महिषमर्दिनीकवचम् २
(श्यामारहस्ये)
भैरव उवाच ।
शृणु देवि ! प्रवक्ष्यामि मर्दिन्याः कवचं शुभम् ।
यस्याराधनमात्रेण महाभैरवतां व्रजेत् ॥ १॥
देवैर्देवत्वविषये सिद्धैः खेचरसिद्धये ।
पन्नगेराक्षसैर्मत्त्यैर्मुनिभिः सेवितं सदा ॥ २॥
अस्याः कवचं महापुण्यं स्वयं वक्त्राद्विनिःसृतम् ।
(ॐ) भूप्रदेशे समे शुद्धे पुष्पप्रकरसङ्कुले ।
कल्पयेदासनं धीमान् कोमलं कम्बलासनम् ॥ ३॥
वामे गुरुं पुनर्नत्वा दक्षिणे च गणाधिपम् ।
मध्ये तु मर्दिनीं नत्वा सर्वे रक्षन्तु मां सदा ॥ ४॥
आग्नेय्यां नैरॄते पातु चैशान्यां वायवे तथा ।
उत्तरे पातु ललिता जिह्वाललनभीषण ॥ ५॥
कौमारी पश्चिमे पातु धनदा च दिशो दशः ।
शाकिनी डाकिनी पातु मर्दिनी पातु सर्वदा ॥ ६॥
कल्पवृक्षः सदा पातु विघ्न च रक्तदन्तिका ।
एतास्तु वरयोगिन्यो रक्षन्तु साधकाग्रतः ॥ ७॥
पठित्वा पाठयित्वा च कवचं सिद्धिदायकम् ।
पठेन्मासत्रयं मन्त्रो वारमेकं तथा निशि ॥ ८॥
रात्रौ वारत्रयं जप्त्वा नाशयेद्विघ्नमेव च ।
जपन्मासत्रयं विद्यां राजानं वशमानयेत् ॥ ९॥
भीतो भयात् प्रमुच्येत देवि ! सत्यं न संशयः ।
अप्रकाश्यमिदं गुह्यं न देयं यस्य कस्यचित् ॥ १०॥
सत्कुलीनाय शान्ताय सुजने दम्भवर्जिते ।
दद्यात्स्तोत्रमिदं पुण्यं सर्वकर्मफलप्रदम् ॥ ११॥
कवचं यो न जानाति जपेन्महिषमर्दिनीम् ।
दारिद्र्यत्वं भवेत्तस्य सत्यं सत्यं वदाम्यहम् ॥ १२॥
अनया सदृशी विद्या नास्ति तन्त्रेषु गोपिता ॥ १३॥
इति श्यामारहस्ये भैरवदेवीसंवादे महिषमर्दिन्याः कवचं सम्पूर्णम् ।
- ॥ श्यामारहस्यम् । त्रयोदशः परिच्छेदः ॥
- .. shyAmArahasyam . trayodashaH parichChedaH ..
Encoded and proofread by Ruma Dewan