह्रीं ब्रह्मविष्ण्वीशशक्तीनां दृशा शासनकारिण्यै नमः । (१००)
ॐ ह्रीं पञ्चचित्तवृत्तिमय्यै नमः ।
ॐ ह्रीं तारमन्त्रस्वरूपिण्यै नमः ।
ॐ ह्रीं वरदायै नमः ।
ॐ ह्रीं भक्तिवशगायै नमः ।
ॐ ह्रीं भक्ताभीष्टप्रदायिन्यै नमः ।
ॐ ह्रीं ब्रह्मशक्त्यै नमः ।
ॐ ह्रीं महामायायै नमः ।
ॐ ह्रीं जगद्ब्रह्मस्वरूपिण्यै नमः । (१०८)
इति महाबुद्धिदेव्यष्टोत्तरशतनामावलिः सम्पूर्णा ।
Proofread by Narendran Madathil