महात्रिपुरसुन्दरीत्रिशतिस्तोत्रम्

महात्रिपुरसुन्दरीत्रिशतिस्तोत्रम्

(ग्रन्थस्रोतः श्रीपरास्तोत्रचूडासामृतं) श्रीसुन्दर्युवाच - धन्योऽसि दृढभक्तोऽसि ज्ञातवानसि कुम्भज । तवात्रे कथयिष्यामि रहस्यं परमाद्भुतम् ॥ ११॥ यस्य संस्मरणादेव राजराजेश्वरो भवेत् । यावत्यः सिद्धयः सन्ति उत्तमाधममध्यमाः ॥ १२॥ ताः सर्वास्तस्य वशगाः सत्यं सत्यं न संशयः । पावन्मन्त्राः समाख्याताः भेदप्रस्तारके मया ॥ १३॥ यं विना विकलं यान्ति तमेव व्याहरामि ते । विना स्नानं विना सन्ध्यां तर्पणं पूजनं विना ॥ १४॥ लभते येन विप्रेन्द्र तत्सर्वं कथयामि ते । अस्य कथ्यं तथापि त्वां कथयामि न संशयः ॥ १५॥ सावधानेन मनसा श‍ृणु त्वं कुम्भसम्भव । न प्रकाशयेदिदं क्वापि सुन्दर्याः प्राणरक्षणम् ॥ १६॥ अज्ञानाद् क्रमतो वापि यदि देवात् प्रकाशते । तस्य जीवं हरिष्यामि इत्याज्ञा शम्भवीकृता ॥ १७॥ आदौ जप्त्वा पञ्चदशीं षोडशीं तदनन्तरम् । पठेत्स्तोत्रं सदा भक्त्या सिद्धिः स्थानुनात्र संशयः ॥ १८॥ पञ्चोपचारैः सम्पूज्य देवीं श्रीचक्रनायिकाम् । निशायां पूजयेद् भक्त्या प्रज्ञां चैव मनोरमाम् ॥ १९॥ बिन्दुचक्रे सदा ध्यायेद् देवीं त्रिपुरसुन्दरीम् । यः स्तोत्रं पठते नित्यं स शिवो नात्र नात्र संशयः ॥ २०॥ अतस्त्वां कथयिष्यामि स्तोत्रं त्रैलोक्यदुर्लभम् । मम भक्तिरतो नित्यं यतस्त्वं साधकाग्रणीः ॥ २१॥ श‍ृणु विप्रेन्द्र मे स्तोत्रं भक्तियुक्तेन चेतसा । यस्य स्मरणमात्रेण क्षिप्रं तद्रूपतां व्रजेत् ॥ २२॥ अथ विनियोगः- अस्य श्रीमहात्रिपुरसुन्दरीत्रिशतीस्तोत्रमन्त्रस्य कामेश्वरऋषिः अनुष्टुप्छन्दः । श्रीमहात्रिपुरसुन्दरी राजराजेश्वरी देवता । ऐं बीजम् । सौः शक्तिः । क्लीं कीलकम् । मम चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः ॥ ऋष्यादिकं विन्यस्य । मूलेन षडङ्गं कृत्वा पठेत् । ॐ अस्य श्रीमहात्रिपुरसुन्दरीत्रिशतीस्तोत्रमन्त्रस्य । कामेश्वर ऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीमहात्रिपुरसुन्दरीराजराजेश्वरीदेवतायै नमः हृदि । ऐं बीजाय नमः गुह्ये । सौः शक्तये नमः पादयोः । क्लीं कीलकाय नमः नाभौ । मम चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः- श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं अङ्गुष्ठाभ्यां नमः । श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं तर्जनीभ्यां नमः । श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं मध्यमाभ्यां नमः । श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं अनामिकाभ्यां नमः । श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं कनिष्ठिकाभ्यां नमः । श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं करतलकरपृष्ठाभ्यां नमः ॥ षडङ्गन्यासः- श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं हृदयाय नमः । श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं शिरसे स्वाहा । श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं शिखायै वषट् । श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं कवचाय हुम् । श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं नेत्रत्रयाय वौषट् । श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं अस्त्राय फट् ॥ मातृकान्यासः- ॐ अं नमः शिरसि । ॐ आं नमः मुखे । ॐ इं नमः दक्षिणनेत्रे । ॐ ईं नमः वामनेत्रे । ॐ उं नमः दक्षिणकर्णे । ॐ ऊं नमः वामकर्णे । ॐ ऋं नमः दक्षिणनासापुटे । ॐ ॠं नमः वामनासापुटे । ॐ ऌं नमः दक्षिणगण्डे । ॐ ॡं नमः वामगण्डे । ॐ एं नमः ओष्ठे । ॐ ऐं नमः अधरे । ॐ ओं नमः ऊर्ध्वदन्तपङ्क्तौ । ॐ औं नमः अधोदन्तपङ्क्तौ । ॐ अं नमः जिह्वायाम् । ॐ अः नमः कण्ठे । ॐ कं नमः दक्षिणबाहुमूले । ॐ खं नमः दक्षिणकूर्परे । ॐ गं नमः दक्षिणमणिबन्धे । ॐ घं नमः दक्षिणाङ्गुलिमूले । ॐ ङं नमः दक्षिणाङ्गुल्यग्रेषु । ॐ चं नमः वामबाहुमूले । ॐ छं नमः वामकूर्परे । ॐ जं नमः वाममणिबन्धे । ॐ झं नमः वामाङ्गुलिमूले । ॐ ञं नमः वामाङ्गुल्यग्रेषु । ॐ टं नमः दक्षिणोरौ । ॐ ठं नमः दक्षिणजानुनि । ॐ डं नमः दक्षिणगुल्फे । ॐ ढं नमः दक्षिणपादाङ्गुलिमूले । ॐ णं नमः दक्षिणपादाङ्गुल्यग्रेषु । ॐ तं नमः वामोरौ । ॐ थं नमः वामजानुनि । ॐ दं नमः वामगुल्फे । ॐ धं नमः वामपादाङ्गुलिमूले । ॐ नं नमः वामपादाङ्गुल्यग्रेषु । ॐ पं नमः दक्षिणपार्श्वे । ॐ फं नमः वामपार्श्वे । ॐ बं नमः पृष्ठे । ॐ भं नमः नाभौ । ॐ मं नमः उदरे । ॐ यं नमः हृदये । ॐ रं नमः दक्षिणस्कन्धे । ॐ लं नमः कण्ठमूले । ॐ वं नमः वामस्कन्धे । ॐ शं नमः हृदयादिदक्षिणहस्तान्तम् । ॐ षं नमः हृदयादिवामहस्तान्तम् । ॐ सं नमः हृदयादिदक्षिणपादान्तम् । ॐ हं नमः हृदयादिवामपादान्तम् । ॐ ळं नमः हृदयादिमूर्धान्तम् । ॐ क्षं नमः सर्वाङ्गे ॥ चक्रन्यासः- मूलाधारे श्रीं ह्रीं क्लीं ऐं सौः नमः । स्वाधिष्ठाने ॐ ह्रीं श्रीं नमः । मणिपूरे क ए ई ल ह्रीं नमः । अनाहते ह स क ह ल ह्रीं नमः । विशुद्धौ स क ल ह्रीं नमः । आज्ञाचक्रे सौः ऐं क्लीं ह्रीं श्रीं नमः । सहस्रारे श्रीमहात्रिपुरसुन्दरीराजराजेश्वर्यै नमः ॥ पञ्चदशन्यासः- क ए ई ल ह्रीं नमः हृदये । ह स क ह ल ह्रीं नमः शिरसि । स क ल ह्रीं नमः शिखायाम् । श्रीं ह्रीं क्लीं ऐं सौः नमः कवचे । ॐ ह्रीं श्रीं नमः नेत्रत्रये । सौः ऐं क्लीं ह्रीं श्रीं नमः अस्त्रे ॥ शक्तिन्यासः- ऐं ज्ञानशक्त्यै नमः । ह्रीं इच्छाशक्त्यै नमः । श्रीं क्रियाशक्त्यै नमः । क्लीं कामशक्त्यै नमः । सौः पराशक्त्यै नमः । ॐ चिच्छक्त्यै नमः ॥ व्यापकन्यासः- श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं सर्वाङ्गे व्यापकं कुर्यात् ॥ ॐ कामेशी कामदा काम्या कमनीयाऽपि कुलेश्वरी । कामाख्या हञ्जवद्याख्या कामदेवप्रपूजिता ॥ २३॥ काल निनाशिनी काली कदम्बवनचारिणी । कालरात्रिस्वरूपा च कान्तारवनवासिनी ॥ २४॥ कामिनी कामिका कान्ता कलेशी कुलपूजिता । कादम्बरीप्रिया कुञ्जा कुरुकुल्ला कपालिनी ॥ २५॥ कृपादिनी कामकला कलसा च कलात्मिका । काम्बोजा कलिदोषघ्नी कुलमार्गविवर्धिनी ॥ २६॥ क ए स्वरूपा कामराजात्मिका कला । कम्बुकण्ठी कुलीना च कुलीनाचारतत्परा ॥ २७॥ कादिवर्णा कहाकक्षा कक्षदेश-निवासिनी । कूर्मरूपा कूर्मसंस्था कूर्मपृष्ठविहारिणी ॥ २८॥ कमलाक्षी कुलश्रेष्ठा कौलिनी कुलतर्पिता । कौसुम्भवर्णा कौसुम्भा कौसुम्भाम्बरधारिणी ॥ २९॥ कवीनामग्रणीः काव्या कवित्वफलदायिनी । काम्यरूपा काम्यफला काम्यसिद्धिकरी सदा ॥ ३०॥ कामेश्वरप्रिया कामी कामरूपनिवासिनी । कामबीजस्वरूपा च कालसङ्कर्षिणी कुजा ॥ ३१॥ कुन्दपुष्पप्रिया कुन्दा कुन्दमाल्यविभूषिता । कर्णिकारसुशोभाढ्या कर्णिकारप्रसूतिकृत् ॥ ३२॥ कर्णिकारमध्यसंस्था च कर्णिकारप्रपूजिता । कहाकहस्वरूपा च कहमन्त्रपरायणा ॥ ३३॥ कादिमन्त्रस्वरूपा च कादिसिद्धान्तकारिणी । क ए स्वरूपा हसकल ह्रीं स्वरूपिणी ॥ ३४॥ एं क ए स्वरूपा च ह्रीं हसकल ह्रीं शरीरिणी । एं आं सौः कलह्रीं च एं आं सौः कलह्रीं तथा ॥ ३५॥ एं एं ईं कलह्रीं रूपा क्लीं ह्रीं एं कलह्रीं तथा । एं क्लीं सौः कल ह्रीं चैव हसौः एं फलह्रीं तथा ॥ ३६॥ दक्षिणाम्नायरूपा च पश्चिमाम्नायशाम्भवी । चतुष्कूटा शाङ्करी च षट्कूटाभैरवी तथा ॥ ३७॥ क ए ह्रीं कलह्रीं नादबिन्दुस्वरूपिणी । कूटस्था कूटमन्त्रस्था उपकूटस्वरूपिणी ॥ ३८॥ भावकूटस्थिता नित्यं कामकूटनिवासिनी । यन्त्रकूटमयी देवी मन्त्रकूट-विधायिनी ॥ ३९॥ पञ्चकूटमहामन्त्रपालिनी कटह्रिपिणी । कौलिकाचारसन्तुष्टा कौलिकातन्द्रतारिणी ॥ ४०॥ कुलमन्त्राः कुलद्रव्या कुलीनाचारगोपिनी । काली कामेश्वरी नित्या कुलकुण्डा कुलीं स्वरूपिणी ॥ ४१॥ क ए ह ६ सकला ह्रीं च । हसकहलवरयूं सहकहलवरयीम् ॥ ४२॥ उन्मनी बीजसंयुक्ता बीजसर्वाङ्गसुन्दरी । ऐं क्लीं सौः षडक्षरी विद्या ह्रीं क्लीं सौः श्रीरमा परा ॥ ४३॥ हसौंः हसकलीं हसौंः श्रीं हसौंः विद्याडामरेश्वरी । हसौंः क्लीं हसौंः श्रीं च क्लीं श्रीं तथैव च ॥ ४४॥ कवर्गा कुलिशान्ता च कुमारी कपटेश्वरी । कादिसङ्क्षेपयज्ञाणा भानुमण्डलचारिणी ॥ ४५॥ भानवी भानुतेजस्वी भीमा भानुपूजिता । भालचक्रकृता नित्यं भालरेखाविनाशिनी ॥ ४६॥ श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं क ए ह ६ स ४ सौः ऐं क्लीं ह्रीं श्रीं तथा श्रीविद्या षोडशाक्षरी ॥ ४७॥ बिन्दुचक्रस्वरूपा च षोडशाक्षरसंस्थिता । षोडशारप्रतिष्ठा च षोडशस्वरभूषिता ॥ ४८॥ षोडशी मन्त्ररूपा च षोडशाक्षररूपिणी । श‍ृङ्गारषोडशाराध्या कला षोडशरूपिणी ॥ ४९॥ मन्त्रवेदा मन्त्रपदा मन्त्रकोशा च मन्त्रधृत् । मन्त्रमाला महामन्त्राः मन्त्रदेहस्वरूपिणी ॥ ५०॥ ऐं शोर्वी क्रीं मस्तका च सौः श्रीवा ह्रीं च बाहुका । श्रीं स्तना कूटसर्वाङ्गी अङ्कारप्राणरूपिणी ॥ ५१॥ ह्रीं रूपा च हसौं रूपा हूं कारप्रणादिनी । हसकहलरूपा च सहकहलरूपिणी ॥ ५२॥ कल ह्रीं मन्त्ररूपा च सकल ह्रीं स्वरूपिणी । सुधासमुद्रमध्यस्था सुधापानपरायणा ॥ ५३॥ सुधाक्षर-महामन्त्रा सुधाधाराजवर्धिनी । पद्मा पद्मावती पद्मधारिणी पद्मचारिणी ॥ ५४॥ षट्कोटिमन्त्ररूपा च नवचर्वुर्द्धिसिद्धिदा । पाशाढुकुशाधरा ध्न्या धरणी धारिणी धरा ॥ ५५॥ धर्मधात्री धुरिणा च धर्मश्रीः धर्मसाक्षिणी । स्वधर्मपालिनी धर्मा धर्मनिन्दकनाशिनी ॥ ५६॥ त्वरिता ऋणपूर्णा च पूर्णा महिषमर्दिनी । परा परात्परा परमा परज्योतिःस्वरूपिणी ॥ ५७॥ परोपकारिणी पुण्या पुण्यपापविनाशिनी । जालन्धरी जलेश्री च जलतत्त्वस्वरूपिणी ॥ ५८॥ जयदा ज्वलिनी ज्वाला जालन्धरनिवासिनी । चन्द्रधरा चन्द्रचूडी चान्दी चक्रेन्द्रपूजिता ॥ ५९॥ चन्द्रमण्डलमध्यस्था शरच्चन्द्रसमप्रभा । कोटिचन्द्रसमाभासा शारच्चन्द्रसमानना ॥ ६०॥ सहस्रचन्द्रोतीर्णा बालचन्द्रकिरीटिनी । योनिरूप-स्वरूपा च यौवनोन्मत्तस्वरूपिणी ॥ ६१॥ वृद्धा बाला च युवती युवतीमण्डलप्रिया । भुवनेशी भयघात्री भगेशी भगपूजिता ॥ ६२॥ भैरवी भूतिनी भव्या भैरवानन्दवर्धिनी । सर्वपदप्रदा भैरवी च षट्कूटाभैरवी तथा ॥ ६३॥ त्रिपुराभैरवी भीमा तथा कौलेशभैरवी । आनन्दभैरवी मायाभैरवी कुलभैरवी ॥ ६४॥ श्रीबालाभैरवी भीमाभैरवी ज्ञानभैरवी । कौलेशभैरवी छिन्ना श्रीमहाकालभैरवी ॥ ६५॥ संहारभैरवी गुह्या कौलिकानन्दभैरवी । राजराजेश्वरी राज्ञी षट्चक्रकुलनायिका ॥ ६६॥ षट्चक्रभेदिनी मेधा सहस्रारनिवासिनी । श्रीचक्रमध्यसंस्था च श्रीचक्रक्रमपूजिता ॥ ६७॥ संहारक्रमपूज्या च सृष्टिक्रमप्रपूजिता । सुन्दरी सुन्दराङ्गी च महात्रिपुरसुन्दरी ॥ ६८॥ श्रीमहासुन्दरी कालसुन्दरी शिवसुन्दरी । मन्दारकुसुमप्रीता मन्दाराचलवासिनी ॥ ६९॥ मदिरा मदिराक्षी च मदिरानन्दकारिणी । मदनोन्मत्त रूपा च मदनान्तकवल्लभा ॥ ७०॥ रतीरूपा रतानन्दा रतिकामप्रदायिनी । रतिपुष्पप्रिया रस्या रमणी रमणी रतिः ॥ ७१॥ रक्तवर्णा च रक्ताक्षी रक्तपानपरायणा । रक्तपुष्पप्रियादेवी पायिनी रक्ततर्पिता ॥ ७२॥ कुमारी चण्डिका चण्डी चण्डासुरविनाशिनी । चण्डदुःखहासिनी चण्डा चामुण्डा चण्डनायिका ॥ ७३॥ पञ्चमी मन्त्रवर्णाढ्या पञ्चमाचारपूजिता । पञ्चवक्त्रस्थिता पञ्च स्वाञ्चिका पञ्चचर्चिका ॥ ७४॥ श्रीईश्वर उवाच- इति ते कथितं देवि त्रिशतीस्तोत्रमुत्तमम् । यस्य संस्मरणादेव त्रैलोक्यविजयी भवेत् ॥ ७५॥ प्रातः काले च सन्ध्यायां निशायां भक्तिसंयुतः । यः पठेत् त्रिशतीस्तोत्रं स एव श्रीसदाशिवः ॥ ७६॥ वचसा कर्मणि चित्तेऽस्मरणोच्चारणं तथा । सर्वं तस्यापि भवति अनायासेन पार्वति ॥ ७७॥ यस्मिन् देशे पठेद्देवि त्रिशतीस्तोत्रमुत्तमम् । न च मारी न दुर्भिक्षं शत्रुपीडा न तत्र वै ॥ ७८॥ स्वर्णपात्रे कुडुकेन लिखेच्छीचक्रमुत्तमम् । सम्पूज्य गन्धपुष्पाद्यै रक्तपुष्पविशेषतः ॥ ७९॥ ततश्च षोडशीमन्त्रमुपेतं प्रजपेत् सुधीः । कुमारीं पूजयेत् पश्चाद् ब्राह्मणान् भोजयेत् ततः ॥ ८०॥ पश्चात् स्तोत्रं पठित्वा तु राजराजेश्वरो भवेत् । अणिमाद्यष्टसिद्धिः स्यात् परकायप्रवेशनम् ॥ ८१॥ गुटिकाकाञ्जनवेतालसिद्धीनामीश्वरो भवेत् । सूर्यस्तम्भं जलस्तम्भं वह्निस्तम्भं तथैव च ॥ ८२॥ इन्द्रजालादिसिद्धिश्च जायते नात्र संशयः । जातिक्षये महोत्पाते रणे प्राणस्य सङ्कटे ॥ ८३॥ कानतारे वनमध्ये च भूतभ्रामरस्तसङ्कुले । प्रहृतप्रविचार्चाधेरिभूते महेश्वरि ॥ ८४॥ पठनाज्जायते देवि संशयो नात्र संशयः । आर्द्रौ शतत्रयं देवि पठित्वा स्तोत्रमुत्तमम् ॥ ८५॥ ततस्तु हवनं कुर्यात् तावदेव हि पार्वति । चतुःषष्ट्युपचारेण षोडशेन वरानने ॥ ८६॥ प्रकृष्टबलिदानेन यजेत् षोडशीचक्रमुत्तमम् । ततः सन्तोष्य यत्नेन द्विजशक्तिकुमारिकाः ॥ ८७॥ पठेत् स्तोत्रं महादेवि तस्य सिद्धिः प्रजायते । कृत्वा श्रीचक्रराजं हि स्थाप्य श्रीपात्रमुत्तमम् ॥ ८८॥ सज्जप्य षोडशीमन्त्रं पठेत् स्तोत्रं समाहितः । ततः सर्वार्थसिद्धिः स्यात् सत्यं सत्यं न संशयः ॥ ८९॥ दशावर्तनतो देवि भैद्राजा वशंवदः । विंशत्यावर्तनाद्देवि स्त्रीणामाकर्षणं भवेत् ॥ ९०॥ परकृत्याविनाशाय शतावर्तनमाचरेत् । सहस्रावर्तनाद्देवि वागीशसमतां व्रजेत् ॥ ९१॥ अयुतावर्तनाद्देवि श्रेष्ठराज्यं लभेन्नरः । नियुतावर्तनाद्देवि परराष्ट्रविनाशयेत् ॥ ९२॥ लक्षावर्तनतो देवि किं तस्य भुवि दुर्लभम् । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ ९३॥ धनं धान्यं तथा पुत्रं प्रज्ञां चैव मनोरमाम् । लभते नात्र सन्देहः सत्यं सत्यं सुरेश्वरि ॥ ९४॥ भूर्जपत्रे लिखित्वा स्तोत्रं दिव्यगन्धाष्टकेन च । पूजाविधा विधानेन शास्त्रकर्मेण वेष्टयेत् ॥ ९५॥ कण्ठे वा बाहुमूले वा शिरायां धारयेत् क्रमात् । स तु सर्वगुणाढ्यः स्यात् बृहस्पतिसमः कविः ॥ ९६॥ तेजसा सूर्यसदृशो धनेन च धनाधिपः । कान्त्या चन्द्रस्य तुल्योऽसौ रूपेण मदनोपमः ॥ ९७॥ किं बहुतेन देवेशि सत्यं सर्वं ब्रवीमि ते । यावत्यः सिद्धयः सन्ति उत्तमाधममध्यमाः ॥ ९८॥ सर्वाः सिद्ध्यन्ति देवेशि नान्यथा शङ्करो भवेत् । दशलक्षं जपत्वा तु श्रीमहाषोडशीमन्त्रम् ॥ ९९॥ लक्षं पठति यः स्तोत्रं तस्य सिद्धिफलं श‍ृणु । अतीतानागतं चैव वाक्सिद्धिश्च जायते ॥ १००॥ सरस्वतीमुखे तस्य स्वयमेवावसेत् सदा । पराद्धजीवी च भवेत् कामरूपी भवेन्नरः ॥ १००॥ देवानाकर्षयेच्चापि खेचरो जायते तथा । वर्णितुं शक्यते नास्य महिमा वर्षकोटिभिः ॥ १०१॥ साक्षाच्छम्भुः स भवति पाञ्चभौतिकदेहभृत् । न षोडशीसमो मन्त्रो न विद्यां सुन्दरीं विना ॥ १०२॥ श्रीचक्राद्यचक्रं न नानया सदृशी स्तुतिः । रहस्यं कथितं देवि सुन्दर्या यत्प्रकाशितम् ॥ १०३॥ अतिगुह्यं महादेवि कथितं कुम्भयोनये । सहस्राणि च तन्त्राणि ऊर्ध्वाम्नायशतानि च ॥ १०४॥ कथितानि महेशानि न स्तोत्रं प्रकटितोत्तमम् । इति कारणतः स्तोत्रं गोप्येन्मतिमान् सदा ॥ १०५॥ प्रकाशात् सिद्धिहानिः स्यात् तस्माद्यत्नेन गोपयेत् । अनात्मा स्तोत्रराजं हि षोडशीं जपतेऽधमः ॥ १०६॥ अल्पायुः स भवेत्सो देवपतिशापमानुयात् । इह लोके दरिद्रः स्यादन्ते नरकभाग् भवेत् ॥ १०७॥ तस्मात् सर्वप्रयत्नेन पठनीयं च सर्वदा । इति श्रीमहात्रिपुरसुन्दरीत्रिशतीस्तोत्रं सम्पूर्णम् ॥ First 10 verses are missing in the scan. Proforead by Durga Sharma
% Text title            : Mahatripurasundari Trishati Stotram
% File name             : mahAtripurasundarItrishatistotram.itx
% itxtitle              : mahAtripurasundarItrishatistotram
% engtitle              : mahAtripurasundarItrishatistotram
% Category              : devii, devI, trishati, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Durga Sharma
% Description/comments  : From shrIparAstotrachUDAsAmRitaM
% Indexextra            : (Scan)
% Latest update         : August 27, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org