मोहनकवचम्
ईश्वर उवाच -
त्रिकालं गोपितं देवि कलिकाले प्रकाशितम् ।
न वक्तव्यं न द्रष्टव्यं तव स्नेहात् प्रकाश्यते ॥ १॥
काली दिगम्बरी देवि जगन्मोहनकारिणी ।
तच्छृणुष्व महादेवि त्रैलोक्यमोहनन्त्विदम् ॥ २॥
अस्य महाकालभैरव ऋषिः, अनुष्टुप्छन्दः,
श्मशानकालिका देवता, सर्वमोहने विनियोगः ।
ऐं क्रीं क्रूं क्रः स्वाहा विवादे पातु मां सदा ।
क्लीं दक्षिणकालिकादेवतायै सभामध्ये जयप्रदा ॥ ३॥
क्रीं क्रीं श्यामाङ्गिन्यै शत्रु मारय मारय ।
ह्रीं क्रीं क्रीं क्लीं त्रैलोक्यं वशमानय ॥ ४॥
ह्रीं श्रीं क्री मां रक्ष रक्ष विवादे राजगोचरे ।
द्वाविंशत्यक्षरी ब्रह्म सर्वत्र रक्ष मां सदा ॥ ५॥
कवचे वर्जिते यत्र तत्र मां पातु कीलका ।
सर्वत्र रक्ष मां देवि श्यामा तूग्रस्वरूपिणी ॥ ६॥
एतेषां परमं मोहं भवद्भाग्ये प्रकाशितं
सदा यस्तु पठेद्वापि त्रैलोक्यं वशमानयेत् ॥ ७॥
इदं कवचमज्ञात्वा पूजयेद्घोररूपिणीम् ।
सर्वदा स महाव्याधिपीडितो नात्र संशयः ॥ ८॥
अल्पायुः स भवेद्रोगी कथितं तव नारद ।
धारणं कवचस्यास्य भूर्जपत्रे विशेषतः ॥ ९॥
सयन्त्रं कवचं धृत्वा इच्छासिद्धिः प्रजायते ।
शुक्लाष्टम्यां लिखेन्मन्त्रं धारयेत् स्वर्णपत्रके ॥ १०॥
कवचस्यास्य माहात्म्यं नाहं वक्तुं महामुने ।
शिखायां धारयेद्योगी फलार्थी दक्षिणे भुजे ॥ ११॥
इदं कल्पद्रुमं देवि तव स्नेहात् प्रकाश्यते ।
गोपनीयं प्रयत्नेन पठनीयं महामुने ॥ १२॥
श्रीविष्णुरुवाच -
इत्येवं कवचं नित्यं महालक्ष्मि प्रपठ्यताम् ।
अवश्यं वशमायाति त्रैलोक्यं सचराचरम् ॥ १३॥
शिवेन कथितं पूर्वं नारदे कलहास्पदे ।
तत्पाठान्नारदेनापि मोहितं सचराचरम् ॥ १४॥
इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे मोहनकवचं समाप्तम् ।
चतुर्दशः पटलः
Proofread by Divya KS