नवदुर्गा स्तुतिः
१. शैलपुत्री (मूलाधारचक्र)
ध्यानं -
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् ।
वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम् ॥
पूर्णेन्दुनिभाङ्गौरीं मूलाधारस्थितां प्रथमदुर्गां त्रिनेत्राम् ।
पटाम्बरपरिधानां रत्नकिरीटां नानालङ्कारभूषिताम् ॥
प्रफुल्लवदनां पल्लवाधरां कान्तकपोलां तुङ्गकुचाम् ।
कमनीयां लावण्यस्नेहमुखीं क्षीणमध्यां नितम्बनीम् ॥
स्तोत्रम् -
प्रथमदुर्गा त्वं हि भवसागरतारिणी ।
धन ऐश्वर्यदायिनी शैलपुत्री प्रणमाम्यहम् ॥
त्रिलोकजननी त्वं हि परमानन्दप्रदायिनी ।
सौभाग्यारोग्यदायनी शैलपुत्री प्रणमाम्यहम् ॥
चराचरेश्वरी त्वं हि महामोहविनाशिनी ।
भुक्तिमुक्तिदायनी शैलपुत्री प्रणमाम्यहम् ॥
कवचम् -
ओङ्कारः मे शिरः पातु मूलाधारनिवासिनी ।
ह्रीङ्कारः पातु ललाटे बीजरूपा महेश्वरी ॥
श्रीकारः पातु वदने लज्जारूपा महेश्वरी ।
हूङ्कारः पातु हृदये तारिणी शक्तिः स्वधृता ॥
फट्कारः पातु सर्वाङ्गे सर्वसिद्धिफलप्रदा ।
२. ब्रह्मचारिणी (स्वाधिष्ठानचक्र)
दधाना करपद्माभ्यामक्षमालाकमण्डलू ।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥
ध्यानं -
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् ।
जपमालाकमण्डलुधरां ब्रह्मचारिणीं शुभाम् ।
गौरवर्णां स्वाधिष्ठानस्थितां द्वितीयदुर्गां त्रिनेत्राम् ।
धवलवर्णां ब्रह्मरूपां पुष्पालङ्कारभूषिताम् ।
पद्मवदनां पल्लवाधरां कान्तङ्कपोलां पीनपयोधराम् ।
कमनीयां लावण्यां स्मेरमुखीं निम्ननाभिं नितम्बनीम् ॥
स्तोत्रं -
तपश्चारिणी त्वं हि तापत्रयनिवारिणी ।
ब्रह्मरूपधरां ब्रह्मचारिणीं प्रणमाम्यहम् ॥
नवचक्रभेदिनी त्वं हि नव ऐश्वर्यप्रदायिनी ।
धनदां सुखदां ब्रह्मचारिणीं प्रणमाम्यहम् ॥
शङ्करप्रिया त्वं हि भुक्ति-मुक्तिदायिनी ।
शान्तिदां मानदां ब्रह्मचारिणीं प्रणमाम्यहम् ।
कवचम् -
त्रिपुरा मे हृदयं पातु ललाटं पातु शङ्करभामिनी
अर्पणा सदा पातु नेत्रौ अधरौ च कपोलौ ॥
पञ्चदशी कण्ठं पातु मध्यदेशं पातु माहेश्वरी
षोडशी सदा पातु नभो गृहो च पादयो ।
अङ्गप्रत्यङ्गं सततं पातु ब्रह्मचारिणी ॥
३. चन्द्रघण्टा -(मणिपुरचक्र)
पिण्डजप्रवरारूढा चन्द्रकोपास्त्रकैर्युता ।
प्रसादं तनुतां मह्यं चन्द्रघण्टेति विश्रुता ॥
ध्यानं -
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् ।
सिंहारूढां दशभुजाञ्चन्द्रघण्टां यशस्वनीम् ॥
कञ्जनाभां मणिपुरस्थितां तृतीयदुर्गां त्रिनेत्राम् ।
खड्गगदात्रिशूलचापधरां पद्मकमण्डलुमालावराभयकराम् ।
पटाम्बरपरिधानां मृदुहास्यां नानालङ्कारभूषिताम् ।
मञ्जीर-हार-केयूर-किङ्किणीरत्नकुण्डलमण्डिताम् ॥
प्रफुल्लवन्दनां बिम्बाधारां कान्तङ्कपोलां तुङ्गकुचाम् ।
कमनीयां लावण्यां क्षीणकटिं नितम्बनीम् ॥
स्त्रोत्रः-
आपदुद्धारिणी त्वं हि आद्याशक्तिः शुभा परा ।
अणिमादिसिद्धिदात्रि चन्द्रघण्टे प्रणमाम्यहम् ॥
चन्द्रमुखी इष्टदात्री इष्टमन्त्रस्वरूपणी ।
धनदात्र्यानन्ददात्री चन्द्रघण्टे प्रणमाम्यहम् ॥
नानारूपधारिणी इच्छामयी ऐश्वर्यदायनी ।
सौभाग्यारोग्यदायनी चन्द्रघण्टे प्रणमाम्यहम् ॥
कवचः-
रहस्यं शृणु वक्ष्यामि शैवेशि कमलानने ।
श्रीचन्द्रघण्टाकवचं सर्वसिद्धिप्रदायकम् ॥
विना न्यासं विना विनियोगं विना शापोद्धारं विना होमम् ।
स्नानं शौचादिकं नास्ति श्रद्धामात्रेण सिद्धिदम् ॥
कुशिष्याय कुटिलाय वञ्चकाय निन्दाकाय च ।
न दातव्यं न दातव्यं न दातव्यङ्कदाचन ॥
४. कूष्माण्डा (अनाहतचक्र)
सुरासम्पूर्णकलशं रुधिराप्लुतमेव च ।
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदाऽस्तु मे ॥
ध्यानं -
वन्दे वाञ्छितकामर्थं चन्द्रार्धकृतशेखराम् ।
सिंहारूढामष्टभुजां कुष्माण्डां च यशस्विनीम् ॥
भास्वरां भानुनिभामनाहतस्थितां चतुर्थदुर्गां त्रिनेत्राम् ।
कमण्डलुचापबाणपद्मसुधाकलशचक्रगदाजपवटीधराम् ॥
पटाम्बरपरिधानां कमनीयां मृदुहास्या नानालङ्कारभूषिताम् ।
मञ्जीरहारकेयूरकिङ्किणीरत्नकुण्डलमण्डिताम् ।
प्रफुल्लवदनां चारुचिबुकां कान्तकपोलां तुङ्गकुचाम् ।
कोलाङ्गीं स्मेरमुखीं क्षीणकटिं निम्ननाभिं नितम्बनीम् ॥
स्त्रोत्रः-
दुर्गतिनाशिनी त्वं हि दारिद्र्यादिविनाशिनी ।
जयदा धनदा कूष्माण्डे प्रणमाम्यहम् ॥
जगन्माता जगत्कर्त्रि जगदाधाररूपिणी ।
चराचरेश्वरी कूष्माण्डे प्रणमाम्यहम् ॥
त्रैलोक्यसुन्दरी त्वं हि दुःखशोकनिवारिणी ।
परमानन्दमयी कूष्माण्डे प्रणमाम्यहम् ॥
कवचं -
हसरै मे शिरः पातु कूष्माण्डा भवनाशिनी ।
हसलकरी नेत्रऽथ, हसरौश्च ललाटकम् ॥
कौमारी पातु सर्वगात्रे वाराही उत्तरे तथा ।
पूर्वे पातु वैष्णवी इन्द्राणी दक्षिणे मम ।
दिग्दिक्षु सर्वत्रैव कूम्बीजं सर्वदाऽवतु ॥
५. स्कन्दमाता (विशुद्धचक्र)
सिंहासनगता नित्यं पद्माश्रितकरद्वया ।
शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥
ध्यानम् -
वन्दे वाञ्छितकामार्थे चन्द्रार्धकृतशेखराम् ।
सिंहारूढा चतुर्भुजा स्कन्धमाता यशस्वनी ॥
धवलवर्णा विशुद्धचक्रस्थिता पञ्चमदुर्गा त्रिनेत्रा ।
अभयपद्मयुग्मकरां दक्षिण ऊरुपुत्रधरां भजेऽम् ॥
पटाम्बरपरिधाना मृदुहास्या नानालङ्कारभूषिताम् ।
मञ्जीरहारकेयूरकिङ्किणीरत्नकुण्डलधारिणीम् ॥
प्रभुल्लवदनां पल्लवाधरां कान्तकपोलां पीनपयोधराम् ।
कमनीयां लावण्यां चारूत्रिवलीं नितम्बनीम् ॥
स्तोत्रम् -
नमामि स्कन्दमातरं स्कन्धधारिणीम् ।
समग्रतत्त्वसागरामपारपारगहराम् ॥
शशिप्रभां समुज्ज्वलां स्फुरच्छशाङ्कशेखराम् ।
ललाटरत्नभास्करां जगत्प्रदीप्तभास्कराम् ॥
महेन्द्रकश्यपार्चितां सनत्कुमारसंस्तुताम् ।
सुरासुरेन्द्रवन्दितां यथार्थनिर्मलाद्भुताम् ॥
अतर्क्यरोचिरूविजां विकार दोषवर्जिताम् ।
मुमुक्षुभिर्विचिन्तितां विशेषतत्त्वमूचिताम् ॥
नानालङ्कारभूषितां मृगेन्द्रवाहनाग्रताम् ।
सुशुद्धतत्त्वतोषणां त्रिवेदमारभाषणाम् ॥ ??मार
सुधार्मिकौपकारिणीं सुरेन्द्रवैरिघातिनीम् ।
शुभां सुपुष्पमालिनीं सुवर्णकल्पशाखिनीम् ॥
तमोऽन्धकारयामिनीं शिवस्वभावकामिनीम् ।
सहस्रसूर्यराजिकां धनञ्जयोग्रकारिकाम् ॥
सुशुद्धकालकन्दलां सुभृङ्गकृन्दमञ्जुलाम् ।
प्रजायिनीं प्रजावतीं नमामि मातरं सतीम् ॥
स्वकर्मधारणे गतिं हरिं प्रयच्छ पार्वतीम् । ??प्रयच्छ
अनन्तशक्तिकान्तिदां यशोऽथ भुक्तिमुक्तिदाम् ॥
पुनःपुनर्जगद्धितां नमाम्यहं सुरार्चिताम् ।
जयेश्वरि त्रिलाचने प्रसीद देवि पाहि माम् ॥
कवचम् -
ऐं बीजालिका देवी पदयुग्मधरा परा ।
हृदयं पातु सा देवी कार्तिकेययुता सती ॥
श्रीं ह्रीं हुं ऐं देवी पूर्वस्यां पातु सर्वदा ।
सर्वाङ्ग में सदा पातु स्कन्दमाता पुत्रप्रदा ॥
वाणवाणामृते हुं फट् बीजससमन्विता ।
उत्तरस्यां तथाग्ने च वारूणे नैरृतेऽवतु ॥
इन्द्राणी भैरवी चैवासिताङ्गी च संहारिणी ।
सर्वदा पातु मां देवी चान्यान्यासु हि दिक्षु वै ॥
६. कात्यायनी (आज्ञाचक्र)
चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना ।
कात्यायनी च शुभदा देवी दानवघातिनी ॥
ध्यानम् -
वन्दे वाञ्छितमनोरथार्थाय चन्द्रार्धकृतशेखराम् ।
सिंहारूढां चतुर्भुजां कात्यायनीं यशस्वनीम् ॥
स्वर्णवर्णामाज्ञाचक्रस्थितां षष्ठदुर्गां त्रिनेत्राम् ।
वराभीतकरां सगपदधरां कात्यायनसुतां भजामि ॥
पटाम्बरपरिधानां स्मेरमुखीं नानालङ्कारभूषिताम् ।
मञ्जीरहारकेयुरकिङ्किणीरत्नकुण्डलमण्डिताम् ॥
प्रसन्नवदनां पल्लवाधरां कान्तकपोलां तुङ्गकुचाम् ।
कमनीयां लावण्यां त्रिवलीविभूषितनिम्ननाभिम् ॥
स्तोत्रम् -
काञ्चनाभां वराभयपद्मधरां मुकुटोज्ज्वलाम् ।
स्मेरमुखीं शिवपत्नीं कात्यायनसुते नमोऽस्तुते ॥
पटाम्बरपरिधानां नानालङ्कारभूषिताम् ।
सिंहास्थितां पद्महस्तां कात्यायनसुते नमोऽस्तुते ॥
परमानन्दमयी देवि परब्रह्म परमात्मा ।
परमशक्ति,परमभक्ति, कात्यायनसुते नमोऽस्तुते ॥
विश्वकर्त्रीं,विश्वभर्त्रीं,विश्वहर्त्रीं,विश्वप्रीताम् ।
विश्वचित्तां,विश्वातीतां कात्यायनसुते नमोऽस्तुते ॥
कां बीजा, कां जपानन्दा कां बीजजपतोषिता ।
कां कां बीजजपासक्तां कां कां सन्तुता ॥ ?? कां बीजजपसंस्तुताम्
काङ्कारहर्षिणीं कां कां धनदां धनमानसाम् ।
कां बीजजपकारिणीं कां बीजतपमानसाम् ॥
कां कारिणीं कां सूत्रपूजितां कां बीजधारिणीम् ।
कां कीं कूं कैं कौं कः ठः छः स्वाहारूपणी ॥
कवचम् -
कात्यायनी मुखं पातु कां कां स्वाहास्वरूपणी ।
ललाटं विजया पातु मालिनी नित्यसुन्दरी ॥
कल्याणी हृदयं पातु जया च भगमालिनी ॥
७. कालरात्रि (भानु चक्र)
एकवेणीजपाकर्णपुरानग्ना खरास्थिता ।
लम्बोष्ठीकर्णिकाकर्णीतैलाभ्यङ्गशरीरिणी ॥
वामपादोल्लसल्लोहलताकण्टकभूषणा ।
वर्धन्मूर्धध्वजा कृष्णा कालरात्रिर्भयङ्करी ॥
ध्यानम् -
करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् ।
कालरात्रिं करालीं च विद्युन्मालाविभूषिताम् ॥
दिव्यलौहवज्रखड्गवामाधोर्ध्वकराम्बुजाम् ।
अभयं वरदां चैव दक्षिणोर्ध्वाधः पाणिकाम् ॥
महामेघप्रभां श्यामां तथा च गर्दभारूढाम् ।
घोरदंष्ट्राकारालास्यां पीनोन्नतपयोधराम् ॥
सुखप्रसन्नवदनां स्मेराननसरोरुहाम् ।
एवं सञ्चियन्तयेत्कालरात्रिं सर्वकामसमृद्धिदाम् ॥
स्तोत्रम् -
ह्रीं कालरात्रिः श्रीं कराली च क्लीं कल्याणी कलावती ।
कालमाता कलिदर्पघ्नी कपदींशकृपन्विता ॥
कामबीजजपानन्दा कामबीजस्वरूपिणी ।
कुमतिघ्नी कुलीनाऽऽर्तिनशिनी कुलकामिनी ॥
क्लीं ह्रीं श्रीं मन्त्रवर्णेन कालकण्टकघातिनी ।
कृपामयी कृपाधारा कृपापारा कृपागमा ॥
कवचम् -
ॐ क्लीं मे हृदयं पातु पादौ श्रीं कालरात्रिः ।
ललाटं सततं पातु दुष्टग्रहनिवारिणी ॥
रसनां पातु कौमारी भैरवी चक्षुषी मम ।
कटौ पृष्ठे महेशानी कर्णौ शङ्करभामिनी ।
वर्जितानि तु स्थानानि यानि च कवचेन हि ।
तानि सर्वाणि मे देवी सततं पातु स्तम्भिनी ॥
८. महागौरी (सोमचक्र)
श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः ।
महागौरी शुभं दद्यान्महादेवप्रमोददा ॥
ॐ नमो भगवति महागौरि वृषारूढे श्रीं ह्रीं क्लीं हुं फट् स्वाहा ।
(भगवती महागौरी वृषभ के पीठ पर विराजमान हैं, जिनके
मस्तक पर चन्द्र का मुकुट है । मणिकान्तिमणि के समान कान्ति वाली
अपनी चार भुजाओं में शङ्ख, चक्र, धनुष और बाण धारण
किए हुए हैं, जिनके कानों में रत्नजडित कुण्डल झिलमिलाते हैं,
ऐसी भगवती महागौरी हैं।)
ध्यान-
वन्दे वाञ्छितकामार्थं चन्द्रार्धकृतशेखराम् ।
सिंहारूढां चतुर्भुजां महागौरीं यशस्वीनीम् ॥
पुर्णेन्दुनिभां गौरीं सोमवक्रस्थिआतां अष्टमदुर्गां त्रिनेत्राम् ।
वराभीतिकरां त्रिशूलडमरूधरां महागौरीं भजेऽहम् ॥
पटाम्बरपरिधानां मृदुहास्यां नानालङ्कारभूषिताम् ।
मञ्जीरहारकेयूरकिङ्किणीरत्नकुण्डलमण्डिताम् ॥
प्रफुल्लवदनां पल्लवाधरां कान्तकपोलां त्रैलोक्यमोहनीम् ।
कमनीयां लावण्यां मृणालां चन्दनगन्धलिप्ताम् ॥
स्तोत्रम् -
सर्वसङ्कटहन्त्री त्वं धनैश्वर्यप्रदायनी ।
ज्ञानदा चतुर्वेदमयी महागौरीं प्रणमाम्यहम् ॥
सुखशान्तिदात्रीं, धनधान्यप्रदायनीम् ।
डमरूवादनप्रियां महागौरीं प्रणमाम्यहम् ॥
त्रैलोक्यमङ्गला त्वं हि तापत्रयविनाशिनीं प्रणमाम्यहम् ।
वरदा चैतन्यमयी महागौरीं प्रणमाम्यहम् ॥
कवचम् -
ओङ्कारः पातु शीर्षे मां, ह्रीं बीजं मां हृदये ।
क्लीं बीजं सदा पातु नभो गृहो च पादयोः ॥
ललाटकर्णौ हूं बीजं पातु महागौरी मां नेत्रघ्राणौ ।
कपोलचिबुकौ फट् पातु स्वाहा मां सर्ववदनौ ॥
९. सिद्धिदात्री (निर्वाणचक्र)
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि ।
सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी ॥
ध्यानम् -
वन्दे वाञ्छितमनोरथार्थं चन्द्रार्धकृतशेखराम् ।
कमलस्थितां चतुर्भुजां सिद्धिदां यशस्वनीम् ॥
स्वर्णवर्णनिर्वाणचक्रस्थितां नवमदुर्गां त्रिनेत्राम् ।
शङ्खचक्रगदा पद्मधरां सिद्धिदात्रीं भजेऽहम् ॥
पटाम्बरपरिधानां सुहास्यां नानालङ्कारभूषिताम् ।
मञ्जीरहारकेयूरकिङ्किणीरत्नकुण्डलमण्डिताम् ॥
प्रफुल्लवदनां पल्लवाधरां कान्तकपोलां पीनपयोधराम् ।
कमनीयां लावण्यां क्षीणकटिं निम्ननाभिं नितम्बनीम् ॥
स्तोत्रम् -
कञ्जनाभां शङ्खचक्रगदाधरां मुकुटोज्ज्वलाम् ।
स्मेरमुखि शिवपत्नि सिद्धिदात्रि नमोऽस्तु ते ॥
पटाम्बरपरिधानां नानालङ्कारभूषिताम् ।
नलिनस्थिता नलिनाक्षी सिद्धिदात्री नमोऽस्तु ते ॥
परमानन्दमयी देवी परब्रह्म परमात्मा ।
परमशक्ति परमभक्ति सिद्धिदात्री नमोऽस्तु ते ॥
विश्वकर्त्री विश्वभर्त्री विश्वहर्त्री विश्वप्रीता ।
विश्वार्चिता विश्वातीता सिद्धिदात्री नमोऽस्तु ते ॥
भुक्तिमुक्तिकारणी भक्तकष्टनिवारिणी ।
भवसागरतारिणी सिद्धिदात्री नमोऽस्तु ते ॥
धर्मार्थकामप्रदायिनी महामोहविनाशिनी ।
मोक्षदायिनी सिद्धिदात्री ऋद्धिदात्री नमोऽस्तु ते ॥
कवचम् -
ओङ्कारः पातु शीर्षे मां, ऐं बीजं मां हृदये ।
ह्रीं बीजं सदा पातु नभो गृहो च पादयोः ॥
ललाटकर्णौ श्रीं बीजं पातु क्लीं बीजं मां नेत्रघ्राणौ ।
कपोलचिबुकौ हसौः पातु जगत्प्रसूत्यै मां सर्ववदने ॥
Proofread by PSA Easwaran