श्रीपद्मावतीपरिणयतारावलिः
% १५
श्रीमानम्भोधिकन्याविहरणभवनीभूतवक्षःप्रदेशो
भास्वद्भोगीन्द्रभूमीधरवरशिखरप्रान्तकेलीरसज्ञः ।
शश्वद्ब्रह्मेन्द्रवह्निप्रमुखसुरवराराध्यमानाङ्घ्रिपद्मः
पायान्नः श्रीनिवासः प्रणतजनमनःकामनाकल्पशाखी ॥ १॥
श्रीमच्चन्द्रान्ववाये त्रिजगति महिते भूपतिः कश्चनासीत्
आकाशाख्यः स्वतेजःप्रशमितसकलारातिगर्वान्धकारः ।
प्रागाद्याशावधूटीकुचकलशतटीक्षौमितात्मीयकीर्तिः
निर्वेलौदार्यशाली हरिरिव धरणीं ह्लादयन्नादरेण ॥ २॥
पुत्राभावात्कदाचिन्नृपकुलतिलकः पुत्रकामेष्टिहेतोः
क्षोणीं सीरेण कर्षन् स्फुरदमलदलं हैममम्भोजमस्याम् ।
दृष्ट्वा तस्मिंश्च कन्य़ां सरसिजनयनां पुत्रिकेयम् । त्वदीये-
त्याकर्ण्याकाशवाणीमनवधिकुतुकस्मेरवक्त्रोऽग्रहीत्ताम् ॥ ३॥
तस्मिन् यज्ञं नृपेन्द्रे कृतवति महिषी भूरिवान्तर्निधानं
दिव्यं तेजो वहन्ती स्फुटतमविभवा लब्धसंस्कारसम्पत ।
अर्थं शक्तित्रयीवाक्षयमभिसुषुवे शक्रसाध्वीसदृक्षा
प्राप्ते काले मुहूर्ते लसितशुभगुणा मित्रतुल्यं सुपुत्रम् ॥ ४॥
धात्री प्रोक्तः स निघ्नो गुरुषु विधिवदाकल्प्य तज्जातकर्म
स्वारस्यन्त्मीयं चाप्यपत्यं वसुदमवनिजां पद्मतौल्येन पद्माम् ।
चक्रे बालश्च सोऽयं विधुरिव ववृधे वासरैश्शुक्लपक्षे
पित्रादेर्ब्रह्मचर्यव्रतमथ विधिना प्राप चास्त्राणि वेदान् ॥ ५॥
बाला राजन्यमौलेरनुदिनमतुलां वृद्धिमासाद्यमाना
सेयं लब्धोदया श्रीहिमकरकलिकेवावलेह्याङ्गशोभा ।
कर्णान्तश्रान्तापङ्केरुहदलनयना मन्दहासोज्ज्वलास्या
सुभ्रूस्सौन्दर्यलक्ष्मीरिव सकलजनाह्लादभूत्यै बभूव ॥ ६॥
ततः कदाचित्--
तां पद्मां स्वालिवृन्दैस्सह कुसुमवने पारिजातप्रसूना-
न्यादायादाय रम्ये क्वचिदनुलवलीमण्टपे निक्षिपन्तीम् ।
दृष्ट्वा कोऽप्युत्तमस्त्वां विवहति पुरुषश्श्रीसमृद्धोऽचिरेणे-
त्युक्ता दत्त्वा शुभाशीवचनमथ ययौ नारदः पारदश्रीः ॥ ७॥
पश्चादाखेटलोभादधि गहनतलं धावयन्तं करीन्द्र
दृष्ट्वा तुङ्गे तुरङ्गे कमपि च पुरुषं पद्मपत्रायताक्षम् ।
कोऽयं श्रीमान् वनान्ते विचरति सखि किं दृष्टपूवस्त्वयाऽयं
नो चेत् पृष्ट्वा स्वरूपं स्मररुचिरतनोश्चित्तमाश्वासयामि ॥ ८॥
इति सखीमुक्तवा तं प्रति--
कस्त्वं भोःश्रीनिवासोऽस्म्यहमखिलजगन्नायकः काऽसि बाले
श्रीमानाकाशनामा नृपकुलतिलकस्तस्य पद्माऽस्मि पुत्री ।
कस्मादत्रागतस्त्वं तरुणि मनसिजं पृछ जाने न चाहं
वामो वामोरु यो मामनयदयि तव श्रीपदाम्भोजमूलम् ॥ ९॥
इति तेन प्रत्युक्ता-
सेयं श्यामा लताङ्गी सरसिजनयनस्यान्तरङ्गं विदित्वा
रेरे मा मानिषाद शृणु मम वचनं याहि शीघ्रं पिता मे ।
आगन्ता किं विविक्ते वससि चिरमिति श्लिष्टमुच्चार्य पार्श्वे
ज्ञात्वा गूढां सखीनां स्थितिमथ निरगाल्लज्जिता ताः प्रपेदे ॥ १०॥
याते राजीवनेत्रे स्वयमथ सकलास्स्वास्सखीस्ता विहाय
स्वीयं प्राप्यावरोधं हृदि तमनुपदं चिन्तयन्त्येकरूपम् ।
दीना कन्दर्पतीव्रप्रहरणविकलस्वान्तरङ्गा कृशाङ्गी
नो नक्तं नो दिवा वा स्वपिति विहरति स्नाति भुङ्क्ते स्म पद्मा ॥ ११॥
चेतस्तस्या विदित्वा स च हयमधिरुह्याशु गेहं प्रपन्नः
कृच्छ्रेणातीत्य कक्ष्याः कथमपि शयनागारमभ्येत्य तल्पे ।
तामेवान्तर्दधानो दिशिदिशि पुरतः पार्श्वतश्चापि पद्मां
पद्माक्षीमीक्षमाणः प्रतिकलममुह च्चिन्तयंस्तद्गुणौघान् ॥ १२॥
एह्येह्युत्तिष्ठ शेषे किमिदमुपनतं नास्ति ते किं बुभुक्षा
भुङ्क्ष्व प्रातश्च सम्यङ्न हि बत भवता भुक्तमित्यामनन्ती ।
आसीनाऽऽराच्च किं ते हृदयगतमहो किं नु वा सुन्दरीं ते
दृष्ट्वा मुग्धं मनस्ते कुत इति वकुला मेऽभिधत्स्वेत्यपृच्छत् ॥ १३॥
मातः कान्तारदेशे द्विरदमनुसरन्नेकतो दैवयोगात्
आत्मीयाभिस्सखीभिस्सह कुसुमवने पारिजातापचायम् ।
कुर्वन्तीं व्योमनाम्नो नृपकुलतिलकस्यात्मजामम्बुजाक्षीम्
अद्राक्षं तत्कटाक्षैरपहृतमभवन्मन्मनश्चेत्यवादीत् ॥ १४॥
ततः
नेतुं सम्भोज्य तं द्रागथ कृतशपथा प्रस्थिता तन्नगर्याः
मध्येमार्गं महेशं कलशजमुनिना पूजितं सम्प्रणम्य ।
प्राप्यानुज्ञां महर्षेर्महितगुणनिधेर्व्याससूनोश्शुकस्या-
तीत्यारण्यानि पद्मालिभिरथ वकुला सङ्गताऽऽसीत् क्रमेण ॥ १५॥
दृष्ट्वा पृष्ट्वा च बालाः किमिह वसथ का यूयमित्यादरोक्त्या
मातः पद्मावयस्या वयमिति च तदीयोत्तरं सा निशम्य ।
पौनःपुण्येन मध्ये पथि नृपतनयाशीलमाकर्णयन्ती
प्रायात्तूर्णं प्रमोदाद्वियदधिपपुरीं प्रांशुहर्म्याग्रभागाम् ॥ १६॥
तदैव
आयान्तीं वीथिकायामथ शतसुषिरेणांशुकेनाञ्चिताङ्गीं
गुञ्जाशङ्खादिभूषामधिहृदयतलं स्वात्मजं धारयन्तीम् ।
भूतं भव्यं भवद्वः फलमपि कथयामीति तारं भणन्तीम्
आनाय्योचे भविष्यद्वद फलमिति तां राजपत्नी पुलिन्दाम् ॥ १७॥
सैवं पश्चात्पुलिन्दाऽप्ययि तव तनयोद्यानदेशे युवानं
दृष्ट्वा कन्दर्पतुल्यं सितनलिनदृशं तं वृषस्यन्त्यभीक्ष्णम् ।
विद्धा कन्दर्पबाणैरभिलषितमसावाप्नुयादेव बाले-
त्युक्त्वा राज्ञीमयासीत्पथिपथि च पुनर्व्याहरन्ती यथोक्तम् ॥ १८॥
ततः
पुत्रीमासाद्य राज्ञी तव किमभिमतं ब्रूहि मे नैवगोप्यं
किं वा कार्यं करिष्ये तदपि च तनये तन्ममाचक्ष्व सद्यः ।
एवं सान्त्वं जनन्या कथितमनुगता म्लिष्टमाह स्म पद्मा
मातः श्रीशावलोकादहमभजमिमां तद्वियोगज्वरार्तिम् ॥ १९॥
राज्ञी पुत्र्या रहस्यं कथमपि कथितं सत्रपं सानुतापं
श्रुत्वा वै(फ)ल्यभीतस्फुटितनिजमनाः कृच्छ्रतः स्थास्नुधैर्या ।
वासु त्वं नो विभीयास्तव हृदयगतं नैव दुःसाधमेतत्
साध्नोमि त्वां च साधु प्रियतमहृदयां मोदयामीत्यवादीत् ॥ २०॥
दृष्ट्वा पद्मासखीभिः सममथ वकुलाऽऽकाशभूमीशपत्नीं
देवि प्रख्यातकीर्तिर्वृषगिरिनिलयः श्रीनिवासस्तवैव ।
कन्यां सप्रेममैच्छत्कलयतु भवती पद्मिनीदानपूर्वं
तत्कल्याणं सुखेनेत्यवददथ नृपश्चाभ्यनन्दत्तथेति ॥ २१॥
श्रीमानाकारितस्तं सुरगुरुरचिरादेत्य चाकाशराजं
श्रीमन्वैशाखमासे सितदलनवमीसंयुते शुक्रवारे ।
अस्ति ह्यद्वाहलग्नं प्रतिहतकलुषं निश्चितं सुप्रशस्तं
तस्मिन् पद्माविवाहो भवतु नृपवरेत्येवमारादवोचत् ॥ २२॥
सोऽयं राजेन्द्रमौलिस्तदनु स वकुलां प्रेषयन् व्याससूनुं
दूतैरानाय्य तस्मै विधिवदतिथिसत्कारमाधाय धीमान् ।
पद्मिन्या त्वां विधित्सुर्गृहिणमधिप इत्युच्यतां भव्यवार्ते-
त्याख्यायाराच्छुकर्षिं फणिगिरिनिलयस्यान्तिकं प्राहिणोत्तम् ॥ २३॥
सद्यस्त्वष्टा तदात्वे वियदधिपविभोराज्ञया राजधानीं
नव्यप्रासादहर्म्यप्रमुखनिरुपमप्राभवाढ्यामकार्षीत् ।
रन्भास्तम्भैः प्रफुल्लप्रसवफलयुतै रम्यचूतप्रवालैः
चित्रैस्संस्थानभेदैस्तदनु पुरजनोऽभूषयद्रङ्गवल्ल्या ॥ २४॥
श्रीरप्यात्मप्रियं तं मणिगणनिचिते विष्टरे सन्निवेश्या-
भ्यज्य श्रीगन्धतैलैर्गगनचरधुनीवारिभिस्स्नापयित्वा ।
क्षौमं सन्धार्य नूत्नं मृगमदतिलकं भालभागे विधाया-
तानीद्गन्धानुलेपाद्यखिलविधपरिष्कारमामोदभूम्ना ॥ २५॥
पश्चाद्ब्रह्मेन्द्रवैवस्वतवरुणकुबेरादिभिर्देववृन्दैः
तैस्तैर्ब्रह्मर्षिवर्यैः प्रथितनिजतपस्सम्पदुन्मेषवद्भिः ।
वाणीन्द्राणीभवानीमुखविबुधवधूसञ्चयैरञ्चितोऽसौ
युक्तो माङ्गल्यवाद्यैर्वियदधिपपुरीं प्राविशच्छ्रीनिवासः ॥ २६॥
पद्माश्रीशौ तदानीं करिपतगपतिस्कन्धदेशे निषण्णौ
आदायाकाशराजो निजकुलगुरुभिः पौरवृद्धैरमात्यैः ।
साध्वीलोकैर्मृदङ्गाद्यखिलशुभमहातूर्यघोषैश्च सार्धं
तीर्णग्रामोत्सवौ तावनुपमकुतुकादानिनाय स्वगेहम् ॥ २७॥
श्रीपद्माश्रीनिवासौ निजगळलसितां श्रीमतीं पुष्पमालाम्
अन्योन्यं मन्दहासस्फुटरुचिरमुखाम्भोरुहो लीलयैव ।
हर्षोत्कर्षं तदानीं पुरजनहृदयेष्वावहन्तौ त्रिवारं
वृद्धाचारानुरोधाद्विनिमयमवनीशाङ्गणे तावकार्ष्टाम् ॥ २८॥
स श्रीमान् श्रीनिवासो वियदधिपसुतापाणिमालम्ब्य पाणौ
निर्दिष्टं तेन राज्ञा विविधमणिमयस्तम्भदिव्यान्तराले ।
श्रीमत्कल्याणगेहे मणिगणविलसन्मण्टपे वेदिमध्ये
भास्वद्भास्वत्प्रकाशं मणिमयमविशत् प्रांशु कल्याणपीठम् ॥ २९॥
पादौ निर्णिज्य तीर्थैरथ मनुजपतिश्श्रीशमाराध्य सम्यक्
दत्त्वाऽनल्पं किरीटप्रमुखमणिमयाशेषभूषाविशेषान् ।
पुत्रीं पद्मां सहेमाक्षतकुसुमशुभद्रव्यपूर्णाम्बुधारा-
पूर्वं प्रादात् प्रमोदात्करकमलतले सोऽपि जग्राह पद्माम् ॥ ३०॥
स्रष्टा श्रीशेन पद्मागलभुवि विधिवन्मन्त्रपूतं प्रशस्ते
लग्ने माङ्गल्यसूत्रं सह शुभनिनदैर्धारयित्वा विधिज्ञः ।
पद्माहस्ताब्जदत्तैर्हुतभुजमपि तैर्हावयित्वाऽथ लाजैः
एतौ जायापती श्रीद्विजवरवचसाऽतोषयत्सम्प्रणम्रौ ॥ ३१॥
श्रीमान्ब्रह्मेशसङ्क्रन्दनवरुणकुबेरादिमान् देवसङ्घान्
देवोऽनुज्ञाप्य सर्वान् श्वशुरमपि मुदाऽऽनम्य पादारविन्दे ।
शेषाद्रौ शृङ्गभागे रुचिरमणिमहासौधसङ्घे नितान्तं
लक्ष्मीपद्मावतीभ्यामरमत मुदितः प्रेमसम्पूर्णचेताः ॥ ३२॥
श्रीमान् श्रीवत्साङ्कितवक्षा वक्षोधिवासिलक्ष्मीकः ।
श्रीवेङ्कटेशदेवस्सततं श्रेयांसि दिशतु भूयांसि ॥ ३३॥
श्रीशेषशर्माभिनवोपक्लृप्तः प्रियेण भक्त्या च समर्पितोऽयम् ।
पद्माविभोर्मङ्गलकण्ठदेशे विराजतां श्रीनवकण्ठतारः ॥ ३४॥
॥ इति श्रीपद्मावतीपरिणयतारावलिः समाप्ता ॥
From venkaTeshakAvyakalApaH
Proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com