मेनाहिमवन्तौप्रति महादेव्याज्ञा
(शिवरहस्यान्तर्गते ईशाख्ये)
महादेवी उवाच ।
गिरे चिच्छक्तिरेवास्मि महादेवस्य वेधसः ।
सुराणां कार्यमुद्दिश्य सञ्जातास्मि तवोदरे ॥ ४१॥
न मत्तः पृथगस्तीशः प्रभा चान्द्रमसी यथा ।
तथाऽविनाभवा शक्तिरस्म्यहं परमेश्वरी ॥ ४२॥
मत्तो ब्रह्माऽभवद्विष्णुः सेन्द्रा देवा महर्षयः ।
चराचरमिदं विश्वं ग्रसामि विसृजाम्यहम् ॥ ४३॥
मय्येवान्ते लयं याति वटधानेव तत्तरुः ।
सर्वेश्वरी सर्वशक्तिरहमेका सनातनी ॥ ४४॥
आपः पृथ्वी च खं वायुस्तेजसांशक्तिरीश्वरी ।
अप्सु च स्यन्दनी शक्तिः पृथिव्यां गन्धदायिनी ॥ ४५॥
वायौ सञ्चालनी शक्तिर्ज्योतिःशक्तिश्च तैजसी ।
आकाशे व्यापिकाशक्तिरस्म्यहं भुवनेश्वरी ॥ ४६॥
स्वाहा स्वधा धृतिर्मेधा विद्याविद्या सरस्वती ।
सर्वेषां ब्रह्मकीटानां जगत्संसारवर्तिनाम् ॥ ४७॥
करोमि निमिषोन्मेषैर्जगत्संहरणोदयौ ।
केनापि कारणेनैव सञ्जातास्मि गृहे तव ॥ ४८॥
तस्मात्त्वं लोकमार्गेण महेशाय प्रदेहि माम् ।
ब्रह्मणोऽनुमतेनैव देशकालोचिते शुभे ॥ ४९॥
मूहूर्ते ऋषिभिः सार्धमिहायां मायिनी गिरे ।
ते नाहं सुप्रसन्नास्मि मेनायां त्वयि चानघ ॥ ५०॥
धन्यस्त्वं सुप्रसन्नास्मि भोगे भाग्सम्भविष्यसि ।
नान्यस्मै सत्यमेतन्मां शर्वे दातुं त्वमर्हसि ॥ ५१॥
॥ इति शिवरहस्यान्तर्गते मेनाहिमवन्तौप्रति महादेव्याज्ञा सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः ९ गौर्युत्पत्तिः । ४१-५१ ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 9 gauryutpattiH . 41-51 ..
Notes:
Mahādevī Śivā महादेवी शिवा reveals to Menā मेना and Himavān हिमवान् about Her True Self as The CitŚakti चित्शक्ति of Mahādeva Śiva महादेव शिव and is very much a part of Him. Mahādevī Śivā महादेवी शिवा conveys that She has been born to them for a certain purpose and that they, as Her parents in this lifetime, should conduct Her marriage to none other than Mahādeva Śiva महादेव शिव.
Proofread by Ruma Dewan