श्रीमहागौर्यष्टकम्
श्वेतवर्णां महागौरीं श्वेताम्बरविभूषिताम् ।
वृषभारूढदेवीं त्वां महागौरीं नमाम्यहम् ॥ १॥
चतुर्बाहुयुतां देवीं त्रिशूलाभयधारिणीम् ।
चन्द्रहासोज्ज्वलां रम्यां महागौरीं नमाम्यहम् ॥ २॥
चन्द्रवक्त्रां विशालाक्षीं करुणामृतवर्षिणीम् ।
भक्ताभीष्टप्रदात्रीं तां महागौरीं नमाम्यहम् ॥ ३॥
तपसा लब्धगौराङ्गीं शिवप्रेमपरायणाम् ।
सर्वमङ्गलदात्रीं तां महागौरीं नमाम्यहम् ॥ ४॥
पापतापहरां देवीं दुःखदारिद्र्यहारिणीम् ।
सौभाग्यसुखदात्रीं तां महागौरीं नमाम्यहम् ॥ ५॥
विद्याबुद्धिप्रदां श्रेयां प्रेयमार्गप्रदर्शिनीम् ।
अज्ञानतिमिरघ्नीं तां महागौरीं नमाम्यहम् ॥ ६॥
संसारभयसंहर्त्रीं शरणागतपालिनीम् ।
सर्वसिद्धिप्रदात्रीं तां महागौरीं नमाम्यहम् ॥ ७॥
महागौर्यष्टकं पुण्यं भक्त्या यः पठते नरः ।
तस्य शान्तिश्च सुखञ्च देवीकृपा प्रजायते ॥ ८॥
इति प्रदीप्तनन्दशर्मविरचितं श्रीमहागौर्यष्टकं सम्पूर्णम् ।
Composed, encoded, and proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com