महोग्रतारास्तुतिः
ॐ नमः श्री उग्रतारायै ।
प्रकटविकटदंष्ट्रा घोररुद्राट्टहासा
नरशिरकृतमाला मेघगम्भीररावा ।
त्रिभुवनजनधात्री खड्गविन्यस्तहस्ता
करकरतिकपाला पातु व उग्रतारा ॥
घोररूपे महारावे सर्वशत्रुक्षयङ्करि ।
भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ॥ १॥
सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते ।
जाड्यपापहरे देवि त्राहि मां शरणागतम् ॥ २॥
सर्वमण्डल(मध्यस्थे) सर्वसत्त्वहितेऽनघे ।
सिद्धानां पूजिते देवि त्राहि मां शरणागतम् ॥ ३॥
घोररूपस्थिते देवि सर्वप्राणहरे स्तुते ।
उग्रतारे नमो नित्यं त्राहि मां शरणागतम् ॥ ४॥
जटाजूटसमायुक्ते ललज्जिह्वोर्ध्वकारिणि ।
द्रुतबुद्धिप्रदे देवि त्राहि मां शरणागतम् ॥ ५॥
सोमरूपे कोट्टरूपे चन्द्ररूपे नमोऽस्तु ते ।
शक्तिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् ॥ ६॥
जडोऽहं शक्तिहीनोऽहं न तवाधिगमे क्षमः ।
मन्दो मन्दमतिश्चाहं त्राहि मां शरणागतम् ॥ ७॥
स्नाने दाने तथा जाप्ये बलिदाने तथा क्रतौ ।
प्रस्थाने च न शक्तोऽहं त्राहि मां शरणागतम् ॥ ८॥
शक्तिहीनमनाथं च सर्वपापसमन्वितम् ।
त्वां विना न गतिर्यस्य त्राहि मां शरणागतम् ॥ ९॥
गौरी लक्ष्मीर्महामाया उमा देवी सरस्वती ।
सर्वास्त्वमेव हे मातस्त्राहि मां शरणागतम् ॥ १०॥
गन्धपुष्पादिद्रव्यैश्च वन्धनादिभिरेव च ।
देवीं सम्पूज्य यत्नेन लभते वाञ्छितं फलम् ॥ ११॥
अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः ।
परमां सिद्धिमाप्नोति नात्र कार्या विचारणा ॥ १२॥
मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां तर्कव्याकरणादिकाम् ॥ १३॥
इदं स्तोत्रं पठित्वा तु सङ्ग्रामे प्रविशेन्नरः ।
तस्य शत्रुः क्षयं याति सदा प्रज्ञा प्रजायते ॥ १४॥
पीडायामथ सन्धाने विपदायां तथा भये ।
य इदं पठते स्तोत्रं शुभं तस्य न संशयः ॥ १५॥
इति श्रीमहोग्रतारास्तुतिः समाप्ता ॥