महालक्ष्मीदण्डकः
मन्दारमालाञ्चितकेशभारां मन्दाकिनीनिर्झरगौरहाराम् ।
वृन्दारिकावन्दितकीर्तिपारां वन्दामहे मां कृतसद्विहाराम् ॥ १॥
जय दुग्धाब्धितनये जय नारायणप्रिये ।
जय हैरण्यवलये जय वेलापुराश्रये ॥ २॥
जय जय जनयित्रि वेलापुराभ्यन्तरप्रस्फुरत्स्फार-
सौधाञ्चितोदारसालान्तरागारखेलन्मुरारातिपार्श्वस्थिते ।
क्लृप्तविश्वस्थिते ।
चित्ररत्नज्वलद्रत्नसानूपमप्रत्नसौवर्ण
कोटीरकान्तिच्छटाचित्रिताच्छाम्बरे । देवि दिव्याम्बरे ।
फुल्लसन्मल्लिकामालिकाप्रोल्लसन्नीलभोगीशभोगप्रतीकाश-
वेण्यर्धचन्द्रालिके । वल्गुनीलालके । केशसौरभ्यलोभ-
भ्रमत्स्थूलजम्बूफलाभालिमालासमाकर्षणेहोत्पतन्मौलि-
वैडूर्यसन्दर्श नत्रस्तलीलाशुकालोकजातस्मिते । देवजातस्तुते ।
ईश्वरीशेखरीभूतसोमस्मयोत्सादनाभ्युत्सुकत्वच्छिरःसंश्रित-
प्राप्तनित्योदयब्रघ्नशङ्काकरस्वर्णकोटीरसन्दर्शनानन्दितस्वीय-
ताताङ्ककारोहणाभीप्सुलब्धान्तिकार्कात्म-
जानिर्झराशङ्कनीयान्तकस्तूरिकाचित्रके । वार्धिराट्पुत्रिके ।
मान्मथश्यामलेक्ष्वात्मधन्वाकृतिस्निग्धमुग्धाद्भुत-
भ्रूलता चालनारब्धलोकालिनिर्माणरक्षिण्यसंहारलीलेऽमले ।
सर्वदे कोमले । स्वप्रभान्यक्कृते स्वानुगश्रुत्यधःकारिणीकान्ति-
नीलोत्पले बाधितुं वागताभ्यां श्रवःसन्निधिं लोचनाभ्यां
भृशं भूषिते । मञ्जुसम्भाषिते । किञ्चिदुद्बुद्धचाम्पेय-
पुष्पप्रतीकाशनासास्थितस्थूलमुक्ताफले ।
दत्तभक्तौघवाञ्छाफले । शोणबिम्बप्रवालाधरद्योतविद्योत-
मानोल्लसद्दाडिमीबीजराजिप्रतीकाशदन्तावले ।
गत्यधः क्लृप्तदन्तावले ।
त्वत्पतिप्रेरितत्वष्टसृष्टाद्भुतातीद्धभस्मासुरत्रस्त
दुर्गाशिवत्राणसन्तुष्टतद्दत्तशीतांशुरेखायुगात्मत्वसम्भावना-
योग्यमुक्तामयप्रोल्लसत्कुण्डले । पालिताखण्डले ॥ १॥
अयि सुरुचिरनव्यदूर्वादलभ्रान्तिनिष्पादकप्रोल्लसत्कण्ठ-
भूषानिबद्धायतानर्घ्यगारुत्मतांशुप्रजापात्यसारङ्ग-
नारीस्थिरस्थापकाश्चर्यकृद्दिव्यमाधुर्यगीतोज्ज्वले । मञ्जुमुक्तावले ।
अङ्गदप्रोतदेवेन्द्रनीलोपलत्विट्छटाश्यामलीभूतचोलोज्ज्वलस्थूल-
हेमार्गलाकारदोर्वल्लिके । फुल्लसन्मल्लिके । ऊर्मिकासञ्चयस्यूत
शोणोपलश्रीप्रवृद्धारुणच्छायमृद्वङ्गुलीपल्लवे ।
लालितानन्दकृत्सल्लवे । दिव्यरेखाङ्कुशाम्भोजचक्रध्व-
जाद्यङ्कराजत्करे । सम्पदेकाकरे ।
कङ्कणश्रेणिकाबद्धरत्नप्रभाजालचित्रीभवत्पद्मयुग्म-
स्फुरत्पञ्चशाखद्वये । गूढपुण्याशये । मत्पदाब्जोपकण्ठे
चतुःपूरुषार्था वसन्त्यत्र मामाश्रयं कुर्वते तान् प्रदास्यामि
दासाय चेत्यर्थकं त्वन्मनोनिष्ठभावं जगन्मङ्गलं सूचयद् वा
वराभीतिमुद्राद्वया व्यञ्जयस्यङ्गपाणिद्वयेनाम्बिके । पद्मपत्राम्बके ।
चारुगम्भीरकन्दर्पकेल्यर्थनाभीसरस्तीरसौवर्ण-
सोपानरेखागतोत्तुङ्गवक्षोजनामाङ्कितस्वर्णशैल-
द्वयारोहणार्थेन्द्रनीलोपलाबद्धसूक्ष्माध्व-
सम्भावनायोग्यसद्रोमराज्याढ्यदेहे रमे । का गतिः श्रीरमे ।
निष्कनक्षत्रमालासदृक्षाभनक्षत्रमालाप्रवालस्रगेकावली-
मुख्यभूषाविशेषप्रभाचित्रिताच्छोत्तरासङ्गसञ्छिन्नवक्षोरुहे
। चञ्चलागौरि हे ।
केलिकालक्वणत्किङ्किणीश्रेणिकायुक्तसौवर्णकाञ्चीनिबद्ध-
स्फुरत्स्पष्टनीव्याढ्यशुक्लाम्बरे । भासिताशाम्बरे ।
पुण्डरीकाक्षवक्षःस्थलीचर्चितानर्घ्यपाटीरपङ्काङ्कितानङ्ग-
निक्षेपकुम्भस्तने । प्रस्फुरद्गोस्तने ॥ २॥
गुरुनिबिडनितम्बबिम्बाकृतिद्राविताशीतरुक्स्यन्दनप्रोतचन्द्रावले-
पोत्करे । स्वर्णविद्युत्करे । भोः प्रयच्छामि ते चित्ररत्नोर्मिकां
मामिकां सादरादेह्यदो मध्यमं भूषयाद्यैतया द्रष्टुमिच्छाम्यहं
साध्विति त्वत्पतिप्रेरितायां मुदा पाणिनादाय धृत्वा रहः
केशवं लीलयानन्दयः सप्तकीवास्ति ते । सप्तलोकीस्तुते ।
चित्ररोचिर्महामेखलामण्डितानन्तरत्नस्फुरत्तोरणालङ्कृत-
श्लक्ष्णकन्दर्पकान्ताररम्भातरुद्वन्द्वसम्भावनीयोरुयुग्मे रमे ।
सम्पदं देहि मे । पद्मरागोपलादर्शबिम्बप्रभाच्छायसुस्निग्धजानु
.... द्वये शोभने चन्द्रबिम्बानने ।
शम्बरारातिजैत्रप्रयाणोत्सवारम्भजृम्भन्महा-
काहलीडम्बरस्वर्णतूणीरजङ्घे शुभे । शारदार्कप्रमे ।
हंसराजक्वणद्धंसबिम्बस्फुरद्धंसकालङ्कृतस्पष्ट-
लेखाङ्कुशाम्भोजचक्रध्वज-व्यञ्जनालङ्कृतश्रीपदे ।
त्वां भजे सम्पदे । नम्रवृन्दारिकाशेखरीभूतसौवर्ण-
कोटीररत्नावलीदीपिकाराजिनीराजितोत्तुङ्गगाङ्गेय-
सिंहासनास्तीर्णसौवर्णबिन्द्वङ्कसौरभ्यसम्पन्नतल्पस्थिते ।
सन्ततस्वःस्थिते । चेटिकादत्तकर्पूरखण्डान्वितश्वेतवीटीदरादान-
लीलाचलद्दोर्लते । दैवतैरर्चिते । रत्नताटङ्ककेयूरहारावली-
मुख्यभूषाच्छटारञ्जितानेकदासीसभावेष्टिते । देवताभिष्टुते ।
पार्श्वयुग्मोल्लसच्चामरग्राहिणीपञ्चशाखाम्बुजाधूत-
जृम्भद्रणत्कङ्कणाभिष्टुताभीशुसच्चामराभ्यां मुदा चीज्यसे ।
कर्मठैरिज्यसे । मञ्जुमञ्जीरकाञ्च्युर्मिकाकङ्कणश्रेणि-
केयूरहारावली- कुण्डलीमौलिनासामणिद्योतिते । भक्तसञ्जीविते ॥ ३॥
जलधरगतशीतवातार्दिता चारुनीरन्ध्रदेवालयान्तर्गता विद्युदेषा
हि किं भूतलेऽपि स्वमाहाल्यसन्दर्शनार्थं क्षमामास्थिता
कल्पवल्येव किं घस्रमात्रोल्लसन्तं रविं रात्रिमात्रोल्लसन्तं विधुं
संविधाय स्वतो वेघसातुष्टचित्तेन सृष्टा सदाप्युल्लसन्ती
महादिव्यतेजोमयी दिव्यपाञ्चालिका वेति सद्भिः सदा तवर्यसे । त्वां
भजे मे भव श्रेयसे । पूर्वकद्वारनिष्ठेन नृत्यद्वराकाररम्भा-
दिवाराङ्गनाश्रेणिगीतामृताकर्णनायत्त-
चित्तामराराधितेनोच्चकैर्भार्गवीन्द्रेण सम्भाविते । नो समा
देवता देवि ते । दक्षिणद्वारनिष्ठेन सच्चित्रगुप्तादियुक्तेन
वैवस्वतेनार्च्यसे । योगिभिर्भाव्यसे । पश्चिमद्वारभाजा भृशं
पाशिना स्वर्णेदी- मुख्यनद्यन्वितेनेड्यसे । सादरं पूज्यसे ।
उत्तरद्वारनिष्ठेन यक्षोत्तमैर्नम्रकोटीरजूटैर्मनोहारिभी
राजराजेन भक्तेन सम्भाव्यसे । योगिभिः पूज्यसे । लक्ष्मि
पद्मालये भार्गवि श्रीरमे लोकमातः समुद्रेशकन्येऽच्युतप्रेयसि
.... । स्वर्णशोभे च मे चेन्दिरे विष्णुवक्षः स्थिते
पाहि पाहीति यः प्रातरुत्थाय भक्त्या युतो नौति सोऽयं नरः
सम्पदं प्राप्य विद्योतते । भूषणद्योतिते । दिव्य
कारुण्यदृष्ट्याशु मां पश्य मे दिव्यकारुण्यदृष्ट्याशु
मां पश्य मे दिव्यकारुण्यदृष्ट्याशु मां पश्य मे । मां किमर्थं
सदोपेक्षसे नेक्षसे त्वत्पदाब्जं विना नास्ति मेऽन्या गतिः सम्पदं देहि
मे सम्पदं देहि मे सम्पदं देहि मे । त्वत्पदाब्जं प्रपन्नोऽस्म्यहं
सर्वदा त्वं प्रसन्ना सती पाहि मां पाहि मां पाहि मां पद्महस्ते
त्रिलोकेश्वरिं प्रार्थये त्वामहं देवि तुभ्यं नमो देवि तुभ्यं नमो
देवि तुभ्यं नमः ॥ सत्रिषष्ट्युत्तरशतरगणाढ्यश्चतुर्दलः ।
महालक्ष्मीदण्डकोऽयं कृतः केशवसूरिणा ॥
इति केशवसूरिकृतः महालक्ष्मीदण्डकः सम्पूर्णः ।
स्तोत्रसमुच्चयः २ (८५)
The Mahalakshmidandaka (85) of Keshavasuri, who
seems to be identical with Kesavadesika mentioned
in the Sadananadandaka 3 by Ramanujadesika, is on
the model of the well-known Shyamaladandaka. It
is composed of 163 ra-gaNa-s (two long syllables
with a short one in between) and is divided into
four sections.
Proofread by Rajesh Thyagarajan