श्रीपार्वतीस्तोत्रम्
बालार्कायुतसत्प्रभां करतले लोलम्बमालाकुलां
माला सन्दधतीं मनोहरतनुं मन्दस्मितोद्यन्मुखीम् ।
मन्दं मन्दमुपेयुषीं वरयितुं शम्भुं जगन्मोहिनीं
वन्दे देवमुनीन्द्रवन्दितपदामिष्टार्थदां पार्वतीम् ॥ १॥
हेमाभां मतिवागतीतगुणशीलानल्पशिल्पाकृतिं
प्रेमारोहमनोहरां करलसत्कल्याणदामाञ्चिताम् ।
श्यामामीश्वरमुद्यतां वरयितुं त्रैलोक्यसम्मोहिनीं
कामापादनकल्पवल्लिमनिशं वन्दे परां देवताम् ॥ २॥
करधृतवरमाल्या सर्वरक्ताङ्गभूषा
निखिलनयनचेतोहारिरूपाग्र्यवेषा वेषा ।
भवतु भवदभीष्टप्राप्तये शैलकन्या
पुरुषयुवतिवश्याकृष्टिनित्यप्रगल्भा ॥ ३॥
हेमाद्रौ हेमपीठे नतनिखिलसुरैरीड्यमानां विराज-
त्पुष्पेष्विष्वासपाशाङ्कुशकरकमलां रक्तवेषाभिरक्ताम् ।
दिक्षूद्यद्भिश्चतुर्भिर्मणिमयकलशैः पञ्चशक्त्यञ्चितैः स्व-
र्वृक्षैः क्लृप्ताभिषेकां भजत भगवतीं भूतिदामन्त्ययामे ॥ ४॥
चक्रं शङ्खमसिं च चर्म सशरं चापं गदां शूलकं
बिभ्राणां वरदाभयामृतघटान् रत्नौघपात्रं तथा ।
भूषाभिर्मकुटादिभिस्त्रिनयनां पीताम्बरामम्बिकां
ध्यायेच्चन्द्रकलासितां सुरगणैरीड्यां जगन्मङ्गलाम् ॥ ५॥
श्रीकैलासे शुकाद्यैः शिवकरवटमूले निषण्णो निषेव्यः
कृत्वोरौ वामपादं किसलयमृदुलं दक्षिणे दक्षवैरी ।
बिभ्राणो दोर्भिरक्षस्त्रजममृतघटं पुस्तकं ज्ञानमुद्रां
भूयाद्भुक्त्यै च मुक्त्यै मम रजतनिभो दक्षिणामूर्तिशन्भुः ॥ ६॥
इति श्रीपार्वतीस्तोत्रं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan