महासिद्धिदेव्यष्टोत्तरशतनामावलिः
ॐ ह्रीं स्वानन्दभवनान्तस्थहर्म्यस्थायै नमः ।
ॐ ह्रीं गणपप्रियायै नमः ।
ॐ ह्रीं संयोगस्वानन्दब्रह्मशक्त्यै नमः ।
ॐ ह्रीं संयोगरूपिण्यै नमः ।
ॐ ह्रीं अतिसौन्दर्यलावण्यायै नमः ।
ॐ ह्रीं महासिद्ध्यै नमः ।
ॐ ह्रीं गणेश्वर्यै नमः ।
ॐ ह्रीं वज्रमाणिक्यमकुटकटकादिविभूषितायै नमः ।
ॐ ह्रीं कस्तूरीतिलकोद्भासिनिटिलायै नमः ।
ॐ ह्रीं पद्मलोचनायै नमः । (१०)
ॐ ह्रीं शरच्चाम्पेयपुष्पाभनासिकायै नमः ।
ॐ ह्रीं मृदुभाषिण्यै नमः ।
ॐ ह्रीं लसत्काञ्चनताटङ्कयुगलायै नमः ।
ॐ ह्रीं योगिवन्दितायै नमः ।
ॐ ह्रीं मणिदर्पणसङ्काशकपोलायै नमः ।
ॐ ह्रीं काङ्क्षितार्थदायै नमः ।
ॐ ह्रीं ताम्बूलपूरितस्मेरवदनायै नमः ।
ॐ ह्रीं विघ्ननाशिन्यै नमः ।
ॐ ह्रीं सुपक्वदाडिमीबीजरदनायै नमः ।
ॐ ह्रीं रत्नदायिन्यै नमः । (२०)
ॐ ह्रीं कम्बुवृत्तसमच्छायकन्धरायै नमः ।
ॐ ह्रीं करुणायुतायै नमः ।
ॐ ह्रीं मुक्ताभायै नमः ।
ॐ ह्रीं दिव्यवसनायै नमः ।
ॐ ह्रीं रक्तकल्हारमालिकायै नमः ।
ॐ ह्रीं गणेशबद्धमाङ्गल्यायै नमः ।
ॐ ह्रीं मङ्गलायै नमः ।
ॐ ह्रीं मङ्गलप्रदायै नमः ।
ॐ ह्रीं वरदाभयहस्ताब्जायै नमः ।
ॐ ह्रीं भवबन्धविमोचिन्यै नमः । (३०)
ॐ ह्रीं सुवर्णकुम्भयुग्माभसुकुचायै नमः ।
ॐ ह्रीं सिद्धिसेवितायै नमः ।
ॐ ह्रीं बृहन्नितम्बायै नमः ।
ॐ ह्रीं विलसज्जघनायै नमः ।
ॐ ह्रीं जगदीश्वर्यै नमः ।
ॐ ह्रीं सौभाग्यजातशृङ्गारमध्यमायै नमः ।
ॐ ह्रीं मधुरस्वनायै नमः ।
ॐ ह्रीं दिव्यभूषणसन्दोहरञ्जितायै नमः ।
ॐ ह्रीं ऋणमोचिन्यै नमः ।
ॐ ह्रीं पारिजातगुणाधिक्यपदाब्जायै नमः । (४०)
ॐ ह्रीं परमात्मिकायै नमः ।
ॐ ह्रीं सुपद्मरागसङ्काशचरणायै नमः ।
ॐ ह्रीं चिन्तितार्थदायै नमः ।
ॐ ह्रीं ब्रह्मभावमहासिद्धिपीठस्थायै नमः ।
ॐ ह्रीं पङ्कजासनायै नमः ।
ॐ ह्रीं हेरम्बनेत्रकुमुदचन्द्रिकायै नमः ।
ॐ ह्रीं चन्द्रभूषणायै नमः ।
ॐ ह्रीं सचामरशिवावाणीसव्यदक्षिणसेवितायै नमः ।
ॐ ह्रीं भक्तरक्षणदाक्षिण्यकटाक्षायै नमः ।
ॐ ह्रीं कमलासनायै नमः । (५०)
ॐ ह्रीं गणेशालिङ्गनोद्भुतपुलकाङ्ग्यै नमः ।
ॐ ह्रीं परात्परायै नमः ।
ॐ ह्रीं लीलाकल्पितब्रह्माण्डकोटिकोटिसमन्वितायै नमः ।
ॐ ह्रीं वाणीकोटिसमायुक्तकोटिब्रह्मनिषेवितायै नमः ।
ॐ ह्रीं लक्ष्मीकोटिसमायुक्तविष्णुकोटिप्रपूजितायै नमः ।
ॐ ह्रीं गौरीकोटिसमायुक्तशम्भुकोटिसुसेवितायै नमः ।
ॐ ह्रीं प्रभाकोटिसमायुक्तकोटिभास्करवन्दितायै नमः ।
ॐ ह्रीं भानुकोटिप्रतीकाशायै नमः ।
ॐ ह्रीं चन्द्रकोटिसुशीतलायै नमः ।
ॐ ह्रीं चतुष्षष्टिकोटिसिद्धिनिषेवितपदाम्बुजायै नमः । (६०)
ॐ ह्रीं मूलाधारसमुत्पन्नायै नमः ।
ॐ ह्रीं मूलबन्धविमोचिन्यै नमः ।
ॐ ह्रीं मूलाधारैकनिलयायै नमः ।
ॐ ह्रीं योगकुण्डलिभेदिन्यै नमः ।
ॐ ह्रीं मूलाधारायै नमः ।
ॐ ह्रीं मूलभूतायै नमः ।
ॐ ह्रीं मूलप्रकृतिरूपिण्यै नमः ।
ॐ ह्रीं मूलाधारगणेशानवामभागनिवासिन्यै नमः ।
ॐ ह्रीं मूलविद्यायै नमः ।
ॐ ह्रीं मूलरूपायै नमः । (७०)
ॐ ह्रीं मूलग्रन्थिविभेदिन्यै नमः ।
ॐ ह्रीं स्वाधिष्ठानैकनिलयायै नमः ।
ॐ ह्रीं ब्रह्मग्रन्थिविभेदिन्यै नमः ।
ॐ ह्रीं मणिपूरान्तरुदितायै नमः ।
ॐ ह्रीं विष्णुग्रन्थिविभेदिन्यै नमः ।
ॐ ह्रीं अनाहतैकनिलयायै नमः ।
ॐ ह्रीं रुद्रग्रन्थिविभेदिन्यै नमः ।
ॐ ह्रीं विशुद्धिस्थाननिलयायै नमः ।
ॐ ह्रीं जीवभावप्रणाशिन्यै नमः ।
ॐ ह्रीं आज्ञाचक्रान्तरालस्थायै नमः । (८०)
ॐ ह्रीं ज्ञानसिद्धिप्रदायिन्यै नमः ।
ॐ ह्रीं ब्रह्मरन्ध्रैकनिलयायै नमः ।
ॐ ह्रीं ब्रह्मभावप्रदायिन्यै नमः ।
ॐ ह्रीं षट्कोणाष्टदलयुतश्रीसिद्धियन्त्रमध्यगायै नमः ।
ॐ ह्रीं अन्तर्मुखजनानन्तफलदायै नमः ।
ॐ ह्रीं शोकनाशिन्यै नमः ।
ॐ ह्रीं अव्याजकरुणापूरपूरितायै नमः ।
ॐ ह्रीं वसुधारिण्यै नमः ।
ॐ ह्रीं दारिद्र्यनाशिन्यै नमः ।
ॐ ह्रीं लक्ष्म्यै नमः । (९०)
ॐ ह्रीं सर्वपापप्रणाशिन्यै नमः ।
ॐ ह्रीं भुक्तिसिध्यै नमः ।
ॐ ह्रीं मुक्तिसिध्यै नमः ।
ॐ ह्रीं सुधामण्डलमध्यगायै नमः ।
ॐ ह्रीं चिन्तामणये नमः ।
ॐ ह्रीं सर्वसिध्यै नमः ।
ॐ ह्रीं कमलायै नमः ।
ॐ ह्रीं वल्लभायै नमः ।
ॐ ह्रीं शिवायै नमः ।
ॐ ह्रीं सिद्धलक्ष्म्यै नमः । (१००)
ॐ ह्रीं मोक्षलक्ष्म्यै नमः ।
ॐ ह्रीं जयलक्ष्म्यै नमः ।
ॐ ह्रीं वरप्रदायै नमः ।
ॐ ह्रीं रमायै नमः ।
ॐ ह्रीं नन्दायै नमः ।
ॐ ह्रीं महालक्ष्म्यै नमः ।
ॐ ह्रीं विभूत्यै नमः ।
ॐ ह्रीं भक्तिवर्धिन्यै नमः । (१०८)
इति महासिद्धिदेव्यष्टोत्तरशतनामावलिः सम्पूर्णा ।
Proofread by Narendran Madathil