नारायणप्रोक्तं दुर्गतिनाशिनीकवचम्
नारायण उवाच ।
शृणु नारद वक्ष्यामि दुर्गायाः कवचं शुभम् ।
श्रीकृष्णेनैव यद्दत्तं गोलोके ब्रह्मणे पुरा ॥ ३॥
ब्रह्मा त्रिपुरसङ्ग्रामे शङ्कराय ददौ पुरा ।
जघान त्रिपुरं रुद्रो यद्धृत्वा भक्तिपूर्वकम् ॥ ४॥
हरो ददौ गौतमाय पद्माक्षाय च गौतमः ।
यतो बभूव पद्माक्षः सप्तद्वीपेश्वरो जयी ॥ ५॥
यद्धृत्वा पठनाद्ब्रह्मा ज्ञानवाञ्छक्तिमान्भुवि ।
शिवो बभूव सर्वज्ञो योगिनां च गुरुर्यतः ।
शिवतुल्यो गौतमश्च बभूव मुनिसत्तमः ॥ ६॥
ब्रह्माण्डविजयस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च गायत्री देवी दुर्गतिनाशिनी ॥ ७॥
ब्रह्माण्डविजये चैव विनियोगः प्रकीर्त्तितः ।
पुण्यतीर्थं च महतां कवचं परमाद्भुतम् ॥ ८॥
ॐ ह्रीं दुर्गतिनाशिन्यै स्वाहा मे पातु मस्तकम् ।
ॐ ह्रीं मे पातु कपालं चाप्यों ह्रीं श्रीं पातु लोचने ॥ ९॥
पातु मे कर्णयुग्मं चाप्यों दुर्गायै नमः सदा ।
ॐ ह्रीं श्रीमिति नासां मे सदा पातु च सर्वतः ॥ १०॥
ह्रीं श्रीं क्रूमिति दन्तांश्च पातु क्लीमोष्ठयुग्मकम् ।
क्लीं क्लीं क्लीं पातु कण्ठं च दुर्गे रक्षतु गण्डके ॥ ११॥
स्कन्धं महाकालि दुर्गे स्वाहा पातु निरन्तरम् ।
वक्षो विपद्विनाशिन्यै स्वाहा मे पातु सर्वतः ॥ १२॥
दुर्गे दुर्गे रक्ष पार्श्वौ स्वाहा नाभिं सदाऽवतु ।
दुर्गे दुर्गे देहि रक्षां पृष्ठं मे पातु सर्वतः ॥ १३॥
ॐ ह्रीं दुर्गायै स्वाहा च हस्तौ पादौ सदाऽवतु ।
ॐ ह्रीं दुर्गायै स्वाहा च सर्वाङ्गं मे सदाऽवतु ॥ १४॥
प्राच्यां पातु महामाया चाग्नेय्यां पातु कालिका ।
दक्षिणे दक्षकन्या च नैरृत्यां शिवसुन्दरी ॥ १५॥
पश्चिमे पार्वती पातु वाराही वारुणे सदा ।
कुबेरमाता कौबेर्य्यामैशान्यामीश्वरी सदा ॥ १६॥
ऊर्ध्वं नारायणी पातु त्वम्बिकाऽधः सदाऽवतु ।
ज्ञानं ज्ञानप्रदा पातु स्वप्ने निद्रा सदाऽवतु ॥ १७॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।
ब्रह्माण्डविजयं नाम कवचं परमाद्भुतम् ॥ १८॥
सुस्नातः सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ।
सर्वव्रतोपवासे च तत्फलं लभते नरः ॥ १९॥
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः ।
कण्ठे वा दक्षिणे बाहौ कवचं धारयेत्तु यः ॥ २०॥
स च त्रैलोक्यविजयी सर्वशत्रुप्रमर्दकः ।
इदं कवचमज्ञात्वा भजेद्दुर्गतिनाशिनीम् ॥ २१॥
शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ २२॥
कवचं काण्वशाखोक्तमुक्तं नारद सिद्धिदम् ।
यस्मै कस्मै न दातव्यं गोपनीयं सुदुर्लभम् ॥ २३॥
इति श्रीब्रह्मवैवर्तपुराणे गणपतिखण्डे
एकोनचत्वारिंशाध्यायान्तर्गतं दुर्गतिनाशिनीकवचं
समाप्तम् ।
ब्रह्मवैवर्तपुराण । गणपतिखण्ड । अध्याय ३९/३-२३॥
brahmavaivartapurANa . gaNapatikhaNDa . adhyAya 39/3-23..
Proofread by PSA Easwaran