श्रीपद्मावतीसहस्रनामस्तोत्रम्
ॐ श्रीगणेशाय नमः ।
भैरव उवाच -
श्रीशैलशिखरासीनं देवीशं परमेश्वरम् ।
प्रहसन्तं विरूपाक्षं गणगन्धर्वसेवितम् ॥ १॥
ब्रह्मोपेन्द्रेन्द्रचन्द्रार्कगुरुभार्गवपूजितम् ।
नागयज्ञोपवीतं च भूतिभूषितविग्रहम् ॥ २॥
त्रिशूलखट्वाङ्गधरं शरहस्तं पिनाकिनम् ।
जटाजूटोज्ज्वलं देवं गङ्गाधरमुमेश्वरम् ॥ ३॥
जयन्तं मनसा तत्त्वं ध्यानोन्मीलितलोचनम् ।
उभया परया भक्त्या सेविताङ्घ्रिसरोरुहम् ॥ ४॥
प्रसन्नवदनं देवं करुणपूर्णमानसम् ।
प्राणम्योत्थाय रुद्राणी भैरवं वाक्यमब्रवीत् ॥ ५॥
ॐ भगवन् देवदेवेश भक्तानुग्रहकारक ।
शरण्यं वरदेशान त्रिनेत्र त्रिपुरान्तक ॥ ६॥
त्वमात्मा जगतां साक्षी त्वं तत्त्वं वेदवित्परः ।
त्वं तन्त्रवादी मन्त्रेशो नेत्रेशो घोरभैरवः ॥ ७॥
हाटकेश्वर ईशोऽसि नागराजोपसेवितः ।
श्रीसर्वज्ञेश्वरी देवी परा पद्मावतीति या ॥ ८॥
तस्या नामसहस्रं मे वक्तुमर्हसि भैरव ।
भैरव उवाच -
देवदेवीति या देवि श्रीसर्वज्ञेश्वरेश्वरी ॥ ९॥
पद्मावतीति या देवि महाचीनद्रुमाश्रया ।
श्रीबुद्धोपासिता विद्या महाविद्याधीदेवता ॥ १०॥
परब्रह्म परा देवी अधाराम्नायनायकी ।
विंशाक्षरी च कमला कमलाक्षी च पञ्चमी ॥ ११॥
तस्या नामसहस्रं ते वक्ष्ये परमदुर्लभम् ।
स्तुत्यं पुण्यप्रदं पुण्यं सर्वदेवादिपूजितम् ॥ १२॥
सर्वपापप्रशमनं सर्ववैरिनिषूदनम् ।
सर्वरोगहरं देवि सर्वोपद्रवनाशनम् ॥ १३॥
पूजाकोटिसमं दिव्यं सर्वदारिद्र्यनाशनम् ।
लक्ष्मीप्रदं च धनदं विद्याश्चातुर्यकारणम् ॥ १४॥
सर्वशापूरकं साध्यमष्टसिद्धिप्रदायकम् ।
वेदतत्त्वं तन्त्रत्तत्वं मन्त्रतत्त्वैककारणम् ॥ १५॥
जयदं वलदं गुह्यं सर्वयज्ञफलप्रदम् ।
श्रुत्वा गोपय यत्नेन मन्त्रनामसहस्रकम् ॥ १६॥
पद्मावत्या रहस्यं मे सर्वस्वं पारदैवतम् ।
मन्त्रनामसहस्रस्य सदाशिवऋषिः स्मॄतः ॥ १७॥
त्रिष्टुप्छन्दो देवता च श्रीसर्वज्ञेश्वरेश्वरी ।
पद्मावतीति मा बीजं पराशक्तिरिति स्मॄता ॥ १८॥
कामकीलकमीशानि दिग्बन्धः प्रणवः स्मॄतः ।
धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः ॥ १९॥
ॐ अस्य श्रीपद्मवतीनामसहस्रस्य श्रीसदाशिवऋषिः,
त्रिष्टुप्छन्दः, श्रीसर्वज्ञेश्वरेश्वरी पद्मावति देवता ।
श्रीम्बीजं ह्रींशक्तिः क्लीं कीलकम् । ॐ इतिदिग्बन्धनम् ।
श्रीधर्मार्थकममोक्षार्थे पद्मावती मन्त्रनामसहस्रस्य
जपे पाठे विनियोगः ।
अथ ध्यानम् ।
ॐ उद्यत्सूर्यमरीचिकोटिसदृशीमापीनन्तुङ्गस्तनी-
मारक्ताम्बरधारिणीं शशिकलाचूडां त्रिनेत्रोज्ज्वलाम् ।
मालापद्मकपालकुम्भककरां पद्मासनां शीधुपाम् ।
देवीं मुक्तकचां सुरासवरसां रक्तोक्षणां चिन्तये ॥
इति ध्यानम् ॥
ॐ ह्रीं श्रीं क्लीं ब्लूं नागी नागराजोपसेविता ।
नागेन्द्रतनया नारी नगराजसुतानघा ॥ १॥
नगरी नागरी नुत्या नगनायकनन्दनी ।
नीलम्बरधरानन्ता नीला नीलपताकिनी ॥ २॥
नीलक्रमेश्वरी नुन्ना नीलद्रुमलताश्रया ।
निशा निशाकरकला कोमला च कलावती ॥ ३॥
जयाश्रया जयकरी विजया विजयप्रदा ।
विलासिनी विश्वमाता विश्वेशी विश्वसूदिनी ॥ ४॥
विश्वप्रसूर्विश्वधात्री धात्री धातृवरप्रदा ।
अमृती मृत्युशमनी मारी मृत्युर्मनोन्मयी ॥ ५॥
मनस्विनी मानवती मनोज्ञा मदिरावती ।
इन्द्राणी दाहनी दीप्तिर्धर्मदा धर्मनायकी ॥ ६॥
रक्षोधात्री राक्षसेशी रक्षोलोकोपसेविता ।
वारुणी मदिरा मोदा वारुणीमदविह्वला ॥ ७॥
यात्याली वायुसूर्वाणी वयुपूज्या विभावरी ।
श्रीदा श्रीदेश्वरी श्रीला श्रीशोभा शङ्करी शिवा ॥ ८॥
ईश्वरी शाम्भवी मूर्तिर्ब्रह्मसूर्ब्रह्मवल्लभा ।
नारायणी शेषमूर्तीर्गुरुमूर्तिर्गरीयसी ॥ ९॥
कृसराकेशरवती कमला कमलावती ।
विमला निर्मला माला मालाक्षीरक्षपाकुला ॥ १०॥
कपालीश्वरसेव्या च कपालीशी कपालिनि ।
माल्याम्बरधरा साध्वी मालिनी हारिणी हरित् ॥ ११॥
हालाहालावती हेलालीला लीलावती तटी ।
वालिका कलिकाकाली कुरुकुल्लाच कोमला ॥ १२॥
डाकिनी डक्किका योग्या योगिनी खेचरी चरी ।
ब्रह्माणी ब्रह्मरुद्राणी वैष्णवी चण्डिका जया ॥ १३॥
दैत्यदर्पहरी ध्येया दर्पवत्यपराजिता ।
कौमारी कुलिकाकुह्या वाराही वरदायिनी ॥ १४॥
नारसिंही वीरसिंही नृपसिंहसमर्चिता ।
असिताङ्गी नताङ्गी च रुरुभैरवपूजिता ॥ १५॥
कपालभैरवेशानी भीषणा भीषणेश्वरी ।
संहारभैरवी भीमा भीमावामाङ्गवासिनी ॥ १६॥
गणेश्वरी गुणातीता निर्गुणा निष्कला कला ।
सकला सकलाधारा धराधरसुताप्रसूः ॥ १७॥
प्रजावती प्रेमवती विनता विनयप्रदा ।
विश्वम्भरा वरगतिः सुगतिः सुगतार्चिता ॥ १८॥
स्वर्गतिः समतिः साध्वी सुखदाच सुखावती ।
त्रिनेत्रा त्रिपुरेशानी महात्रिपुरसुन्दरी ॥ १९॥
त्रिकुला त्रिपुराध्याक्षा त्रिवर्णा त्रिपुटेश्वरी ।
त्र्यक्षरी त्रिपुरा बाला महात्रिपुरभैरवी ॥ २०॥
वीरागिणी वीरगतिरध्विनी चास्ववाहिनी ।
अश्वप्लुतिः साधुगतिर्भरणी भारिणी भगा ॥ २१॥
भगमाला भगेशानी भगबिम्बाभमालिनी ।
कृत्तिका कृत्तिवस्त्रा च कृत्तिवासकुटुम्बिनी ॥ २२॥
कार्तिकेयप्रसूः कीर्तिः कीर्तिदा कीर्तिवर्धिनी ।
रोहिणि रोहिणिमूर्तिः रौहिणीयवरप्रदा ॥ २३॥
मृगावती मृगीनेत्री मृगलाञ्छनशेखरा ।
मृगराजगतिर्मृग्या मृगी मृगशिरोधरा ॥ २४॥
आर्द्रार्द्रवासना सान्द्रा पुनर्भूतिः पुनर्वसुः ।
पुनर्जया पुर्नर्दीना पुनर्वारा पुनर्वधूः ॥ २५॥
तिथ्या तिथिप्रिया तिथ्यापुष्पा पुष्पवती पुरी ।
अश्लेषाश्लेष रसिका मघा मोघावती सुहॄत् ॥ २६॥
पूर्वा पुर्वमुखी पौर्वा पुर्वाफाल्गुणिका तडित् ।
सौदामिनी सुदामा च सुधापानपरायणा ॥ २७॥
उत्तरा चोत्तराषा च सोत्तरोत्तरफाल्गुणी ।
हस्ता हस्तजनीत्री च खनित्री खनिरुत्तमा ॥ २८॥
चित्रा चित्राम्बरधरा स्वातिः स्वादुसुह्वीसुरी ।
विशाखा शाखिनी शाखा विशाखाजननी जडी ॥ २९॥
अरागिणी परा राग्यानुराधानुरुपूजिता ।
ज्येष्ठा श्रेष्ठा ज्येष्ठकला मूलं मूलधरागतिः ॥ ३०॥
पूर्वाषाढा च या षण्डी चोत्तराषाढवल्लभा ।
श्रावणी श्रावणीमुर्तिः श्रवणेशी श्रुतिस्मृतिः ॥ ३१॥
विश्रवा सश्रवा श्रव्या श्रान्ता वैश्रवणीश्वरी ।
धनेश्वरी धनिष्ठा च धनिलोकवरप्रदा ॥ ३२॥
शतं शमा शतभिषक् कलिकल्मषनाशिनी ।
पूर्वाभाद्रपदा भाद्रभाद्रदा भाद्रकालिका ॥ ३३॥
श्मशानकालिका घोरा कालिका वीरकालिका ।
उत्तरोतरभद्रा च पदचोत्तरकालिका ॥ ३४॥
रेवती देवकी देवी श्यामा दक्षिणकालिका ।
सूर्यांशुसदृशी शूरी चन्द्रिका चन्द्रवल्लभा ॥ ३५॥
मङ्गली मङ्गलवती योद्धदा बुद्धिवर्धिनी ।
बुद्धोपसेविता बोधा जीवदा जीवसेविता ॥ ३६॥
जीवन्तो गुरुदेहा च वाग्विलासप्रदायिनी ।
शुक्रः शुक्रप्रसूः शुक्रो शुक्रलिप्ता च शुक्रला ॥ ३७॥
शुक्रात्मिका शुक्रपूज्या शुक्रनीतिविवर्धिनी ।
शुक्रप्रिया शुक्रजया शुक्रचन्दनचर्चिता ॥ ३८॥
श्रुक्राङ्गरागलिप्ताङ्गी श्रुक्रैकतिलकप्रिया ।
शनिप्रस्था मन्दगतिर्मन्दमाता मदालसा ॥ ३९॥
मन्दाकिनी च मदिरा मदिरारुणलोचना ।
रक्तबाहुर्हरीकेतुः कैतवी केतुमालिनी ॥ ४०॥
ध्रुवा ध्रुवजनित्री च ध्रुवमार्गप्रवर्त्तिनी ।
अनुसुयानुलोमा च लोआपमुद्रा च लोपिनी ॥ ४१॥
अगस्त्योपासिता विद्या नवग्रहसमर्चिता ।
प्रतिपद्विकलातिथ्या द्वितीया सैव शक्तिका ॥ ४२॥
तृतीया कारिणीमुर्तिश्चतुर्था वेदनायकी ।
पञ्चमी षोम पञ्चेसी षष्ठी षड्रसलोलुपा ॥ ४३॥
सप्तमी सप्तशाखा च सप्तर्षिजनसेविता ।
अष्टमी वसुपूज्या च नवमी नवरात्रिका ॥ ४४॥
नवदुर्गाश्रया मूर्तिः श्रीदुर्गा कालरात्रिका ।
दशमी दशमीपुज्या दशदिक्पालवन्दिता ॥ ४५॥
एकादशी रुद्रमूर्ति द्वादशी सूर्यवल्लभा ।
त्रयोदशी शिवप्रीता भुतेशी च चतुर्दशी ॥ ४६॥
अमावास्य पितृकला पूर्णिमा चन्द्रवन्दिता ।
विद्याधरी मेनकाच चित्रलेखाप्यलम्बुषा ॥ ४७॥
तिलोत्तमाक्षरा रम्भा रम्भोरू लम्भकुन्दला ।
ऊर्वशी शीतलाङ्गी च शूलिनी कुन्तकेश्वरी ॥ ४८॥
सुन्दोपसुन्दशमनी महिषसुरसूदिनी ।
रक्तबीजहरा रक्तचण्डमुण्डनिषूदिनी ॥ ४९॥
निशुम्भशुम्भहर्त्री च मधुकैटभनाशिनी ।
हिरण्याक्षहरी धूर्ती रावणान्तकरी धृतिः ॥ ५०॥
सीता साध्वी शीलवती शम्भरान्तकरी सती ।
शम्बरारिसहाया च शम्बरारिरिपुप्रिया ॥ ५१॥
यक्षेश्वरी यक्षवधूर्यक्षिणी यक्षनायकी ।
रक्षोमाता राक्षसी च गान्धारी किन्नरीश्वरी ॥ ५२॥
पिशाची सुमुखी देवी मातङ्गी राजवल्लभा ।
उच्छिष्टमुखचाण्डाली राजमातङ्गिनी तुरी ॥ ५३॥
महापिशाचिनी देवी शङ्किनी शङ्खिनी शता ।
गुह्या गुह्यतमा गोप्त्री यक्षिणी गुह्यकेश्वरी ॥ ५४॥
सुलोचना सुगोत्रा च सुवस्त्रा स्वर्णकङ्कणा ।
सिद्धेस्वरी सिद्धमाता सिद्धलोकनिवासिनी ॥ ५५॥
अणिमा महिमा सिद्धिर्गरिमा लघिमा तथा ।
ईशत्वसिद्धिः सत्सिद्धिः सप्तसिद्धिः सदाश्रया ॥ ५६॥
सकाम्यसिद्धिः सिद्धेछा मन्त्रसिद्धिः सुसिद्धिदा ।
भूतेश्वरी महाराज्ञी भुतेश्वरविलासिनी ॥ ५७॥
भूतधात्रि भूतविद्या भूतवेतालसेविता ।
तपस्विनी तपस्या च यश्स्या च यसखिनी ॥ ५८॥
स्तम्भिनी मुखमुद्रा च महास्तम्भेश्वरेश्वरी ।
गतिस्तम्भकरी त्रेता बगला बगलामुखी ॥ ५९॥
मोहिनी काममोहा च मोहा त्रिपुरमोहिनी ।
मारणीमुर्तिरीशानी मृत्युरूपा करालिनी ॥ ६०॥
केनाशवरदा केला जगदाकर्षिणीश्वरी ।
वशीकरणमूर्तिश्च राजलोकवशङ्करी ॥ ६१॥
उच्चाटनकरी मुद्रा शान्तिका शान्तिदायिनी ।
पौष्टिकी पुष्टिदा पुष्टिः सन्तानकतकस्थिता ॥ ६२॥
वन्ध्या च काकवन्ध्या च मृतवत्सा च वत्सला ।
वन्ध्यापुत्रप्रदा पौत्री पौत्रीपुत्रप्रियङ्करी ॥ ६३॥
मौक्तिकी मुक्तिदा मुक्तिर्मुक्ताहारविभूषणा ।
सरस्वती भारती च जडभावविनाशिनी ॥ ६४॥
उग्रताराभतारा च तिथितारोत्तरोत्तरा ।
नीली सुरार्चिता नीवी नीला नीलसरस्वती ॥ ६५॥
एका चैकजटजूटा महातारा जटालिनी ।
शैलदुर्गा शैलपुत्री ब्रह्मेशी ब्रह्मचारिणी ॥ ६६॥
चण्डघण्टा चण्डदुर्गा प्रचण्डा चण्डिका च्युता ।
कूष्माण्डी स्कन्दमाता च गुहदुर्गा सुदुर्जया ॥ ६७॥
कात्यायनी पुटदुर्गा कालदुर्गा कृकाटिकी ।
कालरात्री रत्नदुर्गा महागौरी गुणप्रिया ॥ ६८॥
देवदूती शिवादूती दूतदुर्गा पराम्बिका ।
वनदुर्गेति दुर्गा च पद्मदुर्गा पिलम्पिला ॥ ६९॥
श्रीविद्यावासिनी दुर्गा हिमाचलकृतालया ।
निषधाद्रिनिवासा च माल्यवद्गिरिवासिनी ॥ ७०॥
पारिजातगिरिस्था च गन्धमादनवासिनी ।
सह्यपर्वतसंस्था च कैलासाचलवासिनी ॥ ७१॥
मलयस्था लयातीता सप्तसागरवासिनी ।
सप्तद्वीपाश्रया पृथ्वी सप्तपातालवासिनी ॥ ७२॥
सप्तग्रहेश्वरी सप्तभुवनान्तरवासिनी ।
शिवतत्त्वमयी शक्तिः सदाशिवविलासिनी ॥ ७३॥
ईश्वराश्रयिणी काम्या शुद्धविद्या सदालसा ।
माया मायवती याम्या कलातत्त्वप्रकाशिनी ॥ ७४॥
विद्यावाग्वादिनी वाणी रागतत्त्वप्रमोदिनी ।
कालतत्त्वानुरागा च नियतिर्यतिवल्लभा ॥ ७५॥
पुरुषाकृतितत्त्वा च पुरुषार्थप्रदायिनी ।
प्रकृतिः प्रकृतिस्तुल्पा सकृतादेशदक्षिणा ॥ ७६॥
अहङ्कृतिरहन्तत्त्वा महतत्त्वभरालसा ।
बुद्धिर्मनोवेगवती त्वक् चक्षुर् ज्योतिरम्मयी ॥ ७७॥
श्रोत्रतत्त्वा च रसना रसाला रसपायिनी ।
घ्राणी मोहाकुला माद्री वामीशी पाणिपङ्कजा ॥ ७८॥
पादाश्रितधरा॥काशा पायुतत्त्वविचारिणी ।
तपस्तरसिकालिङ्ग्या लिङ्गामृतसुतर्पिता ॥ ७९॥
भगलिङ्गमयीमृर्तिर्भगलिङ्गसुखाश्रया ।
शब्दरूपा शब्दसुखा नादबिन्दुस्वरूपिणी ॥ ८०॥
स्पर्शप्रिया स्पर्शतत्त्वा रसतत्त्वा रसालसा ।
गन्धिनी च सुगन्धा च परमाकाररूपिणी ॥ ८१॥
शून्यरूपा शून्यमतिः शून्ययोनिः पराकृतिः ।
वह्निज्वाला महाज्वाला ज्वाललिङ्गनिवासिनी ॥ ८२॥
ज्वालामुखी कोटराक्षी ज्वालाजटिलरूपिणी ।
सलिलेशी जलेशा च हयोरूपा पयस्विनी ॥ ८३॥
पृथिवीपञ्चतत्वेशी षट्त्रिंशत्तत्त्वरूपिणी ।
वसन्तकुसुमश्रीश्च वसन्तर्तुसुखाश्रया ॥ ८४॥
ग्रीष्मज्वाला रविप्रीता वर्षावृष्टिविधायिनी ।
शरत्कुसुमसम्पश्च शारदा सिंहविष्टरा ॥ ८५॥
हेमन्तश्रीर्हैमवती हरिकान्ता हरेश्वरी ।
शिखरश्रीः शशिमुखी शरिकाशुकसेविता ॥ ८६॥
यमुना यमिनी याम्या नर्मदा शतरुद्रिका ।
सरस्वती वेत्रवती रेवा रैवतकाश्रया ॥ ८७॥
विपाशा पराहन्त्री च भाग्यदा भगमालिनी ।
ऐरावती सरित्सिन्धुः शतद्रुः शतरुद्रिका ॥ ८८॥
वितस्ता सिन्धुरैन्द्री च विशोका पापनाशिनी ।
चन्द्रवती मधुमती सरयू चामरावती ॥ ८९॥
तापी हैमवती शीस चम्पा चम्पावती कुरू ।
कर्मनाशा च कावेरी कौशिकी कौशिकेश्वरी ॥ ९०॥
शुचिर्हैमवती हैमी गण्डकी देविका दितिः ।
अदितिर्विनता कद्रूः सभागा वीरभागिका ॥ ९१॥
सुधावती चर्मवती चर्मवत्यपि वेणुका ।
रत्नावती मणिमुखा नदीरूपा चिदीश्वरी ॥ ९२॥
वाराणसी शिवपुरी मयापुरी गुडी तथा ।
काञ्ची चोज्जयिनी प्रेय्या मथुराय च दुर्ल्लभा ॥ ९३॥
अयोध्यायां च सेव्या च द्वारिका दुर्गावासिनी ।
उड्डीयानावनिः कुड्या कामरूपनिवासिनी ॥ ९४॥
हिङ्गुलापीठ्वासा च शारदापीठवासिनी ।
कुब्जिका पाश्चिमाम्नायवीरपीठनिवासिनि ॥ ९५॥
श्यामाविद्या महाकाली दक्षिणाम्नायनायकी ।
उग्रचण्ड्युत्तराकाली उत्तराम्नायनायकी ॥ ९६॥
श्रीमहाषोडशी देवी परोर्ध्वाम्नायनायकी ।
पद्मावती नगविद्या चाधराम्नायनायकी ॥ ९७॥
षडाम्नायेश्वरी देवी पराशक्तिः समातृका ।
अकारनायकी चाम्बा चानन्तानन्दविग्रहा ॥ ९८॥
अम्बिकाम्बालिकानन्दा चाद्रिजाद्रिनिषेविता ।
अलोपाकालितानल्पा चाजिताजसमर्चिता ॥ ९९॥
अलिमाम्सस्वरूपा च अवर्णाकृतिवर्णिनी ।
आद्यात्मरूपिणी चाज्ञा आनन्दरसतर्पिता ॥ १००॥
आकारजितसर्वाशा आपायितपदाश्रया ।
आचारपञ्चकप्रीता आकाराक्षरमतृका ॥ १०१॥
इन्द्रस्तुत्या महेन्द्राक्षी इन्दिरेन्दीवरप्रदा ।
इडामङ्गलसम्भ्रान्त चेतिहासकथास्मृतिः ॥ १०२॥
इत्यपूजापरस्तृप्तिः इकाराक्षरमातृका ।
ईश्वरप्रेयसी इशा ईईकाराक्षराश्रया ॥ १०३॥
उमा चोल्का चारुहासा चोग्रवामाङ्गवासिनी ।
उल्लासनवरूपोक्षा विक्षाराक्षरविग्रहा ॥ १०४॥
ऊष्मा ऊती उरुमति ऊस्वरोहा स्वरोत्तमा ।
ऋभु ऋक्षेश्वरी ऋत्या ऋमात्रा लृकृतिस्तिथा ॥ १०५॥
लृमातृका विभूषाढ्या योण्ठस्वरविनायकी ।
एणांशुमुकुटा चेणि चैणनेत्रा सवर्णिका ॥ १०६॥
ऐङ्कारबीजभूषाढ्या ऐहिकामुष्मिकप्रदा ।
ॐकाररूपिणी और्वा अंस्वरूपा स्वरोत्थिता ॥ १०७॥
अःस्वरुपपरम्ब्रह्मरूपीणी स्वरनायकी ।
कनकाङ्गदभूषा च कनकी कनकावती ॥ १०८॥
कठोराङ्गी कृपाकारा मोक्षदा च कृपावती ।
काश्मीरी काश्यपाकारा कारीका कलिकावती ॥ १०९॥
कादम्बरी कश्मला च कुजस्था कश्मलावती ।
कामेश्वरी काञ्चनाभा कामुकी कामुकावती ॥ ११०॥
काञ्चुकी कुड्मला कन्था केतकी कनकावती ।
कपेश्वरी कोपवती कपिला कपिलावती ॥ १११॥
करञ्जकुञ्जसंस्था च कम्पिला कम्पिलावती ।
केयूरहारशोभाढ्या किंशुकी किंशुकावती ॥ ११२॥
कोकिलालापरसिका कोकिली कोमलावती ।
कलङ्करहिता केश्या कलविङ्ककुलावती ॥ ११३॥
कुलाकुलपदेशानी कुरुकुल्लाधिदेवता ।
ककारमातृकादेवी ककारमातृकावती ॥ ११४॥
खड्गहस्ता खर्पराशी खटिला खटिलावती ।
खेटेश्वरी खगगतिः खड्गिनी खेटकावती ॥ ११५॥
खञ्चनाक्षी खञ्जरीठी खंरूपा खञ्चनावती ।
गोप्त्री गोपालवनिता गोदातीत गयावती ॥ ११६॥
गणेशजननी गुर्वी गुणगम्या गुणावती ।
गरुन्मणिर्मरीचिश्च गणना गणकेश्वरी ॥ ११७॥
घुर्घुरा घरटा घारी घटिका घटिकावती ।
घनेश्वरी घनेहा च घनवाहा घनावती ॥ ११८॥
ङान्ता ङवर्णासंस्था च वर्गिणी च ङमातृका ।
चामीकरप्रभा चान्द्री चटुला चटुलावती ॥ ११९॥
चमत्कृतिश्चन्द्रहासा चन्द्रामोदा चलावती ।
चञ्चश्चकोरनयना चकोरी कोरकावती ॥ १२०॥
चलत्पवनवेगा च चलिता चुलुकावती ।
छत्रेश्वरी छत्रधारा छात्रेक्षा छत्रिकावती ॥ १२१॥
छिन्नमस्ता छिन्नभूषा छटिला छटिलावती ।
जप्या जेया जयकरी जीवान्ता जीवनावती ॥ १२२॥
जगज्जैत्रा जगद्रक्षा जगती जयिकावती ।
जटिला जङ्गमेशानी जम्भाली जम्भलावती ॥ १२३॥
झङ्कारीर्जलदा छाया झिञ्झिणी झिञ्झिणावती ।
ञणुरूपा ञवर्णेशी ञकारा ञणिणावती ॥ १२४॥
टङ्कायुधा टिण्टिणिका टाङ्कारी टङ्कणावती ।
ठाकुरी ठकुरेशानी ठाक्षरा ठाक्षरावती ॥ १२५॥
डिण्डीरवल्लभा डीणा डकारा डिण्डिमावती ।
ढत्कृतिर्ढुण्ढुपीढाक्षी ढकारमातृकावती ॥ १२६॥
णिणीवामा णवर्णेशी णवर्णाक्षरमातृका ।
तपनी तापनी त्र्यक्षी तपनीयसमप्रभा ॥ १२७॥
तोतुला तिलकद्योतिस्तोटिका तिलकावती ।
तौटिल्पराहिता तामी तमिका तुटिलावती ॥ १२८॥
तामरी तोमरकरा तौतिली तुलसी तुरी ।
तटाकधरणी तुट्यास्तुटिस्तुम्बुरुनिःस्वना ॥ १२९॥
ताण्डवीपरमप्रीता तुण्डघोणा तुलावती ।
तरी तामरसद्योतिस्तरणी तरुणावती ॥ १३०॥
त्रुटन्माला त्रुटिहारा त्रपाला चपलावती ।
स्थालिका स्थाण्डिला स्थाणुः स्थविरा स्थविरावती ॥ १३१॥
दमनी दमदा दारा दम्भोलीभृद्वरप्रदा ।
दण्डहस्ता दयार्द्रा च दोलारूढा दुरावती ॥ १३२॥
दुन्दुनी दुन्दुशमनी दाम्भिकी दाम्भिकावती ।
दीनैकजननी दान्ता दिण्डिनी दण्डकावती ॥ १३३॥
द्रोहिणी द्रोहदा हर्त्री द्रुहिका द्रुहिकावती ।
द्राक्षारसप्रिया द्रोता दकाराक्षरमातृका ॥ १३४॥
धन्या धनदसेव्या च धर्मिला धर्मिलावती ।
नर्मकर्मकरी नाली नलिनी नलिनावती ॥ १३५॥
नरनारीजनस्तुत्या नरनारायणप्रिया ।
नटेश्वरी नाट्यकरी नटिनी नटिकावती ॥ १३६॥
नागरजेन्द्रद्रयिता नागरी नागरावती ।
परम्परापीवराङ्गी पाठकी पीठिकावती ॥ १३७॥
पाठा पदाम्बरधरा पदिनी पद्दिनावती ।
पदोदकाप्रिया पात्री पात्रजा पात्रिकावती ॥ १३८॥
परात्मिका परम्ब्राह्मी परमेश्वरवल्लभा ।
फुण्टिका फाण्टजा फान्ता फट्वर्णाक्षरमातृका ॥ १३९॥
बलन्धुरा बलकरी बलिदानवनाशिनी ।
बलोत्तरा बन्धकरी बन्धकी बन्धकावती ॥ १४०॥
बन्धुजा बान्धवप्रीता बर्बरी बर्बरावती ।
बगोला बन्धमुक्ता च बालकी बगलावती ॥ १४१॥
भगरूपा भगोल्लासा भागजा च भगावती ।
भगलिङ्गरसास्वादा भगलिङ्गामृतात्मिका ॥ १४२॥
भगरूपारतप्रीता भगिला भगलावती ।
मुद्रिका मोहमुद्रा च नवमुद्राप्रकाशिनी ॥ १४३॥
माद्यक्षीदुरसाक्षीवा मन्दुरा मोदकावती ।
मञ्जूषिका मञ्जुरवा मधुयष्टिर्मदावती ॥ १४४॥
मधुमत्ता मदोद्धसा मोदकी मोदकावती ।
मोदकाहारवरदा मोदिरा मद्रिकावती ॥ १४५॥
मनोवती मानसिकी मेठिका मण्ठिकावती ।
मैनाकवरदा मेधा मेरुजा मीनकावती ॥ १४६॥
यज्ञेश्वरीप्रिया यज्ञफलदा यज्ञकावती ।
यजमानप्रिया याज्ञयाजकी यज्ञकावती ॥ १४७॥
यष्टिहस्ता यन्त्रकरी याष्टिकी याष्टिकावती ।
यादस्पतिस्तुता योगजननी जनकावती ॥ १४८॥
रात्रिञ्चरक्षयकरी रात्रेश्वरनिषेविता ।
रोगकेहारिणी रावी रोलम्बा मधुरस्वना ॥ १४९॥
राजपूजा रटाला च रजसी राजिलावती ।
रजस्वला रजोरूपा रेतिजा रेतिलावती ॥ १५०॥
लक्ष्मिर्लालाकरी लोला लाङ्गलिशी लुलावती ।
लाक्ष्रसप्रभालुता लाङ्गलायुधसेविता ॥ १५१॥
ललज्जिह्वा च लोलाक्षी लास्यहास्य विचक्षणा ।
लम्बकेशावली लम्बरसना लम्बिकावती ॥ १५२॥
वशिनी वंशजा वंशी वसतिर्वशिकावती ।
शार्दूलचर्मवसना शम्बूककलिकावती ॥ १५२॥
शिर्दूलमध्या सारेशी शमदा शमिकावती ।
शौर्यप्रदा सूरमाता शौरिकी शौरिकावती ॥ १५३॥
षोडशी षोडशकला षडङ्गा षोडशाक्षरी ।
सतीमाता सत्रसाला सारसी सरसावती ॥ १५४॥
सुरसङ्घार्चिता सभ्या सभासेव्या सभावती ।
समस्तसुख सौभाग्या समस्त दुरितापहा ॥ १५५॥
समस्तसाधकस्तुत्या सर्वमङ्गलदायिनी ।
सरोजिनीधवद्योतिः सागरैकसुतासुरा ॥ १५६॥
सुरापानरसाला च सरला सरलावती ।
हूहूप्रिया च हुं बीजा हरिणी नयनाहुतिः ॥ १५७॥
होतृप्रिया हव्यभक्ष्या हविषा हविषावती ।
हालाहलप्रिया होला हलिनी हटिलावती ॥ १५८॥
होममाला हरिप्रीता हकाराक्षरमातृका ।
हयुषा हाटकद्योतिर्हेमकान्तिर्हलावती ॥ १५९॥
लक्षःस्वरूपा सदसच्चिदानन्देश्वरेश्वरी ।
दयावती सत्यवती यशोवत्यमरावती ॥ १६०॥
प्रभावती धनवती क्रियावत्यकलावती ।
मोहवती महवती स्तुवन्ती मल्लिकावती ॥ १६१॥
पार्वती पावनवती देवता श्रीधरावती ।
ॐ ह्रीं श्रीं ब्लूं च फट् स्वाहा पद्मा पद्मावतीश्वरी ॥ १६२॥
इति नाम्नां सहस्त्रं ते कथितं वीरवन्दिते ।
समस्तमतृकापूर्णसर्वक्षतु मनोहरे ॥ १६३॥
समस्ततिथिसम्पूर्णं मूलमन्त्रैकसाधनम् ।
देवि गुह्यतमं गुह्यं भवसागरतारणम् ॥ १६४॥
पापापहं महापुण्यं पुण्यदं पुण्यवर्धनम् ।
ब्रह्महत्यादिपापानां प्रायश्चित्तफलप्रदम् ॥ १६५॥
यःपठेत्पाठयेद्वापि श्रावयेद्वा शृणेति यः ।
स लक्ष्मीभाजनं वीरो यशस्वी कुलनायकः ॥ १६६॥
तेजसः सूर्यसङ्काशो यशसः राघवोपमः ।
वलवान् वायुसदॄशो वागीशसदृशो गिरः ॥ १६७॥
नीत्या भार्गवसङ्काशो जपेन च विभूपमः ।
सौन्दर्येण स्मरः साक्षाच्छोभया च शशिप्रभः ॥ १६८॥
विभवेन शिवः साक्षाच्छ्रिया वैश्रवणोपमः ।
भृङ्गिरीज्योपमो भक्त्या शौर्येणेन्द्रोपमो भुवि ॥ १६९॥
बहुनोक्तेन किं देवि स साक्षाद्भैरवोपमः ।
यः पठेद्वीरपूजायामानन्दरसघूर्णितः ॥ १७०॥
दशवारं त्रिवारं वा प्रयोगार्हो भवेत्तु सः ।
श्मशाने चक्रपूजायां यः पठेच्छक्तिसन्निधौ ॥ १७१॥
स पुरश्चरणैकस्य फलमश्नाति साधकः ।
यः पठेच्छक्तिभोगान्ते जप्त्वा मूलं दशांशतः ॥ १७२॥
तस्य तत्र शयानस्य देवी दर्शनमेष्यति ।
यः पठेछून्यसदने मदिरानन्दनिर्भरः ॥ १७३॥
त्रिवारं दशधा जप्त्वा स भवेद्विभवास्पदम् ।
सर्पं दृष्ट्वा जपेन्मूलं पठेन्नामसहस्रकम् ॥ १७४॥
अष्टगन्धेन पुण्येन मातृकावेष्टितं लिखेत् ।
रक्ततन्तुनिबद्धं च लाक्षया परिवेष्टयेत् ॥ १७५॥
सौवर्णेनाथ संवेष्ट्य पञ्चगव्येन शोधयेत् ।
कुमारीपूजनं कृत्वा धारयेन्मूर्ध्नि वा भुजे ॥ १७६॥
योषिद्वामकरेवद्ध्वा पुरुषो दक्षिणे भुजे ।
रणे रिपून् जयेद्बीरो मघवत्तुल्पविक्रमान् ॥ १७७॥
जित्वा समस्तधरणीं सार्वभौमो भविष्यति ।
वन्धापि लभते पुत्रान् मृतवत्सा चिरायुषः ॥ १७८॥
काकवन्ध्या पूर्णगर्भा पुत्रं प्राप्नोति निश्चितम् ।
भौमवारे जपेद्विद्यां पठेन्नामसहस्रकम् ॥ १७९॥
भजेद्रामां रतां ते तु लभेत्कामान्यथेप्सितान् ।
सङ्क्रान्तौ भूमिकम्पे वा ग्रहणे चन्द्रसूर्ययोः ॥ १८०॥
त्रिवारं साधको देवि पठेन्नामसहस्रकम् ।
धनवान् जयवांल्लोके भवेद्भैरव एव सः ॥ १८१॥
श्मशानेषु जपेद्विद्यां पठेत्कवचमुत्तमम् ।
मन्त्रनामसहस्रं च स्तोत्रं परमदुर्लभम् ॥ १८२॥
इहलोकेश्रियं भुक्त्वा परत्रेष्टं पदं लभेत् ।
इति पद्मावती देव्या मन्त्रनामसहस्रकम् ॥ १८३॥
रहस्यं सर्वसर्वस्वं सारात्सारोत्तमोत्तमम् ।
तत्त्वात्तत्त्वतमं गोप्यं तन्त्रयन्त्रालयं परम् ॥ १८४॥
अदातव्यं कुचैलाय निन्दकाय दुरात्मने ।
वीरलोकैकभ्रष्टाय वीरनिन्दापराय च ॥ १८५॥
गुरुभक्तिविहीनाय परशक्तिरताय च ।
अभक्ताय न दातव्यं न दातव्यं महेश्वरि ॥ १८६॥
देयं शिष्याय शान्ताय दीक्षिताय परात्मने ।
तस्य वित्तर्धिविभवे भोगमोक्षादि सिद्धयः ॥ १८७॥
इदं सारं हि तन्त्राणां मन्त्राणां मन्त्रतत्त्वकम् ।
पद्मावती प्रियतरं मन्त्रनामसहस्रकम् ॥ १८९॥
गुह्यं गोप्यतरं गोप्यं गुह्याद्गुह्यतमोत्तमम् ।
सर्वस्वं मे रहस्यं मे गोपनीयं स्वयोनिवत् ॥ १९०॥
इति श्रीदेवीयमले तन्त्रे उमामहेश्वरसंवादे षडाम्नायप्रदीपिकायां
पद्मावतीसहस्रनामस्तोत्रं समाप्तम् ॥
The sahasranama is on Shri Padmavati thAyAr of
Tiruchanur, Tirupati, AP.
Encoded by Sivakumar Thyagarajan
Proofread by Sivakumar Thyagarajan and PSA Easwaran