निरोष्ठ्यमिन्दिराशतकम्
अथ निरोष्ट्यपदैर्ललितामिमां कलश सिन्धुसुता विभवोदयाम् ।
कलयितुं कविकृष्ण इह स्तुतिं कलयते हृदि तां हरिनायिकाम् ॥
जयति सा जलधेस्तनया दयाकलितनित्यचराचररक्षणा ।
सहचरी च हरेर्ललितक्रिया लसितदैत्यनिहन्तृहृदन्तरा ॥ १॥
जयति निखिलनाकित्राणदत्तैकदृष्टि-
र्हतनतजनदैन्या कीर्तिता जानकीति ।
सरसिजनिलया सा सादरा सारसाक्षी
त्रिजगदहितहारिध्यानधाराग्र्यहारा ॥ २॥
दिनेशसन्तत्यधिनेतृकृत्तनिशाचरेशानशिरा धरण्याः ।
आखण्डलाद्यैरखिलैश्च कल्या कन्यार्यगण्या रथहस्तिधन्या ॥ ३॥
नाकालयाहारकृते नदीशे धराधराधःस्थलसन्निकृष्टे ।
जातास्ततस्तत्र रसार्द्रचेताः सा श्रीर्जगत्त्राणकृतात्तनाथा ॥ ४॥
सारासारकलादेर्जनयित्री सरसगाधया कीर्त्या ।
धीराग्रगण्यदशरथतनयेनैषा कृताखिलश्रेयः ॥ ५॥
सहृदयहृदयाराध्या सा यस्या नायकः ख्यातः ।
नेतार्कसन्ततेर्यस्त्राता जगतश्चराचरेशश्च ॥ ६॥
करकलितसरसिजश्रीः सरसिजनिलया च सारसाक्षी या ।
करदानकृतश्रेयःसन्ततिरेषा चकास्ति सद्धृदये ॥ ७॥
नागेशयस्य सा कान्ता नाकिनाथार्चनादृता ।
दासहृत्सरसीजातनिलया रक्षणार्थिनी ॥ ८॥
सरसा दयया हि सारसाक्षी कृतसन्तानकलार्तिहारिणी या ।
निजनाथकरस्थसायकालीहतनाकारिरिहार्यधारणार्हा ॥ ९॥
तरङ्गिणीनायककन्यकायाः कटाक्षधाट्या कलितश्रियस्ते ।
हरेश्च कैङ्कर्यनिरन्तराश राजन्ति काले निहतारिसङ्घाः ॥ १०॥
रणजितरजनीचरेशसेना निखिलजगज्जननी तथा हि जज्ञे ।
सरसिजनिलया धरार्यकन्या दिनकरसन्ततिनेतृनित्यदारः ॥ ११॥
निजकटाक्षझरीकलिताखिलक्षयजरादिररातिकृतान्तका ।
त्रिदशनाथकृतार्चनया जगज्जयकरी किल सा हरिनायिका ॥ १२॥
साकेत नेतृदयिता सैषा सीतेति कीर्तिता ।
किरीटा दिलसद्देहा जगदार्तिहरी किल ॥ १३॥
नीलनीरद सङ्काशकेशा दाशरथेर्हरेः ।
कर्णान्तायतनेत्रान्ता कान्तार्तजनरक्षिणी ॥ १४॥
काङ्क्षिताधिकदानेन ख्याता सा धरणीतले ।
अनादिनिधिरेषा नः श्रेयःसन्तानदायिनी ॥ १५॥
दिनेशतनयागङ्गासह्यजादितटीतले ।
सा श्रीः कलितसान्निध्या जयदा राजते किल ॥ १६॥
काङ्क्षिताधिकदायिन्या सीतया हितया तथा ।
कृतार्थानीह कार्याणि सनाथाश्च कृता नराः ॥ १७॥
शरणागतार्तिहरणा यैषा जननीह सह्यजातीरे ।
सहृदयहृदयाराध्या जयति खगेशानधार्यनिजचरणा ॥ १८॥
कलिन्दनन्दिनीतीरे नन्दनन्दनलीलया ।
ननन्द येन्दिरानन्दकलिन्दश्रीरिहैधते ॥ १९॥
गीताचार्यस्य दयिता या गीता किन्नरीगणैः ।
सा हि श्रीरिन्दिरा दास्यश्रीकरी हरिनन्दिनी ॥ २०॥
हरेः सा नित्यकल्याणदायिनी जननी च नः ।
तरङ्गयति या श्रेयश्चराचरहितैषिणी ॥ २१॥
नारायणस्य कान्ता सारार्द्रहृदन्तरे कलितकेलिः ।
हरिणनयना च काले करिणार्चितनैजचरणनलिना च ॥ २२॥
निरीक्षिता तया काले हरिणाक्ष्या धरा हि या ।
निधयस्तत्र नाकेशलाल्या राजन्ति तत्क्षणात् ॥ २३॥
शारदसरसिजनयना नारदकलगीतिगेयचरिता च ।
सारदधरणेस्तनया सारदधीस्तारकारिनतिकल्या ॥ २४॥
शिथिलितकलिहानिः सागरेन्द्रस्य कन्या
दशशतनयनाद्यैरादरादर्चनीया ।
जनयति तनयादीनादरेणार्यहृद्या-
नखिलचिदचिदादित्राणनादत्तदीक्षा ॥ २५॥
सा सागरेन्द्रतनया दाशार्हहृदि स्थिरासना जननी ।
नासारत्नघृणीडितकासारजसदृशनेत्रा या ॥ २६॥
नारायणस्य गृहिणी तारासङ्काशहारललितगला ।
आराधनार्हचरणा सारार्थज्ञानदायिनी जननी ॥ २७॥
सज्जनरक्षणधन्या कन्या सा सागरस्य कृतधन्या ।
तन्यादनितरकन्यादानादिश्रेय आदरादिह नः ॥ २८॥
हरिहृदयान्तःशरणा शरणागतसज्जनालिनतचरणा ।
सति कलितादरणा सा जयतीह तले सदाहृताचरणा ॥ २९॥
सज्जनैरारादृतानीह धनानि नयते क्षणात् ।
धरणीतनया सैषा नानादेशगतार्थिनः ॥ ३०॥
सदादृता सदाराध्या सदानन्दासनस्थिता ।
कदा हि कलयेन्नैजकटाक्षलहरीरिह ॥ ३१॥
तिलकालङ्कृता ह्येषानिलजातकृतादरा ।
घरायास्तनया ख्याता जानकीति धरातले ॥ ३२॥
दद्यादद्य श्रेयः किरीटहारादिलसितनिजदेहा ।
जलनिधिकन्या धन्या यत्स्थाननतिक्षतारिकलिकार्श्र्याः ॥ ३३॥
आख्याता दिशि सैषा श्रेयःसन्तानशाखिलतिकेति ।
नतनाकिशीर्षरत्नादृतनिजनीराजनक्रिया जयति ॥ ३४॥
हासश्रिया लसितनैजशरीरयष्टिरिन्द्रादिनाकिगणदत्तसदादरादिः ।
कीलालराशितनया जयतीह दत्तदानादिरार्यगणगेयनिजार्ययात्रा ॥ ३५॥
यातायातादिखेदा दिशान्तिदाराधिता सती ।
त्रिजगज्जननी जीयादिहाचार्यगणेडिता ॥ ३६॥
ययाराधितयानाथाः नाथकार्याश्च निश्चिताः ।
जननी सा जनत्राणयागदीक्षादिरेधते ॥ ३७॥
कृतकृष्णकेलिरेषा सृजति कटाक्षान् हि यत्र धरणितले ।
गजगण्डनिर्यदलिगणगाना तस्य स्थलीगृहस्यात् ॥ ३८॥
अगतीन् सहसा निरीक्ष्य काले जननी सा हि कटाक्षकान्तिसारैः ।
हसितत्रिदशेन्द्रकीर्तिखण्डान्निजनाथाङ्घ्रिशरण्यकानतानीत् ॥ ३९॥
नारायणस्य कान्ता नाकालयलाल्यचरणनलिना सा ।
सद्धृदयकलितनिलया निरसितकलिकालजातकार्श्र्यादिः ॥ ४०॥
कृशकरणादरणाङ्का हरिणाङ्कादृतनिजास्यघृणिनिचया ।
सरसा दयया सैषा चाह्लादकरी च सति नते नित्या ॥ ४१॥
सरसिजासनशङ्करशारदाधरणिधृत्तनया दिनतीडिता ।
कलितनित्यगृहस्थितिरेधते धृतदया च हरेर्हृदयान्तरे ॥ ४२॥
सा राजति हरेः कान्ता या राजादिकृतादरा ।
धीराराध्या च सरसा धीरादिहितदायिनी ॥ ४३॥
रतिनायकदायादा गतिरेषा सनातनी ।
यतिध्यानार्हचरिता नतिकृत्कलिनाशिनी ॥ ४४॥
धाराधरसदृङ्नैजकचकान्तिझरी हरेः ।
कान्ता जयति कल्याणी श्रेयः सन्ततिदायिनी ॥ ४५॥
तनया जलधेः कलाधिनेतृग्रथितानेककलादिहृष्टचेताः ।
सनयान् तनयादिना सनाथानिह कालेन नतान् हि साधयन्ती ॥ ४६॥
अनन्तशक्तेर्लीलादिसाक्षिणी जयदायिनी ।
जज्ञे धरणिकन्या सा दीनत्राणकृतादरा ॥ ४७॥
आञ्जनेयादरानीतनाथरत्ननिरीक्षणात् ।
सा सीता कलितानन्दारातिसङ्घाहितैषिणी ॥ ४८॥
निरसितनिष्किञ्चनजनदैन्या कन्या हि साङ्गरेन्द्रस्य ।
तन्यादद्य श्रेयः सान्न्यासादृतकटाक्षकञ्जश्रीः ॥ ४९॥
शेषशायिन्दयिते दयानिधे श्रीरशेषजनरक्षणादरे ।
राजसे जगति रङ्गनायिका साजासलिलशीतले स्थले ॥ ५०॥
साङ्गशरणागतालेस्त्रायिणि रङ्गेशनायिके जननि ।
दैन्यादिरत्र न हि न तत्र निदाने हि ते दयासारः ॥ ५१॥
आदृतकाञ्चनशाटी कृतनतिजनगेयनैजगीर्धाटी ।
आनन्दादृतचेटी राजति हरिनायिका .... ॥ ५२॥
कृष्णेन येन दयिताकाङ्क्षितदानादरेण नाक्तिलात् ।
शाखी सान्न्यस्तः किल धरातले स श्रिया लसति रङ्गे ॥ ५३॥
कालियनागनियन्ता कलशनदीशानकन्यका नेता ।
काले काले जनयति नः श्रीरखिलार्थिदैन्यहारिदृशा ॥ ५४॥
आश्रितरक्षणधीरा धीराराध्या च सद्गणाधारा ।
धाराकलित श्रेयः सा राजति सागरेन्द्रतनया नः ॥ ५५॥
धीराग्रगण्यदशरथतनयेरितशतसहस्रशरनिकरैः ।
दलिता राक्षससेनासङ्ख्येया जननि सा हि लङ्का च ॥ ५६॥
चैद्याद्या दैतेया निहताः कालेन तेन कृष्णेन ।
तेन जगत्या जननि श्रेयः सन्तानलतिकया हि तया ॥ ५७॥
हरिणा तेन नृहरिणा कालेन तथा हिरण्यकस्तेन ।
कान्तेनाकलि कलिताह्लादः स च तनयदैन्यहारिदृशा ॥ ५८॥
श्रियः श्रियाराधितया सकलाश्च कलास्तथा ।
रसा च सारसासारा ललना ललितक्रियाः ॥ ५९॥
शर्कराक्षीरादिसदृग्रसा च सरला च गीः ।
तनयाद्याश्च येऽनिन्द्यास्तन्यन्ते धरणीतले ॥ ६०॥
तया हि हितदायिन्या सीतयादृतजातया ।
ध्यानार्हया सनाथास्ते दयाहृदयया जनाः ॥ ६१॥
धराधरधरः कृष्णः कालिन्दीतटकेलिकः ।
नाकिनाथनताङ्घ्रिश्च यस्या नेता च गीयते ॥ ६२॥
अष्टदिङ्नायकाराध्या नष्टराज्यादिदायिनी ।
सृष्टिस्थित्यधिनेत्री सा साष्टाङ्गनतिरक्षिणी ॥ ६३॥
सदर्हणादिलसिता सान्नदानादिदायिनी ।
सत्सङ्घत्राणजनिता सा सीता सारसासना ॥ ६४॥
शान्ताराधितया काले तान्तयारण्यचारतः ।
कान्तया हि हरेः काले सान्तका न नराः कृताः ॥ ६५॥
आदरेण कलितार्चनश्च यस्तस्य तस्य नगरी गरीयसी ।
सागरेन्द्रतनयादृशा श्रियः सादरेण कलिदृष्टिहारिणी ॥ ६६॥
सृष्टिस्थितिलयादेर्यः कर्ता नाथ इतीरितः ।
सा श्रीः सहचरी तस्य ख्याता सीतादिना सदा ॥ ६७॥
सा धारणीयचरिता ताथागतनिरासिना ।
नाथार्हकेलिर्जयति गाधा श्रेणीकृदीडिता ॥ ६८॥
जरादिहानिदा सेन्धे धराधरगणेडिता ।
निराकृतार्तिर्जननी कराकलितसारसा ॥ ६९॥
सीराकृष्टस्थले जाता धीराराध्यस्य नायिका ।
सारार्थकृद्दयासारा नारायणसहासना ॥ ७०॥
तारनाथादृतास्यैषा सारधीसद्गणार्चिता ।
या रक्षणे धृतदया सारक्षेत्रादिदायिनी ॥ ७१॥
निजनाथशस्त्रदलितारिचया जनकाधिराजतनया जननी ।
कलितश्रिया हि निजया हि दृशा जनताहिताय किल रङ्गतले ॥ ७२॥
रङ्गतलकलितकेलिः सज्जनरक्षादरेण कल्याणी ।
निजकरकिसलयकलितानन्तशयाङ्घ्रिश्च राजते जननी ॥ ७३॥
कलशसागरकन्यकया तया जगति सज्जनरक्षणदीक्षितः ।
कलितरङ्गगृहे हरिरेधते करकृतादरशङ्खरथाङ्गकः ॥ ७४॥
दिशि दिशि धनधारा दैत्यजिन्नित्यदाराः
कृतनतिजनधीराराधिता जातसारा ।
कलितगगनचारा काशते रत्नहारा
निरसितजनिनारा सत्कृतानन्दसारा ॥ ७५॥
धनतरशशिहारा श्रेयसः सा हि धारा
दिनकरशशिनेत्रा रक्षितानेकयात्रा ।
निरसितकलिकाला नाथकृष्णार्हलीला
कनति कनकचेला दीनरक्षैकशीला ॥ ७६॥
अनादिनिधिरेषा नः श्रेयसे जयशालिनी ।
कञ्जालया कृष्णदारा जननी कलिहारिणी ॥ ७७॥
चिरकालार्चिता धन्यैर्धरणीतनया हि नः ।
काङ्क्षितानि ददात्येषा कञ्जायतदृशः श्रिया ॥ ७८॥
नालीकिनीनाथजनायकेन यदर्थिना किन्नरगेयकीर्त्या ।
लङ्का हता सा शरराशिदग्धा सा जानकी रक्षितसद्गणा हि ॥ ७९॥
सारङ्गाक्षी सरसिजकरा सागरेन्द्रस्य कन्या
सारासाराधिगतधिषणैः सन्नता सन्नताङ्गी ।
सीता ख्याता सदयहृदया सादरा साधयन्ती
सैषा श्रेयः सकलजगतीसद्गतीर्दर्शयन्ती ॥ ८०॥
कल्याणी सा कलशजलधेः कन्यका क्लेशहन्त्री
काले काले कृतनतिहिता काङ्क्षिताधिक्यदात्री ।
कान्तारान्तः कलितचरणा किन्नरीगीतकीर्तिः
कृष्णाकृष्टा कनकसरितः सैकते कान्तकेलिः ॥ ८१॥
रासक्रीडारसिकदयिता रङ्गगेहान्तरस्था
राजश्रेणीललितशिरसां रत्ननीराजिताङ्घ्रिः ।
राजत्येषा ललितनगरीराजधान्यादिदात्री
राकाचन्द्रादृतजलधिजा राजते राजतेजाः ॥ ८२॥
जननीनिरीक्षिता ये ते सरसिजनेत्ररक्षिताः कलिताः ।
तन्नः श्रेयः श्रेणीजयादिततये सदा लसति ॥ ८३॥
कलितागः शतनिचये जने नते ते दयासारः ।
कृतरक्षणघाटी स्यादिति निश्चित्यादरेण जननि जनाः ॥ ८४॥
या शीतकिरणसहजा सा नस्त्राणाय कलितदीक्षा हि
निरसितकृतान्तकिङ्करदृष्टय एते जनाः काले ॥ ८५॥
कलयति जलनिधिकन्या गङ्गासह्याद्रिजादितटसङ्गा ।
श्रेयः सकलार्थिहिता यस्याश्चरणस्थलानि कलितानि ॥ ८६॥
ज्ञानघना सा जननी कन्दलयति सारसारसश्रेयः ।
चन्दनलतया कनकजलतयारादादरात् कृतिके ॥ ८७॥
दयया शीतलहृदया सारसहस्ता च लसति जननी नः ।
रक्षितसत्सङ्घारान्नाकिगणार्च्याङ्घ्रिसरसिजा काले ॥ ८८॥
रक्षितरसिकगणैषा किसलयचरणा हि जयति जननी नः ।
कीरगणकल्यगीरिह सकले शास्त्रार्थसञ्चये लसिता ॥ ८९॥
आदृतसत्सत्कारा नाथहितानाथरक्षणैकदृशा ।
कलयति नैजदृशा किल नः श्रेयः कलिनिरासकृतघाटी ॥ ९०॥
जननी कलङ्करहितानना घनश्रीः सदा लसति रङ्गे ।
रसघननिजास्यसरसिजगीरेषा सत्यसन्धाना ॥ ९१॥
केकानादे कनककदलीकाण्डनीलान्तराले
कञ्जाक्षी सा कनकसरितः केलिगेहान्तरस्था ।
कान्तक्रीडाकलितहृदया रक्षणे दत्तकेलिः
कल्हारश्रीकरकिसलया कज्जलाक्तायताक्षी ॥ ९२॥
चन्द्रकलाचन्दनरसघनसाराद्यैः सदृग्गिरा जननी ।
जनयति रक्षादायिन्येषा कञ्जाक्षहृद्यनिजकलनाः ॥ ९३॥
जितसारङ्गाक्षी सा या रङ्गाक्षीडिता च रङ्गतले ।
कलयति दानानि हि नः काले काले च कृष्णजलदेन ॥ ९४॥
अञ्जनाद्रीशकेल्या यादृतचित्ता सनातनी ।
निरञ्जनजनैरेषाराधिता हि चिराय सा ॥ ९५॥
नाकेशनगरीकान्तालाल्यनैजाङ्घ्रिसारसा ।
जननी चन्द्रसहजा सा रङ्गादितटे स्थिरा ॥ ९६॥
राजति हरिहृदये सा कलितत्राणा कृतागसि जने हि ।
यल्लीलारसघाट्याकृष्टकृदिन्धे स रङ्गेशः ॥ ९७॥
अतिशयितनैजदाना सा श्रीरानन्दकन्दलश्रीर्हि ।
जननी रक्षितधरणी निरसितदेहीति गीरिहार्येड्या ॥ ९८॥
नतकाक्षितदानकलाकलितादृतगेयकीर्तिकलिका सा ।
राजति रङ्गेशगृहे सनातनी सन्निधिः श्रीर्हि ॥ ९९॥
निरसिताधरसङ्गनिजाक्षरग्रथितया ह्यनया हरिनायिका ।
जयति सा धृतहर्षणसन्ततिः कृतधनादिरिहादृतसद्गणा ॥ १००॥
इति निरोष्ठयपदैर्ललितामिमां स्तुतिमुदारमतिः कृतकौतुकः ।
जयति कृष्णकविः कमलापदाम्बुजयुगे कलयन् सफलक्रियः ॥ १०१॥
इति कृष्णकविप्रणीतं निरोष्टयमिन्दिराशतकं सम्पूर्णम् ।
स्तोत्रसमुच्चयः २ (८२)
Proofread by Rajesh Thyagarajan