महाबुद्धिदेव्यष्टोत्तरशतनामस्तोत्रम्
सूर्य उवाच-
मूलवह्निसमुद्भूता मूलाज्ञानविनाशिनी ।
निरुपाधिमहामाया शारदा प्रणवात्मिका ॥ १॥
सुषुम्नामुखमध्यस्था चिन्मयी नादरूपिणी ।
नादातीता ब्रह्मविद्या मूलविद्या परात्परा ॥ २॥
सकामदायिनीपीठमध्यस्था बोधरूपिणी ।
मूलाधारस्थगणपदक्षिणाङ्कनिवासिनी ॥ ३॥
विश्वाधारा ब्रह्मरूपा निराधारा निरामया ।
सर्वाधारा साक्षिभूता ब्रह्ममूला सदाश्रया ॥ ४॥
विवेकलभ्यवेदान्तगोचरा मननातिगा ।
स्वानन्दयोगसंलभ्या निदिध्यासस्वरूपिणी ॥ ५॥
विवेकादिभृत्ययुता शमादिकिङ्करान्विता ।
भक्त्यादिकिङ्करीजुष्टा स्वानन्देशसमन्विता ॥ ६॥
महावाक्यार्थसंलभ्या गणेशप्राणवल्लभा ।
तमस्तिरोधानकरी स्वानन्देशप्रदर्शिनी ॥ ७॥
स्वाधिष्ठानगता वाणी रजोगुणविनाशिनी ।
रागादिदोषशमनी कर्मज्ञानप्रदायिनी ॥ ८॥
मणिपूराज्ञनिलया तमोगुणविनाशिनी ।
अनाहतैकनिलया गुणसत्वप्रकाशिनी ॥ ९॥
अष्टाङ्गयोगफलदा तपोमार्गप्रकाशिनी ।
विशुद्धिस्थाननिलया हृदयग्रन्थिभेदिनी ॥ १०॥
विवेकजननी प्रज्ञा ध्यानयोगप्रबोधिनी ।
आज्ञाचक्रसमासीना निर्गुणब्रह्मसंयुता ॥ ११॥
ब्रह्मरन्ध्रपद्मगता जगद्भावप्रणाशिनी ।
द्वादशान्तैकनिलया स्वस्वानन्दप्रदायिनी ॥ १२॥
पीयूषवर्षिणी बुद्धिस्स्वानन्देशप्रकाशिनी ।
इक्षुसागरमध्यस्था निजलोकनिवासिनी ॥ १३॥
वैनायकी विघ्नहन्त्री स्वानन्दब्रह्मरूपिणी ।
सुधामूर्तिस्सुधार्णवा केवला हृद्गुहामयी ॥ १४॥
शुभ्रवस्त्रा पीनकुचा कल्याणी हेमकञ्चुका ।
विकचाम्भोरुहदललोचना ज्ञानरूपिणी ॥ १५॥
रत्नताटङ्कयुगला भद्रा चम्पकनासिका ।
रत्नदर्पणसङ्काशकपोला निर्गुणात्मिका ॥ १६॥
ताम्बूलपूरितस्मेरवदना सत्यरूपिणी ।
कम्बुकण्ठी सुबिम्बोष्ठी वीणापुस्तकधारिणी ॥ १७॥
गणेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता ।
कैवल्यज्ञानसुखदपदाब्जा भारती मतिः ॥ १८॥
वज्रमाणिक्यकटककिरीटा मञ्जुभाषिणी ।
विघ्नेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा ॥ १९॥
अनेककोटिकेशार्कयुग्मसेवितपादुका ।
वागीश्वरी लोकमाता महाबुद्धिस्सरस्वती ॥ २०॥
चतुष्पष्टिकोटिविद्याकलालक्ष्मीनिषेविता ।
कटाक्षकिङ्करीभूतकेशवृन्दसमन्विता ॥ २१॥
ब्रहाविष्ण्वीशशक्तीनां दृशा शासनकारिणी ।
पञ्चचित्तवृत्तिमयी तारमन्त्रस्वरूपिणी ॥ २२॥
वरदा भक्तिवशगा भक्ताभीष्टप्रदायिनी ।
ब्रह्मशक्तिर्महामाया जगद्ब्रह्मस्वरूपिणी ॥ २३॥
अष्टोत्तरशतनाम्नां महाबुद्धेर्वरान्तगम् ।
यः पठेद्भक्तिभावेन विद्यां बुद्धिं श्रियं बलम् ।
सम्प्राप्य ज्ञानमतुलं ब्रह्मभूयमवाप्नुयात् ॥ २४॥
इति महाबुद्ध्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णा ।
Proofread by Narendran Madathil