महासिद्धिदेव्यष्टोत्तरशतनामस्तोत्रम्
सूर्य उवाच-
स्वानन्दभवनान्तस्थहर्म्यस्था गणपप्रिया ।
संयोगस्वानन्दब्रह्मशक्तिः संयोगरूपिणी ॥ १॥
अतिसौन्दर्यलावण्या महासिद्धिर्गणेश्वरी ।
वज्रमाणिक्यमकुटकटकादिविभूषिता ॥ २॥
कस्तूरीतिलकोद्भासिनिटिला पद्मलोचना ।
शरच्चाम्पेयपुष्पाभनासिका मृदुभाषिणी ॥ ३॥
लसत्काञ्चनताटङ्कयुगला योगिवन्दिता ।
मणिदर्पणसङ्काशकपोला काङ्क्षितार्थदा ॥ ४॥
ताम्बूलपूरितस्मेरवदना विघ्ननाशिनी ।
सुपक्वदाडिमीबीजरदना रत्नदायिनी ॥ ५॥
कम्बुवृत्तसमच्छायकन्धरा करुणायुता ।
मुक्ताभा दिव्यवसना रत्नकल्हारमालिका ॥ ६॥
गणेशबद्धमाङ्गल्या मङ्गला मङ्गलप्रदा ।
वरदाभयहस्ताब्जा भवबन्धविमोचिनी ॥ ७॥
सुवर्णकुम्भयुग्माभसुकुचा सिद्धिसेविता ।
बृहन्नितम्बा विलसज्जघना जगदीश्वरी ॥ ८॥
सौभाग्यजातशृङ्गारमध्यमा मधुरस्वना ।
दिव्यभूषणसन्दोहरञ्जिता ऋणमोचिनी ॥ ९॥
पारिजातगुणाधिक्यपदाब्जा परमात्मिका ।
सुपद्मरागसङ्काशचरणा चिन्तितार्थदा ॥ १०॥
ब्रह्मभावमहासिद्धिपीठस्था पङ्कजासना ।
हेरम्बनेत्रकुमुदचन्द्रिका चन्द्रभूषणा ॥ ११॥
सचामरशिवावाणीसव्यदक्षिणवीजिता ।
भक्तरक्षणदाक्षिण्यकटाक्षा कमलासना ॥ १२॥
गणेशालिङ्गनोद्भूतपुलकाङ्गी परात्परा ।
लीलाकल्पितब्रह्माण्डकोटिकोटिसमन्विता ॥ १३॥
वाणीकोटिसमायुक्तकोटिब्रह्मनिषेविता ।
लक्ष्मीकोटिसमायुक्तविष्णुकोटिप्रपूजिता ॥ १४॥
गौरीकोटिसमायुक्तशम्भुकोटिसुसेविता ।
प्रभाकोटिसमायुक्तकोटिभास्करवन्दिता ॥ १५॥
भानुकोटिप्रतीकाशा चन्द्रकोटिसुशीतला ।
चतुष्षष्टिकोटिसिद्धिनिषेवितपदाम्बुजा ॥ १६॥
मूलाधारसमुत्पन्ना मूलबन्धविमोचिनी ।
मूलाधारैकनिलया योगकुण्डलिभेदिनी ॥ १७॥
मूलाधारा मूलभूता मूलप्रकृतिरूपिणी ।
मूलाधारगणेशानवामभागनिवासिनी ॥ १८॥
मूलविद्या मूलरूपा मूलग्रन्थिविभेदिनी ।
स्वाधिष्ठानैकनिलया ब्रह्मग्रन्थिविभेदिनी ॥ १९॥
मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ।
अनाहतैकनिलया रुद्रग्रन्थिविभेदिनी ॥ २०॥
विशुद्धिस्थाननिलया जीवभावप्रणाशिनी ।
आज्ञाचक्रान्तरालस्था ज्ञानसिद्धिप्रदायिनी ॥ २१॥
ब्रह्मरन्ध्रैकनिलया ब्रह्मभावप्रदायिनी ।
षट्कोणाष्टदलयुतश्रीसिद्धियन्त्रमध्यगा ॥ २२॥
अन्तर्मुखजनानन्तफलदा शोकनाशिनी ।
अव्याजकरुणापूरपूरिता वसुधारिणी ॥ २३॥
दारिद्र्यनाशिनी लक्ष्मीस्सर्वपापप्रणाशिनी ।
भुक्तिसिद्धिर्मुक्तिसिद्धिस्सुधामण्डलमध्यगा ॥ २४॥
चिन्तामणिस्सर्वसिद्धिः कमलावल्लभा शिवा ।
सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीर्वरप्रदा ॥ २५॥
रमानन्दा महालक्ष्मीर्विभूतिर्भक्तिवर्धिनी ।
अष्टोत्तरशतं नाम्नां महासिद्धेरिदं वरम् ॥ २६॥
आज्ञया गणनाथस्य गणकेन प्रकीर्तितम् ।
यः पठेद् गाणपो भक्त्या पूजयेद्वा सुनामभिः ।
धर्ममर्थं च कामं च लब्ध्वा मोक्षमवाप्नुयात् ॥ २७॥
इति महासिद्धिदेव्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
Proofread by Narendran Madathil