श्रीमहात्रिपुरसुन्दरीषट्कम्
मनोज्ञमणिकुण्डलां महितचक्रराजालयां
मनोऽम्बुजविहारिणीं परशिवस्य वामाङ्कगाम् ।
महाहरिमुखामरप्रणतपादपङ्केरुहां
महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ १॥
मतङ्गमुनिपूजितां मथितपापसङ्घां जवा-
न्मदारुणितलोचनां मदमुखारिनिर्वापिणीम् ।
मनःसु यमिनां सदा स्थितिविहारिणीं मोदतो
महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ २॥
विचित्रकविताप्रदां नतततेर्विलम्बं विना
विधीन्द्रहरिवन्दितां विधिनिषेधसक्तार्चिताम् ।
विनायकविभावसूद्भवविभासिपार्श्वद्वयां
महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ ३॥
विनिन्दितविभावरीविटसहस्रगर्वाननां
विनिर्मितजगत्त्रयीं विधुसमानमन्दस्मिताम् ।
विबोधनपटीयसीं विनतसन्ततेः सत्वरं
महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ ४॥
विमानचरमानिनीविहितपादसेवां मुदा
विशालनयनाम्बुजां विधृतचापपाशाङ्कुशाम् ।
विशुद्धिसरसीरुहे कृतनिजासनां सर्वदा
महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ ५॥
विरागिजनसेवितां विमलबुद्धिसन्दायिनीं
विराधरिपुपूजितां विविधरत्नभूषोज्ज्वलाम् ।
विरिञ्चिहरिसुन्दरीकलितचामरावीजनां
महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ ६॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीमहात्रिपुरसुन्दरीषट्कं सम्पूर्णम् ।
Proofread by PSA Easwaran