मोहिन्यर्गलास्तोत्रम्
श्रीगणेशाय नमः ॥
देवा ऊचुः ।
जय मङ्गलरूपे त्व जय त्वं भक्तवत्सले ।
जय सौदर्यनिलये जय कारुण्यवारिधे ॥ १॥
महालये भो करुणालये मां त्वं त्राहि दीनार्तिहरे प्रपन्नम् ।
त्वत्पादपद्मावनतोत्तमाङ्गं प्रसीद नित्यं वरदे शरण्ये ॥ २॥
त्वं विष्णुरूपिणी देवि त्वं च रुद्रस्वरूपिणी ।
त्वं ब्राह्मी त्वं च शर्वाणी त्वमिन्द्राणीति गीयसे ॥ ३॥
त्वं कल्याणी च श्रीर्वाणी सैंहिकेयविदारिणी ।
त्वमिन्द्राणी च सौपर्णी काद्रवेयविदारिणी ॥ ४॥
वैकुण्ठपदनिःश्रेणी निर्जराणां तरङ्गिणी ।
गङ्गाधरस्य रमणी निधिवासप्रवासिनी ॥ ५॥
संहारिणी च विपदां सम्पत्सन्ततिकारिणी ।
भवपाशमहापाशगेहपाशविदारिणी ॥ ६॥
स्कन्द उवाच ।
इति ते त्रिदशाः स्तुत्वा जनार्दनमनन्तरम् ।
स्त्रीरूपेणातिशोभाढ्यं मोहिनीरूपकं जगुः ॥ ७॥
देवा ऊचुः ।
शृङ्गारलावण्यसमुद्ररूपिणी स्वरूपशोभारतिकोटिजित्वरा ।
त्वमेव कामीप्सितदातृदानदा देवी मुदा रक्षतु दैत्यमोहिनी ॥ ८॥
प्रतारणाभिज्ञतमा सुरारिणां नमः शिरश्छेदनकारिविक्रमा ।
स्वरूपसम्मोहितदानवव्रजा देवी मुदा रक्षतु दैत्यमोहिनी ॥ ९॥
ददाति दोर्भ्यामपि या चतुर्भुजा श्रियं हितत्रेतिविभूषणाङ्कनैः ।
आपत्तिदारिद्र्यविनाशकारिणी देवी मुदा रक्षनु दैत्यमोहिनी ॥ १०॥
पीयूषदात्री सुतनुर्दिवौकसां दितेः सुतानां च सुराप्रदात्री ।
गृहीतमाया मयकामिनीवपुर्देवी मुदा रक्षतु दैत्यमोहिनी ॥ ११॥
सुवर्णपङ्केरुहकेतकीश्रियं शरीरवर्णेन च जित्वरा प्रसूः ।
स्वकण्ठधिक्कारितवल्लकीगुणा देवी मुदा रक्षतु दैत्यमोहिनी ॥ १२॥
स्वदीप्तकोटीन्दुकृतप्रभाश्रया प्रभाविनी दैवतकामपूरिणी ।
अखण्डमाखण्डलनिर्जरस्तुता देवी मुदा रक्षतु दैत्यमोहिनी ॥ १३॥
यस्याः प्रभावं द्विसहस्रजिह्वः सहस्रवक्त्रोऽप्युरगाधिराजः ।
वक्तुं प्रभुर्न क्व तदेतरे जना देवी मुदा रक्षतु दैत्यमोहिनी ॥ १४॥
स्कन्द उवाच ।
इति स्तुता तैस्त्रिदशैः स्वभावैः सा मोहिनीरूपमधोक्षजस्य ।
उवाच वाक्यं विनयप्रसन्ना श्लक्ष्णं तदा तान्प्रणतानुदारान् ॥ १५॥
मोहिन्युवाच ।
आदौ पुरुषरूपेण संस्तुतोऽहं जनार्दनः ।
ततः सीमन्तिनीरूपा भवद्भिर्मोहिनी स्तुता ॥ १६॥
अथ चैष महापुण्यपुरुषप्रकृतिस्तवः ।
य एनं पठते नित्यं प्रातरुत्थाय मानवः ॥ १७॥
मत्समीपे विशेषेण शुचिर्भूत्वा धृतव्रतः ।
न दारिद्र्यं भवेत्तस्य न सङ्कटमवाप्नुयात् ॥ १८॥
आरोग्यं सततं गच्छेन्न स रोगैः प्रबाधते ।
भूतप्रेतपिशाचानां न बाधाभिः स भूयते ॥ १९॥
मरणेऽपि शुभाँल्लोकान्प्राप्नोतीति विनिश्चितम् ।
इदं क्षेत्रं महापुण्यं वृद्धातीरमिति श्रुतम् ॥ २०॥
विशेषेणाधुना जातं युष्मत्पङ्क्तिनिषेवणात् ।
महालयेति विख्यातिं याताऽहं मोहिनी स्वयम् ॥ २१॥
वसाम्यत्र सुराः सर्वे भवन्तोऽपि वसिष्यथ ।
त्रिरात्रं मत्समीपे यो मोहिन्या अर्गलास्तवम् ॥ २२॥
सदा पठति सश्रद्धस्तस्याहं वाञ्छितप्रदा ।
मद्दर्शनकृतां पुंसां मुक्तिरेव न संशयः ॥ २३॥
इति श्रीमोहिन्यर्गलास्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com