महागायत्री खड्गमाला स्तोत्रम्
ॐ अस्य श्रीचतुर्वेदोक्तमहागायत्री-महालेखिनीश्वरी-महामहासरस्वती-परमेश्वरी-शुद्धशक्तिमहामन्त्रस्य उपस्थेन्द्रियाधिष्ठायी वरुणादित्यः, परब्रह्मपराशक्तिः, महाविराड्विश्वरूपः, सङ्कर्षणः, चित्रगुप्तधर्मराजः, स्वर्णाकर्षणभैरवः, भैरवादिमहाशिवात्मकध्यानपरिपूर्णानन्दपरशिवा ऋषयः । ऋग्यजुःसामाथर्वाणि छन्दांसि । अकारादिक्षकारान्तं तत्सदोङ्कारात्मकं परब्रह्म महापरभट्टारक महापीठस्थित परब्रह्मभैरवनिलया श्रीसहस्रभुजा महागायत्री लेखिनी सरस्वती परब्रह्मसुन्दरी महाविद्या श्रीमती महात्रिपुरसुन्दरी श्रीमाता देवता । प्रणवो बीजम् । भूर्भुवःस्वरादिव्याहृतयः शक्तयः । गायत्री कीलकम् । वेदमाता कवचम् । ब्रह्मविद्या हृदयम् । परावाक् गुह्यम् । चिदाकाशमस्त्रम् । सर्वमातृका मुद्राः । सर्वमन्त्ररहस्यं विनियोगः ।
ध्यानम् ।
ॐ बालां विद्यां तु गायत्रीं लोहितां चतुराननाम् ।
रक्ताम्बर द्वयो पेतामक्षसूत्रकरां तथा ।
कमण्डलुधरां देवीं हंसवाहन संस्थिताम् ।
ब्रह्माणीं ब्रह्मदैवत्यां ब्रह्मलोक निवासिनीम् ॥
मध्याह्ने विष्णुरूपां च तार्क्ष्यस्थां पीतवाससाम् ।
युवतीं च यजुर्वेदां सूर्यमण्डल संस्थिताम् ॥
सायाह्ने शिवरूपां च वृद्धां वृषभवाहिनीम् ।
सूर्यमण्डलमध्यस्थां सामवेदसमायुताम् ॥
नमो नमस्ते गायत्रि सावित्रि त्वां नमाम्यहम् ।
सरस्वति नमस्तुभ्यं तुरीये ब्रह्मरूपिणी ॥
करन्यासः -
ॐ तत्सवितुर्वरेण्यं अङ्गुष्ठाभ्यां नमः । भर्गो देवस्य तर्जनीभ्यां नमः । धीमहि मध्यमाभ्यां नमः । धियो यो नः अनामिकाभ्यां नमः । प्रचोदयात् कनिष्ठिकाभ्यां नमः । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् करतलकरपृष्ठाभ्यां नमः ॥
अङ्गन्यासः -
ॐ तत्सवितुर्वरेण्यं हृदयाय नमः । भर्गो देवस्य शिरसे स्वाहा । धीमहि शिखायै वषट् । धियो यो नः कवचाय हुम् । प्रचोदयात् नेत्रत्रयाय वौषट् । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् अस्त्राय फट् ॥
अथ स्तोत्रम् ।
ॐ ऐं ह्रीं श्रीं लीम् ।
श्रीलेखिनी हृदयदेवि । शिरोदेवि । शिखादेवि । कवचदेवि । नेत्रदेवि । अस्त्रदेवि । गुह्यदेवि । पाददेवि । सर्वाङ्गदेवि ।
महालेखे । परालेखे । चिदालेखे । ब्रह्मलेखे । विश्वलेखे । काललेखे । कर्मलेखे । भाग्यलेखे । आयुर्लेखे । श्रीलेखे । यशोलेखे । विद्यालेखे । मेधालेखे । प्रज्ञालेखे । धृतिलेखे । स्मृतिलेखे । श्रद्धालेखे । बुद्धिलेखे । विमर्शलेखे । चैतन्यलेखे । मूललेखे । सूत्रलेखे । अक्षरलेखे । वर्णलेखे । मन्त्रलेखे । तन्त्रलेखे । यन्त्रलेखे । शास्त्रलेखे । वेदलेखे । आगमलेखे । पुराणलेखे । निगमलेखे । रहस्यलेखे । गुह्यलेखे । महागुह्यलेखे । सर्वलेखस्वरूपिणि ।
दिव्यौघगुरुरूपिणि ।
पराशक्तिमयी । परमेश्वरमयी । श्रीपरमकृष्णमयी । महाविराट्विष्णुमयी । हिरण्यगर्भमयी । दत्तात्रेयमयी । दक्षिणामूर्तिमयी । सनकमयी । सनन्दनमयी । सनातनमयी । सनत्कुमारमयी । नारायणमयी । ईश्वरमयी । अनन्तमयी । स्वयम्भूमयी । दिव्यगुरुमयी ।
सिद्धौघगुरुरूपिणि ।
वसिष्ठमयी । कपिलमयी । प्रह्लादमयी । दशाननमयी । कुबेरमयी । मनुमयी । श्रीमहालक्ष्मीमयी । भृगुमयी । अत्रिमयी । अङ्गिरसमयी । याज्ञवल्क्यमयी । मार्कण्डेयमयी । शुकमयी । नारदमयी । विश्वामित्रमयी । सिद्धगुरुमयी ।
मानवौघगुरुरूपिणि ।
श्रीअगस्त्यमयी । क्रियागुरुमयी । आनन्दनाथमयी । मत्स्येन्द्रनाथमयी । गोरक्षनाथमयी । नवनाथमयी । जालन्धरनाथमयी । कानिफनाथमयी । चर्पटनाथमयी । गहिनीनाथमयी । निवृत्तिनाथमयी । ज्ञानेश्वरमयी । सोपाननाथमयी । मुक्तानाथमयी । मानवगुरुमयी ।
श्रीगुरुरूपिणि । परमगुरुरूपिणि । परापरगुरुरूपिणि । परमेष्ठिगुरुरूपिणि ।
परब्रह्मभैरवसहिता ।
हृदयशक्ति । शिरःशक्ति । शिखाशक्ति । कवचशक्ति । नेत्रशक्ति । अस्त्रशक्ति । इच्छाशक्ति । ज्ञानशक्ति । क्रियाशक्ति । पराशक्ति । आदिशक्ति । चिद्शक्ति । महाशक्ति । योगशक्ति । अमोघशक्ति । अनुग्रहशक्ति । निग्रहशक्ति । सृष्टिशक्ति । स्थितिशक्ति । संहारशक्ति । तिरोधानशक्ति । अनुग्रहशक्ति ।
हृल्लेखे । महालेखे । वागीशि । वर्णेशि । मातृके । स्वरे । व्यञ्जने । बीजे । नादे । बिन्दौ । कलायै । कलातीतायै । विमर्शिनि । संविद्रूपिणि । महाचिदाकाशरूपिणि । अक्षरब्रह्मस्वरूपिणि ।
सर्वज्ञानप्रदचक्रस्वामिनि ।
अणिमासिद्धे । महिमासिद्धे । गरिमासिद्धे । लघिमासिद्धे । प्राप्तिसिद्धे । प्राकाम्यसिद्धे । ईशित्वसिद्धे । वशित्वसिद्धे । कामावसायितासिद्धे । दूरदर्शनसिद्धे । दूरश्रवणसिद्धे । मनोजवसिद्धे । परकायप्रवेशसिद्धे । त्रिकालज्ञानसिद्धे । वाक्सिद्धे । लेखनसिद्धे । ग्रन्थसिद्धे । काव्यसिद्धे । मन्त्रसिद्धे । तन्त्रसिद्धे । यन्त्रसिद्धे । योगसिद्धे । समाधिसिद्धे । निर्विकल्पसिद्धे । ब्रह्मसाक्षात्कारसिद्धे । सर्वसिद्धिप्रदे ।
सर्वसिद्धिप्रदचक्रस्वामिनि ।
॥ सर्वब्रह्ममयचक्रस्वामिनि ॥
गायत्रीसहितपरब्रह्ममयि । सावित्रीसहितविष्णुमयि । सरस्वतीसहितरुद्रमयि । कालीसहितकृष्णमयि । तारासहितरामचन्द्रमयि । भुवनेश्वरीसहितसदाशिवमयि । षोडशीसहितकामेश्वरमयि । भैरवीसहितकालभैरवमयि । छिन्नमस्तासहितकबन्धभैरवमयि । धूमावतीसहिताघोरभैरवमयि । बगलामुखीसहितएकवक्त्रभैरवमयि । मातङ्गीसहितमतङ्गभैरवमयि । कमलासहितनारायणमयि । अन्नपूर्णासहितविश्वेश्वरमयि । लक्ष्मीसहितकुबेरमयि । राधासहितगोपीजनवल्लभमयि । सीतासहितरघुनाथमयि । उमासहितमहेश्वरमयि । रमासहितपरमपुरुषमयि । शचीसहितपुरन्दरमयि । स्वाहासहितवह्निमयि । स्वधासहितपितृमयि । रोहिणीसहितसोममयि । संज्ञासहितभास्करमयि । विनतासहितगरुडमयि । देवसेनासहितस्कन्दमयि । ऋद्धिसिद्धिसहितगणपतिमयि । तुलसीसहितदामोदरमयि । गङ्गासहितशम्भुमयि । यमुनासहितमधुसूदनमयि । वाग्देवीसहितवेदमयि । महामायासहितपरतत्त्वमयि । सर्वदैवतमयि ।
सर्वसम्पत्प्रदचक्रस्वामिनि ।
ऋग्वेदमयि । यजुर्वेदमयि । सामवेदमयि । अथर्ववेदमयि । शिक्षामयि । कल्पमयि । व्याकरणमयि । निरुक्तमयि । छन्दोमयि । ज्योतिष्मयि । मीमांसामयि । वेदान्तमयि । आगममयि । निगममयि । तन्त्रमयि । यन्त्रमयि । मन्त्रमयि । सूत्रमयि । इतिहासमयि । पुराणमयि । सर्वशास्त्रमयि ।
सर्वविद्यामयचक्रस्वामिनि ।
अकारमयि । आकारमयि । इकारमयि । ईकारमयि । उकारमयि । ऊकारमयि । ऋकारमयि । ॠकारमयि । ऌकारमयि । ॡकारमयि । एकारमयि । ऐकारमयि । ओकारमयि । औकारमयि । अङ्कारमयि । अःकारमयि । ककारादिक्षकारान्तमातृकामयि । पञ्चाशद्वर्णमयि । नादमयि । बिन्दुमयि । कलामयि । व्यापिकामयि । समनामयि । उन्मनामयि । महाशून्यमयि । चिदाकाशमयि । परावाक्मयि । पश्यन्तीमयि । मध्यमामयि । वैखरीमयि ।
सर्वमातृकामयचक्रस्वामिनि ।
श्रीमहेश्वरि । महामहाविद्ये । महामहाशक्ते । महामहाश्रये । महामहाभोगे । महामहायोगे । महामहाकल्याणि । महामहामङ्गले । महामहामङ्गलमूर्ते । महामहासौभाग्यदायिनि । महामहासिद्धिदायिनि । महामहावागीश्वरि । महामहालेखेश्वरि । महामहागुह्ये । महामहारहस्ये । महामहापरदेवते । महामहापराशक्ते । महामहापरमेश्वरि । महामहामात्रिके । महामहागायत्रि । महामहात्रिपुरे । महामहाभुवनेश्वरि । महामहाचिदम्बरेश्वरि । महामहाब्रह्मविद्ये । महामहापूर्णानन्दे । महामहामुक्तिदायिनि । महामहाकरुणामयि । महामहाज्ञानस्वरूपिणि । महामहाश्रीपरब्रह्मबिन्दो । श्रीमन्नगरनिलये । श्रीअनन्तकोटिब्रह्माण्डनायिके महामहाश्रीमहाराज्ञि ।
नमस्ते नमस्ते नमस्ते नमः ।
ॐ ऐं ह्रीं श्रीं लीं स्वाहा ॥
इत्येतत् कथितं देवि श्रीलेखिन्याः परं महत् ।
खड्गमालामयं दिव्यं रहस्यानामपि रहः ॥
नैतत् वेदैर्न शास्त्रैश्च न पुराणशतैरपि ।
लभ्यते तपसा घोरे गुरुभक्त्यैव लभ्यते ॥
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।
अभक्ताय न दातव्यं निन्दकाय कदाचन ॥
भक्ताय गुरुभक्ताय शान्तचित्ताय योगिने ।
दद्यात् परीक्ष्य विधिना सर्वसिद्धिप्रदं परम् ॥
यः पठेन्नित्यकालं तु श्रद्धाभक्तिसमन्वितः ।
तस्य भाग्यलिपिर्दिव्या स्वयं देवी प्रलिख्यते ॥
दुर्भाग्यरेखाः सर्वास्तु क्षीयन्ते क्षणमात्रतः ।
सौभाग्यसञ्चयो नित्यं वर्धते च दिने दिने ॥
अलिखितं लिखितं चैव दुष्टलेखं विनश्यति ।
दैवरेखा शुभा भूत्वा प्रसन्ना जायते ध्रुवम् ॥
दरिद्रो धनवान् भूयादविद्वान् वेदपारगः ।
मूकः स्याद्वाक्पतिः सद्यो निर्बलः सिंहविक्रमः ॥
अकीर्तिर्विपुलां कीर्तिं निर्लक्ष्मीर्लभते श्रियम् ।
अपुत्रः पुत्रमाप्नोति निर्गृहो मन्दिरं लभेत् ॥
गद्यपद्यप्रबन्धेषु स्वतन्त्रं जायते मनः ।
अलिखितोऽपि ग्रन्थार्थः स्वयमेव प्रकाशते ॥
वाग्देवी तस्य जिह्वाग्रे नित्यवासं प्रपद्यते ।
लेखिनी हस्तपद्मे च नृत्यतीव मुहुर्मुहुः ॥
यत्रैतत्पठ्यते नित्यं पूज्यते वा समाहितैः ।
तत्र लक्ष्मीर्ध्रुवा नित्यं जयश्रीर्नापसर्पति ॥
भूर्जपत्रे समालिख्य गोरोचनकुङ्कुमैः ।
धारयेद्यदि भक्त्या वै सर्वरक्षाकरं परम् ॥
राजद्वारे सभामध्ये सङ्ग्रामे शत्रुसङ्कटे ।
वने जले गिरौ दुर्गे न भयं तस्य जायते ॥
भूतप्रेतपिशाचाद्या डाकिन्यो योगिनीगणाः ।
दृष्ट्वैव दूरतो यान्ति खड्गमालाप्रभावतः ॥
यक्षरक्षोग्रहव्याधिदारिद्र्योपद्रवास्तथा ।
नश्यन्ति स्मरणादस्य वह्नौ तूलमिव क्षणात् ॥
अणिमा महिमा चैव गरिमा लघिमा तथा ।
प्राप्तिः प्राकाम्यमीशित्वं वशित्वं च प्रसिद्यति ॥
त्रिकालज्ञानसम्पत्तिर्दूरदृष्टिर्मनोरथः ।
परचित्तावबोधश्च गुरुपादप्रसादतः ॥
चतुःषष्टिकलाः सर्वा विद्याश्चाष्टादश स्मृताः ।
अनायासेन सिद्ध्यन्ति लेखिनीपरितोषतः ॥
न मन्त्रः सदृशोऽस्यास्ति न विद्या न च देवता ।
न तीर्थं न तपो दानं न योगो न च साधनम् ॥
यत्र गायत्र्यधिष्ठानं यत्र श्रीत्रिपुरा स्वयम् ।
यत्र ब्रह्म परं ज्योतिस्तत्र लेखिन्यवस्थितिः ॥
यत्र लेखिन्यधिष्ठानं तत्र वेदाश्चतुर्दश ।
तत्र सर्वाणि तन्त्राणि तत्र सर्वा महाविद्याः ॥
यत्र सा परमालेखा तत्र श्रीपरब्रह्म तत् ।
यत्र परब्रह्म तत्रैव न पुनर्जन्म विद्यते ॥
इदं स्तोत्रं महागुह्यं खड्गमालामनुत्तमम् ।
सर्वमन्त्रेषु मन्त्रेन्द्रं सर्वतन्त्रेषु तन्त्रराट् ॥
लेखिनीप्रीतिदं नित्यं ब्रह्मसाम्राज्यदायकम् ।
भुक्तिं मुक्तिं च विज्ञानं स्वयमेव प्रयच्छति ॥
॥ इति श्रीसिद्धाश्रमोक्ते गुप्तयामले श्रीलेखिनीरहस्ये श्रीभैरवभैरवीसंवादे परब्रह्म महागायत्री खड्गमाला स्तोत्रं सम्पूर्णम् ॥
गायत्री यन्त्र स्तोत्रं अथवा गायत्री सिद्ध शक्ति मालामन्त्रं च
Encoded and proofread by Rukmini Goswami