श्रीपद्मावतीस्तोत्रम् ३
जय जय जगदानन्ददायिनि ! जय जय धरणेन्द्रवलभे ! सुभगे !
देवि ! फणत्रयधारिणि ! त्वं जय पद्मानने ! पद्मे ! ॥ १॥
विजया जयाऽजिता त्वं अपराजिता शिवा गौरी ।
रम्भा त्वं वैरोट्या प्रज्ञप्तिर्भद्रकाली च ॥ २॥
काली च महाकाली शिवङ्करी शङ्करी पद्मनेत्रा ।
हिमवत्तनया लक्ष्मीर्धृतिमतिभुवनेश्वरी देवी ॥ ३॥
त्वं वुद्धि-सिद्धि-वृद्धिस्त्वं ज्वालामालिनीश्वरी बाला ।
कामाक्षा जगदम्बा अम्बा जगदीश्वरी तारा ॥ ४॥
त्वमम्विकाऽन्नपूर्णा श्रीर्विद्यात्रिपुरन्दरीजननी ।
त्वं भगवती भवानी मातङ्गी राजमातङ्गी ॥ ५॥
त्वं भैरवी त्रिनेत्री शक्तिस्त्वं हिङ्गुलाज-हीङ्गोली ।
त्वं वाग्वादिनीशारदा सरस्वती सत्यदेवी च ॥ ६॥
ज्वालामुखि भो बाला पीठा शाकम्भरी च त्यमनन्ता ।
शीतला तोतला भद्रा वज्रा कूष्माण्डी चक्रधरा ॥ ७॥
चामुण्डी महामाया गायत्री सर्वविश्वविख्याता ।
श्रुतदेवी जिनवाणी त्वं विद्या वर्द्धमानस्य ॥ ८॥
नागकुमारकुमारी देवी कात्यायनी मधुमती च ।
कुण्डलिनी ह्रीङ्कारी आई माई च दुर्गोमा ॥ ९॥
भोगी चानन्दकरी त्वं वरदानन्ददायिनी नित्या ।
ब्रह्माणी बाहुवली सिंहमराले समारूढा ॥ १०॥
त्वं चैकाक्षरनामा अक्षरी त्र्यक्षरी षडक्षरी माता ।
पञ्चदशाक्षरगर्भिता त्वं भुवनत्रयस्य सौख्यकरी ॥ ११॥
त्रिजगन्नाप्तशरीरा जनजाड्यविभञ्जना रविकराभा ।
सेवकवाच्छितफलदा पद्मदला भास्वरी सेव्या ॥ १२॥
श्रीपार्श्वनाथपदपङ्कजभक्तिलीना पद्मासना प्रवरकुर्कुटसर्पयाना ।
दारिद्र्यदुःखरिपुवर्गविनाशनोत्का पद्मावती भवतु मे खलु सा प्रसन्ना ॥ १३॥
इति श्रीपद्मावतीस्तोत्रं सम्पूर्णम् ।
Proofread by DPD