धर्माचार्यकृता श्रीपञ्चस्तवी

धर्माचार्यकृता श्रीपञ्चस्तवी

पञ्चानां स्तवानां समाहारा - A collection of five eulogiums १. लघुस्तवः । २. चर्चास्तवः । ३. घटस्तवः । ४. अम्बास्तवः । ५. सकलजननीस्तवः । ॥ श्रीः ॥ श्रीगणेशाय नमः । श्रीगुरुभ्यो नमः । ॐ नमस्त्रिपुरसुन्दर्यै ।

अथ लघुस्तवः प्रथमः ।

(श्री बालाविंशतिस्तवः अथवा श्रीबालालघुस्तवराजः लघुस्तवः इत्यपि नामान्तरम् ।) % १ लघुभट्टारकाख्य अथवा कालिदासविरचितः ऐन्द्रस्येव शरासनस्य दधती मध्येललाटं प्रभां शौक्लीं कान्तिमनुष्णगोरिव शिरस्यातन्वती सर्वतः । एषाऽसौ त्रिपुरा हृदि द्युतिरिवोष्णांशोः सदाहः स्थिता छिन्द्यान्नः सहसा पदैस्त्रिभिरघं ज्योतिर्मयी वाङ्मयी ॥ १॥ या मात्रा त्रपुसीलतातनुलसत्तन्तूत्थितिस्पर्धिनी वाग्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् । शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमां ज्ञात्वेत्थं न पुनः स्पृशन्ति जननी गर्भेऽर्भकत्वं नराः ॥ २॥ दृष्ट्वा संभ्रमकारि वस्तुसहसा ऐ ऐ इति व्याहृतं येनाऽकूतवशादऽपीह वरदे ! बिन्दुं विनाप्यक्षरम् । तस्यापि ध्रुवमेव देवि तरसा जाते तवानुग्रहे वाचःसूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्राम्बुजात् ॥ ३॥ यन्नित्ये तव कामराजमपरं मन्त्राक्षरं निष्कलं तत्सारस्वतमित्यवैति विरलः कश्चिद्बुधश्चेद्भुवि । आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयन्तो द्विजाः प्रारम्भे प्रणवास्पदप्रणयितां नीत्वोच्चरन्ति स्फुटम् ॥ ४॥ यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधैः तार्तीयीकमहं नमामि मनसा त्वद्बीजमिन्दुप्रभम् । अस्त्वौर्वोऽपि सरस्वतीमनुगतो जाड्याम्बुविच्छित्तये गौः शब्दो गिरि वर्तते सनियतं योगं विना सिद्धिदः ॥ ५॥ एकैकं तव देवि बीजमनघं सव्यञ्जनाऽव्यञ्जनं कूटस्थं यदि वा पृथक् क्रमगतं यद्वा स्थितं व्युत्क्रमात् । यं यं काममपेक्ष्य येन विधिना केनापि वा चिन्तितं जप्तं वा सफलीकरोति सहसा तं तं समस्तं नृणाम् ॥ ६॥ वामे पुस्तकधारिणीमभयदां साक्षस्रजं दक्षिणे भक्तेभ्यो वरदानपेशलकरां कर्पूरकुन्दोज्ज्वलाम् । उज्जृम्भाम्बुजपत्रकान्तिनयनस्निग्धप्रभालोकिनीं ये त्वामम्ब न शीलयन्ति मनसा तेषां कवित्वं कुतः ॥ ७॥ ये त्वां पाण्डुरपुण्डरीकपटलस्पष्टाभिरामप्रभां सिञ्चन्तीममृतद्रवैरिव शिरो ध्यायन्ति मूर्ध्नि स्थिताम् । अश्रान्तं विकटस्फुटाक्षरपदा निर्यान्ति वक्त्राम्बुजात् तेषां भारति भारती सुरसरित्कल्लोललोलोर्मिवत् ॥ ८॥ ये सिन्दूरपरागपुञ्जपिहितां त्वत्तेजसा द्यामिमा- मुर्वीं चापि विलीनयावकरसप्रस्तारमग्नामिव । पश्यन्ति क्षणमप्यनन्यमनसस्तेषामनङ्गज्वर- क्लान्तास्त्रस्तकुरङ्गशावकदृशोवश्याः भवन्ति स्फुटम् ॥ ९॥ चञ्चत्काञ्चनकुण्डलाङ्गदधरामाबद्धकाञ्चीस्रजं ये त्वां चेतसि तद्गतेक्षणमपि ध्यायन्ति कृत्वा स्थिराम् । तेषां वेश्मसु विभ्रमादहरहः स्फारीभवन्त्यश्चिरम् । माद्यत्कुञ्जरकर्णतालतरलाः स्थैर्यं भजन्ते श्रियः ॥ १०॥ आर्भट्याशशिखण्डमण्डितजटाजूटां नृमुण्डस्रजं बन्धूकप्रसवारुणाम्बरधरां प्रेतासनाध्यासिनीम् । variation कुसुमारुणा त्वां ध्यायन्ति चतुर्भुजां त्रिनयनामापीनतुङ्गस्तनीं मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसंवित्तये ॥ ११॥ जातोऽप्य्ऽल्पपरिच्छदे क्षितिभुजां सामान्यमात्रे कुले निःशेषावनिचक्रवर्तिपदवीं लब्ध्वा प्रतापोन्नतः । यद्विद्याधर वृन्दवन्दितपदः श्रीवत्सराजोऽभवत् देवि त्वच्चरणाम्बुज प्रणतिजः सोऽयं प्रसादोदयः ॥ १२॥ चण्डि त्वच्चरणाम्बुजार्चनविधौ बिल्वीदलोल्लुण्ठन- त्रुट्यत्कण्टककोटिभिः परिचयं येषां न जग्मुः कराः । ते दण्डाङ्कुशचक्रचापकुलिशश्रीवत्समत्स्याङ्कितै- र्जायन्ते पृथिवीभुजः कथमिवाम्भोजप्रभैः पाणिभिः ॥ १३॥ विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवैः । त्वां देवि त्रिपुरे परापरमयीं सन्तर्प्य पूजाविधौ । यां यां प्रार्थयते मनः स्थिरधियां तेषां त एव ध्रुवं तां तां सिद्धिमवाप्नुवन्ति तरसा विघ्नैरविघ्नीकृताः ॥ १४॥ शब्दानां जननी त्वमत्र भुवने वाग्वादिनीत्युच्यसे त्वत्तः केशववासव प्रभृतयोऽप्याविर्भवन्ति स्फुटम् । लीयन्ते खलु यत्र कल्पविरमे ब्रह्मादयस्तेऽप्यमी सा त्वं काचिदचिन्त्यरूपमहिमा शक्तिः परा गीयसे ॥ १५॥ देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरा- स्त्रैलोक्यं त्रिपदी त्रिपुष्करमथो त्रिब्रह्म वर्णास्त्रयः । यत्किञ्चिज्जगति त्रिधा नियमितं वस्तु त्रिवर्गामकं तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः ॥ १६॥ लक्ष्मी राजकुले जयां रणभिवि क्षेमङ्करीमध्वनि क्रव्यादद्विपसर्पभाजि शवरीं कान्तारदुर्गे गिरौ । भूतप्रेतपिशाचजम्बुकभये स्मृत्वा महाभैरवीं व्यामोहे त्रिपुरां तरन्ति विपदस्ताराञ्च तोयप्लवे ॥ १७॥ माया कुण्डलिनी क्रिया मधुमती काली कला मालिनी मातङ्गी विजया जया भगवती देवी शिवा शाम्भवी । शक्तिः शङ्करवल्लभा त्रिनयना वाग्वादिनी भैरवी ह्रिङ्कारी त्रिपुरा परापरमयी माता कुमारीत्यसि ॥ १८॥ आईपल्लवितैपरस्परयुतैर्द्वित्रिक्रमाद्यक्षरैः काद्यैः क्षान्तगतैः स्वरादिभिरथो क्षान्तैश्च तैः सस्वरैः । नामानि त्रिपुरे भवन्ति खलु यान्यत्यन्तगुह्यानि ते तेभ्यो भैरवपत्नि विंशतिसहस्रेभ्यः परेभ्यो नमः ॥ १९॥ बोद्धव्या निपुणं बुधैः स्तुतिरियं कृत्वा मनस्तद्गतं भारत्यास्त्रिपुरेत्यनन्यमनसो यत्राद्यवृत्ते स्फुटम् । एकद्वित्रिपदक्रमेण कथितस्तत्पाद सङ्ख्याक्षरै- र्मन्त्रोद्धारविधिर्विशेषसहितः सत्संप्रदायान्वितः ॥ २०॥ सावद्यं निरवद्यमस्तु यदि वा किं वानया चिन्तया नूनं स्तोत्रमिदं पठिष्यति जनो यस्यास्ति भक्तिस्त्वयि । सञ्चिन्त्यापि लघुत्वमात्मनि दृढं सञ्जायमानं हठात् त्वद्भक्त्या मुखरीकृतेन रचितं यस्मान्मयापि स्फुटम् ॥ २१॥ इति श्रीधर्माचार्यकृतौ श्री पञ्चस्तव्यां लघुस्तवः प्रथमः समाप्तः । १

अथ चर्चास्तवो द्वितीयः ।

ॐ नमस्त्रिपुरसुन्दर्यै । आनन्दसुन्दरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु मे विजयाय मञ्जु- मञ्जीरशिञ्जितमनोहरमम्बिकायाः ॥ १॥ सौन्दर्यविभ्रमभुवो भुवनाधिपत्य- सम्पत्तिकल्पतरवस्त्रिपुरे! जयन्ति । एते कवित्वकुमदप्रकरावबोध- पूर्णेन्दवस्त्वयि जगज्जननि प्रणामाः ॥ २॥ देवि ! स्तुतिव्यतिकरे कृतबुद्धयस्ते वाचस्पति प्रभृतयोऽपि जडी भवन्ति । तस्मान्निसर्गजडिमा कतमोऽहमत्र स्तोत्रर्ं तव त्रिपुरतापनपत्नि ! कर्तुम् ॥ ३॥ मातस्तथापि भवतीं भवतीव्रताप- विच्छित्तये स्तुतिमहार्णव कर्णधारः । स्तोतुं भवानि स भवच्चरणारविन्द- भक्तिग्रहः किमपि मां मुखरी करोति ॥ ४॥ सूते जगन्ति भवती भवती बिभर्ति जागर्ति तत्क्षयकृते भवती भवानि । मोहं भिनत्ति भवती भवती रुणद्धि लीलायितं जयति चित्रमिदं भवत्याः ॥ ५॥ यस्मिन्मनागपि नवाम्बुजपत्रगौरि! गौरि! प्रसादमधुरां दृशमादधासि । तस्मिन्निरन्तरमनङ्गशरावकीर्ण- सीमन्तिनीनयनसन्ततयः पतन्ति ॥ ६॥ पृथ्वीभुजोऽप्युदयनप्रवरस्य तस्य विद्याधर प्रणति चुम्बित पाद पीठः । यच्चक्रवर्तिपदवीप्रणयः स एष (स एव) त्वत्पादपङ्कजरजः कणजः प्रसादः ॥ ७॥ कल्पद्रुमप्रसवकल्पितचित्रपूजा- मुद्दीपित प्रियतमामदरक्तगीतिम् । नित्यं भवानि! भवतीमुपवीणयन्ति विद्याधराः कनकशैल गुहागृहेषु ॥ ८॥ लक्ष्मीवशीकरणकर्मणिकामिनीना- माकर्षणव्यतिकरेषु च सिद्धमन्त्रः । नीरन्ध्रमोहतिमिरच्छिदुरप्रदीपो देवि! त्वदऽङ्घ्रिजनितो जयति प्रसादः ॥ ९॥ देवि! त्वदऽङ्घ्रनखरत्नभुवो मयूखाः प्रत्यग्रमौक्तिकरुचो मुदमुद्वहन्ति । सेवानतिव्यतिकरे सुरसुन्दरीणां सीमन्तसीम्नि कुसुमस्तवकायितं यैः ॥ १०॥ मूर्ध्नि स्फुरत्तुहिनदीधितिदीप्तिदीप्तं मध्ये ललाटममरायुधरश्मिचित्रम् । हृच्चक्रचुम्बि हुतभुक्कणिकानुरूपं ज्योतिर्यदेतदिदमम्ब! तव स्वरूपम् ॥ ११॥ रूपं तव स्फुरितचन्द्रमरीचिगौर- माम्लोकते शिरसि वागधिदैवतं यः । निःसीमसूक्तिरचनामृतनिर्भरस्य तस्य प्रसादमधुराः प्रसरन्ति वाचः ॥ १२॥ सिन्दूरपांसुपटलच्छुरितामिव द्यां त्वत्तेजसा जतुरसस्नपितामिवोर्वीम् । यः पश्यति क्षणमपि त्रिपुरे! विहाय व्रीडां मृडानि! सुदृशस्तमनुद्रवन्ति ॥ १३॥ मातर्मुहूर्तमपि यः स्मरति स्वरूपं लाक्षारसप्रसरतन्तुनिभं भवत्याः । ध्यायन्त्यनन्यमनसस्तमनङ्गतप्ताः प्रद्युम्नसीम्नि सुभगत्वगुणं तरुण्यः ॥ १४॥ योऽयं चकास्ति गगनार्णवरत्नमिन्दु- र्योऽयं सुरासुरगुरुः पुरुषः पुराणः । यद्वाममर्धमिदमन्धकसूदनस्य देवि! त्वमेव तदिति प्रतिपादयन्ति ॥ १५॥ इच्छानुरूपमनुरूपगुणप्रकर्षं सङ्कर्षिणि ! त्वमनुसृत्य यदा विभर्षि । जायेत स त्रिभुवनैक गुरुस्तदानीं देवः शिवोऽपि भुवनत्रयसूत्रधारः ॥ १६॥ रुद्राणि ! विद्रुममयीं प्रतिमामिव त्वां ये चिन्तयन्त्यरुणकान्तिमऽनन्यरूपाम् । तानेत्य पक्ष्मलदृशः प्रसभं भजन्ते कण्ठावसक्तमृदुबाहुलतास्तरुण्यः ॥ १७॥ त्वद्रूपमुल्लसितदाडिमपुष्परक्त- मुद्भावयेन्मदनदैवतमक्षरं यः । तं रूपहीनमपि मन्मथनिर्विशेष- मालोकयन्त्युरुनितम्बभरास्तरुण्यः ॥ १८॥ ध्याताऽसि हैमवति! येन हिमांशुरश्मि- मालाऽमलद्युतिरकल्मष मानसेन । तस्याऽविलम्बमनवद्यमनल्पकल्प- मल्पैर्दिनैः सृजसि सुन्दरि! वाग्विलासम् ॥ १९॥ आधारमारुतनिरोधवशेन येषां सिन्दूररञ्जितसरोजगुणानुकारि । दीप्तं हृदि स्फुरति देवि! वपुस्त्वदीयं (तीव्रं हृदि) ध्यायन्ति तानिह समीहितसिद्धसाध्याः ॥ २०॥ त्वामैन्दवीमिव कलामनुभालदेश- मुद्भासिताम्बरतलामवलोकयन्तः । सद्यो भवानि! सुधियः कवयो भवन्ति त्वं भावनाहितधियां कुल कामधेनुः ॥ २१॥ त्वां व्यापिनीति समना इति कुण्डलीति त्वां कामिनीति कमलेति कलावतीति । त्वां मालिनीति ललितेत्यपराजितेति देवि! स्तुवन्ति विजयेति जयेत्युमेति ॥ २२॥ ये चिन्तयन्त्यरुणमण्डलमध्यवर्ति रूपं तवाम्ब! नवयावकपङ्कपिङ्गम् । तेषां सदैव कुसुमायुधबाणभिन्न- वक्षःस्थला मृगदृशो वशगा भवन्ति ॥ २३॥ उत्तप्तहेमरुचिरे त्रिपुरे! पुनीहि चेतश्चिरन्तनमघौघवनं लुनीहि । कारागृहे निगडबन्धनपीडितस्य त्वत्संस्मृतौ झटिति मे निगडास्त्रुटन्तु ॥ २४॥ शर्वाणि! सर्वजनवन्दितपादपद्मे! पद्मच्छदच्छविविडम्बितनेत्रलक्ष्मि! । निष्पापमूर्ति जनमानसराजहंसि! हंसि त्वमापदमनेकविधां जनस्य ॥ २५॥ त्वत्पादपङ्कजरजः प्रणिपातपूतैः पुण्यैरनल्पमतिभिः कृतिभिः कवीन्द्रैः । क्षीरक्षपाकरदुकूलहिमावदाता कैरप्यवापि भुवनत्रितयेऽपि कीर्तिः ॥ २६॥ त्वद्रूपैकनिरूपणप्रणयिताबन्धो दृशोस्त्वद्वगुण- ग्रामाकर्णनरागिता श्रवणयोस्त्वत्संस्मृतिश्चेतसि । त्वत्पादार्चनचातुरी करयुगे त्वत्कीर्तनं वाचि मे कुत्रापि त्वदुपासनव्यसनिता मे देवि! मा शाम्यतु ॥ २७॥ उद्दामकामपरमार्थसरोजषण्ड- चण्डद्युतिर्द्युतिमुपासितषट्प्रकाराम् । मोहद्विपेन्द्रकदनोद्यतबोधसिंह- लीलागुहां भगवतीं त्रिपुरां नमामि ॥ २८॥ गणेशवटुकस्तुता रतिसहायकामान्विता स्मरारिवरविष्टरा कुसुमबाणबाणैर्युता । अनङ्गकुसुमादिभिः परिवृता च सिद्धैस्त्रिभिः कदम्बवनमध्यगा त्रिपुरसुन्दरी पातु नः ॥ २९॥ यः स्तोत्रमेतदनुवासरमीश्वरायाः श्रेयस्करं पठति वा यदिवा श‍ृणोति । तस्येप्सितं फलति राजभिरीड्यतेऽसौ जायेत स प्रियतमो हरिणेक्षणानाम् ॥ ३०॥ ब्रह्मेन्द्ररुद्रहरिचन्द्रसहस्ररश्मि- स्कन्दद्विपाननहुताश्मवन्दितायै । वागीश्वरि! त्रिभुवनेश्वरि! विश्वमात- रन्तर्बहिश्च कृतसंस्थितये नमस्ते ॥ ३१॥ इति श्रीधर्माचार्यकृतौ श्री पञ्चस्तव्यां चर्चास्तवो द्वितीयः समाप्तः । २

अथ तृतीयो घटस्तवः ।

ॐ देवि! त्र्यम्बकपत्नि! पार्वति सति! त्रैलोक्यमातः! शिवे! शर्वाणि! त्रिपुरे! मृडानि वरदे! रुद्राणि! कात्यायिनि! । भीमे! भैरवि !चण्डि! शर्वरि! कले! कालक्षये शूलिनि! त्वत्पादप्रणतानऽनन्यमनसः पर्याकुलान्पाहिनः ॥ १॥ उन्मत्ता इव सग्रहा इव विषव्यासक्तमूर्च्छा इव प्राप्तप्रौढमदा इवाति विरहग्रस्ता इवार्ता इव । ये ध्यायन्ति हि शैलराजतनयां धन्यास्त एकाग्रत- स्त्यक्तोपाधिविवृद्धरागमनसो ध्यायन्ति वामभ्रुवः ॥ २॥ देवि! त्वां सकृदेव यः प्रणमति क्षोणीभृतस्तं नम- न्त्याजन्मस्फुरदङिघ्र्पीठविलुठत्कोटीरकोटिच्छटाः । यस्त्वामर्चति सोऽर्च्यते सुरगणैर्यः स्तौति स स्तूयते यस्त्वां ध्यायति तं स्मरार्तिविधुरा ध्यायन्ति वामभ्रुवः ॥ ३॥ ध्यायन्ति ये क्षणमपि त्रिपुरे! हृदि त्वां लावण्ययौवनधनैरपि विप्रयुक्ताः । ते विस्फुरन्ति ललितायतलोचनानां चित्तैकभित्तिलिखितप्रतिमाः पुमांसः ॥ ४॥ एतं किं नु दृशा पिबाम्युत विशाम्यस्याङ्गमङ्गैर्निजैः किं वामु निगलाम्यनेन सहसा किं वैकतामाश्रये । तस्येत्थं विवशो विकल्पघटनाकूतेन योषिज्जनः किं तद्यन्न करोति देवि! हृदये यस्य त्वमावर्तसे ॥ ५॥ विश्वव्यापिनि यद्वदीश्वर इति स्थाणावनन्याश्रयः शब्दः शक्तिरिति त्रिलोकजननि! त्वय्येव तथ्यस्थितिः । इत्थं सत्यपि शक्नुवन्ति यदिमाः क्षुद्रा रुजो बाधितुं त्यद्भक्तानऽपि न क्षिणोषि च रुषा तद्देवि! चित्रं महत् ॥ ६॥ इन्दोर्मध्यगतां मृगाङ्कसदृशच्छायां मनोहारिणी पाण्डूत्फुल्लसरोरुहासनगता स्निग्धप्रदीपच्छविम् । वर्षन्तीममृतं भवानि! भगवतीं ध्यायन्ति ये देहिन- स्ते निर्मुक्तरुजो भवन्ति विपदः प्रोज्झन्ति तान्दूरतः ॥ ७॥ पूर्णेन्दोः शकलैरिवातिबहलैः पीयूषपूरैरिव क्षीराब्धेर्लहरीभरैरिव सुधापङ्कस्य पिण्डैरिव । प्रालेयैरिव निर्मितं तव वपुर्ध्यायन्ति ये श्रद्धया चित्रान्तर्निहतार्तितापविपदस्ते सम्पदं बिभ्रति ॥ ८॥ ये संस्मरन्ति तरलां सहसोल्लसन्तीं त्वां ग्रन्थिपञ्चकभिदं तरुणार्कशोणाम् । रागार्णवे बहलरागिणि मज्जयन्तीं कृत्स्नं जगद्दधति चेतसि तान्मृगाक्ष्यः ॥ ९॥ लाक्षारसस्नपितपङ्कजतन्तुतन्वी- मन्तः स्मरत्यनुदिनं भवतीं भवानि । यस्तं स्मरप्रतिममप्रतिमस्वरूपा नेत्रोत्पलैर्मृगदृशो भृशमर्चयन्ति ॥ १०॥ स्तुमस्त्वां वाचमव्यक्तां हिमकुन्देन्दुरोचिषम् । कदम्बमालां बिभ्राणाम्ऽऽपादतललम्बिनीम् ॥ ११॥ मूर्ध्नीन्दोः सितपङ्कजासनगतां प्रालेयपाण्डुत्विषं वर्षन्तीममृतं सरोरुहभुवो वक्त्रेऽपि रन्ध्रेऽपि च । अच्छिन्ना च मनोहरा च ललिता चातिप्रसन्नापि च त्वामेव स्मरतां स्मरारिदयिते ! वाक् सर्वतो वल्गति ॥ १२॥ ददातीष्टान्भोगान्क्षपयति रिपून्हन्ति विपदो दहत्याधीन्व्याधीञ्छमयति सुखानि प्रतनुते । हठादन्तर्दुःखं दलयति पिनष्टीष्टविरहं सकृद्ध्याता देवी किमिव निरवद्यं न कुरुते ॥ १३॥ यस्त्वां ध्यायति वेत्ति विन्दति जपत्यालोकते चिन्तय- त्यन्वेति प्रतिपद्यते कलयति स्तौत्याश्रयत्यर्चति । यश्च त्र्यम्बकवल्लभे! तव गुणानाकर्णयत्यादरा- त्तस्य श्रीर्न गृहादपैति विजयस्तस्याग्रतो धावति ॥ १४॥ किं किं दुःखं दनुजदलिनि! क्षीयते न स्मृतायां का का कीर्तिः कुलकमलिनि! ख्याप्यते न स्तुतायाम् । का का सिद्धिः सुरवरनुते! प्राप्यते नार्चितायां कं कं योगं त्वयि न चिनुते चित्तमालम्बितायाम् ॥ १५॥ ये देवि! दुर्धरकृतान्तमुखान्तरस्था ये कालि! कालघनपाशनितान्त बद्धाः । ये चण्डि! चण्डगुरुकल्मषसिन्धुमग्ना- स्तान्यासि मोचयसि तारयसि स्मृतैव ॥ १६॥ लक्ष्मीवशीकरणचूर्णसहोदराणि त्वत्पादपङ्कजरजांसि चिरं जयन्ति । यानि प्रणाममिलितानि नृणां ललाटे लुम्पति दैवलिखितानि दुरक्षराणि ॥ १७॥ रे मूढाः! किमयं वृथैव तपसा कायः परिक्लिश्यते यज्ञैर्वा बहुदक्षिणैः किमितरे रिक्तीक्रियन्ते गृहाः । भक्तिश्चेदविनाशिनी भगवतीपादद्वयी सेव्यता- मुन्निद्राम्बुरुहातपत्रसुभगा लक्ष्मीः पुरो धावति ॥ १८॥ याचे न कञ्चन न कञ्चन वञ्चयामि सेवे न कञ्चन निरस्तसमस्तदैन्यः । श्लक्ष्णं वसे मधुरमद्मि भजे वरस्त्री- देवी हृदि स्फुरति मे कुलकामधेनुः ॥ १९॥ शब्दब्रह्ममयि! स्वच्छे देवि त्रिपुरसुन्दरि! । यथाशक्ति जपं पूजां गृहाण परमेश्वरि ॥ २०॥ नन्दन्तु साधकाः सर्वे विनश्यन्तु विदूषकाः । अवस्था शाम्भवी मेऽस्तु प्रसन्नोऽस्तु गुरुः सदा ॥ २१॥ दर्शनात्पापशमनी जपान्मृत्युविनाशिनी । पूजिता दुःखदौर्भाग्यहरा त्रिपुरसुन्दरी ॥ २२॥ नमामि यामिनीनाथलेखालङ्कृतकुन्तलाम् । भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ २३॥ मन्त्रहीनं क्रियाहीनं विधिहीनं च यद्गतम् । त्वया तत्क्षम्यतां देवि! कृपया परमेश्वरि! ॥ २४॥ इति श्रीधर्माचार्यकृतौ श्री पञ्चस्तव्यां घटस्तवः तृतीयः समाप्तः । ३

अथ पञ्चस्तव्यामम्बास्तवश्चतुर्थः ।

ॐ यामामनन्ति मुनयः प्रकृतिं पुराणीं विद्येति यां श्रुतिरहस्यविदोवदन्ति । तामर्धपल्लवितशङ्कररूपमुद्रां देवीमनन्यशरणः शरणं प्रपद्ये ॥ १॥ अम्ब! स्तवेषु तव तावदकर्तुकाणि कुण्ठीभवन्ति वचसामपि गुम्फनानि । डिम्बस्य मे स्तुतिरसावऽसमञ्जसापि वात्सल्यनिघ्नहृदयां भवतीं धिनोति ॥ २॥ व्योमेति बिन्दुरिति नाद इतीन्दुलेखा- रूपेति वाग्भवतनूरिति मातृकेति । निःष्यन्दमानसुखबोधसुधास्वरूपा विद्योतसे मनसि भाग्यवतां जनानाम् ॥ ३॥ आविर्भवत्पुलकसन्ततिभिः शरीरै- र्निःष्यन्दमानसलिलैर्नवनेश्च नित्यम् । वाग्भिश्च गद्गदपदाभिरुपासते ये पादौ तवाम्ब! हृदयेषु त एव धन्याः ॥ ४॥ वक्त्रं यदुद्यतमभिष्टुतये भवत्या- स्तुभ्यं नमो यदपि देवि! शिरः करोति । चेतश्च यत्त्वयि परायणमम्ब! तानि कस्यापि कैरपि भवन्ति तपोविशेषैः ॥ ५॥ मूलालवालकुहरादुदिता भवानि! निर्भिद्य षट्सरसिजानि तडिल्लतेव । भूयोऽपि तत्र विशसि ध्रुवमण्डलेन्दु- निःष्यन्दमानपरमामृततोयरूपा ॥ ६॥ दग्धं यदा मदनमेकमनेकधा ते मुग्धः कटाक्षविधिरङ्कुरयाञ्चकार । धत्ते तदा प्रभृति देवि! ललाटनेत्रं सत्यं ह्रियेव मुकुलीकृतमिन्दुमौलिः ॥ ७॥ अज्ञातसम्भवमनाकलितान्ववायं भिक्षुं कपालिनमवाससमद्वितीयम् । पूर्वं करग्रहणमङ्गलतो भवत्याः शम्भुं क एव बुबुधे गिरिराजकन्ये ॥ ८॥ चर्माम्बरं च शवभस्मविलेपनं च भिक्षाटनं च नटनं च परेतभूमौ । वेतालसंहतिपरिग्रहता च शम्भोः शोभां बिभर्ति गिरिजे! तव साहचर्यात् ॥ ९॥ कल्पोपसंहरणकेलिषु पण्डितानि चण्डानि खण्डपरशोरपि ताण्डवानि । आलोकनेन तव कोमलितानि मात- र्लास्यात्मना परिणमन्ति जगद्विभूत्यै ॥ १०॥ जन्तोरपश्चिमतनोः सति कर्मसाम्ये निःशेषपाशपटलच्छिदुरा निमेषात् । कल्याणि दैशिककटाक्षसमाश्रयेण कारुण्यतो भवसि शाम्भववेददीक्षा ॥ ११॥ मुक्ताविभूषणवती नवविद्रुमाभा यच्चेतसि स्फुरसि तारकितेव सन्ध्या । एकः स एव भुवनत्रयसुन्दरीणां कन्दर्पतां व्रजति पञ्चशरी विनापि ॥ १२॥ ये भावयन्त्यमृतवाहिभिरंशुजालै- राप्यायमानभुवनाममृतेश्वरीं त्वाम् । ते लङ्घयन्ति ननु मातरऽलङ्घनीयां ब्रह्मादिभिः सुरवरैरपि कालकक्ष्याम् ॥ १३॥ यः स्फाटिकाक्षगुणपुस्तककुण्डिकाढ्यां व्याख्यासमुद्यतकरां शरदिन्दुशुभ्राम् । पद्मासनां च हृदये भवतीमुपास्ते मातः स विश्वकवितार्किकचक्रवर्ती ॥ १४॥ बर्हावतंसयुतबर्बरकेशपाशां गुञ्जावलीकृतघनस्तनहारशोभाम् । श्यामां प्रवालवदनां सुकुमारहस्ता त्वामेव नौमि शवरीं शवरस्य जायाम् ॥ १५॥ अधेन किं नवलताललितेन मुग्धे! क्रीतं विभोः परुषमर्धमिदं त्वयेति । आलीजनस्य परिहासवचांसि मन्ये मन्दस्मितेन तव देवि! जडी भवन्ति ॥ १६॥ ब्रह्माण्ड बुद्बुदकदम्बकसङ्कुलोऽयं मायोदधिर्विविधदुःखतरङ्गमालः । आश्चर्यमम्ब! झटिति प्रलयं प्रयाति त्वद्ध्यानसन्ततिमहावडवामुखाग्नौ ॥ १७॥ दाक्षायणीति कुटिलेति गुहारणीति कात्यायनीति कमलेति कलावतीति । एका सती भगवती परमार्थतोऽपि संदृश्यसे बहुविधा ननु नर्तकीव ॥ १८॥ आनन्दलक्षणमनाहतनाम्नि देशे नादात्मना परिणतं तव रूपमीशे । प्रत्यङ्मुखेन मनसा परिचीयमानं शंसन्ति नेत्रसलिलैः पुलकैश्च धन्याः ॥ १९॥ त्वं चन्द्रिका शशिनि तिग्मरुचौ रुचिस्त्वं त्वं चेतनासि पुरुषे पवने बलं त्वम् । त्वं स्वादुतासि सलिले शिखिनि त्वमूष्मा निःसारमेव निखिलं त्वदृते यदि स्यात् ॥ २०॥ ज्योतींषि यद्दिवि चरन्ति यदन्तरिक्षं सूतेपयांसि यदहिर्धरणीं च धत्ते । यद्वाति वायुरनलोयदुदर्चिरास्ते तत्सर्वमम्ब! तव केवलमाज्ञयैव ॥ २१॥ सङ्कोचमिच्छसि यदा गिरिजे! तदानीं वाक्तर्कयोस्त्वमसि भूमिरनामरूपा । यद्वा विकासमुपयासि यदा तदानीं त्वन्नामरूपगणनाः सुकरीभवन्ति ॥ २२॥ भोगाय देवि भवतीं कृतिनः प्रणम्य भ्रूकिङ्करीकृतसरोजगृहा सहस्राः । चिन्तामणिप्रचयकल्पितकेलिशैले कल्पद्रमोपवन एव चिरं रमन्ते ॥ २३॥ हन्तुं त्वमेव भवसि त्वदधीनमीशे संसारतापमखिलं दयया पशूनाम् । वैकर्तनीकिरणसंहतिरेव शक्ता धर्मं निजं शमयितुं निजयैव वृष्ट्या ॥ २४॥ शक्तिः शरीरमधिदैवतमन्तरात्मा ज्ञानं क्रिया करणमासनजालमिच्छा । ऐश्वर्यमायतनमावरणानि च त्वं किं तन्न यद्भवसि देवि शशाङ्कमौलेः ॥ २५॥ भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा विद्याऽनले मरुति शान्तिरतीतशान्तिः । व्योम्नीति याः किल कलाः कलयन्ति विश्वं तासां विदूरतरमम्ब !पदं त्वदीयम् ॥ २६॥ यावत्पदं पदसरोजयुगं त्वदीयं नाङ्गीकरोति हृदयेषु जगच्छरण्ये । तावद्विकल्प जटिलाः कुटिलप्रकारा- स्तर्कग्रहाः समयिनां प्रलयं न यान्ति ॥ २७॥ यद्देवयानपितृयानविहारमेके कृत्वा मनः करणमण्डलसार्वभौमम् । याने निवेश्य तव कारणपञ्चकस्य पर्वाणि पार्वति नयन्ति निजासनत्वम् ॥ २८॥ शूलासु मूर्तिषु महीप्रमुखासु मूर्तेः कस्याश्चनापि तव वैभवमम्ब यस्याः । पत्या गिरामपि न शक्यते एव वक्तुं सासि स्तुता किल मयेति तितिक्षितव्यम् ॥ २९॥ कालाग्निकोटिरुचिमम्ब षडध्वशुद्धौ- वाप्लावनेषु भवतीममृतौघवृष्टिम् । श्यामां घनस्तनतटां सकलीकृतौ च ध्यायन्त एव जगतां गुरवो भवन्ति ॥ ३०॥ विद्यां परां कतिचिदम्बरमम्ब केचि- दानन्दमेव कतिचित्कतिचिच्च मायाम् । त्वां विश्वमाहुरपरे वयमामनाम साक्षादपारकरुणां गुरुमूर्तिमेव ॥ ३१॥ कुवलयदलनीलम् बर्बरस्निग्धकेशं पृथुतरकुचभाराक्रान्तकान्तावलग्नम् । किमिह बहुभिरुक्तैस्त्वत्स्वरूपं परं नः सकलभुवनमातः सन्ततं सन्निधत्ताम् ॥ ३२॥ इति श्रीधर्माचार्यकृतौ श्री पञ्चस्तव्यां अम्बास्तवः चतुर्थः समाप्तः । ४

अथ सकलजननीस्तवः पञ्चमः ।

ॐ अजानन्तो यान्ति क्षयमवशमन्योन्यकलहै- रमी मायाग्रन्थौ तव परिलुठन्तः समयिनः । जगन्मातर्जन्मज्वरभयतमः कौमुदि! वयं नमस्ते कुर्वाणाः शरणमुपयामो भगवतीम् ॥ १॥ वचस्तर्कागम्यस्वरसपरमानन्दविभव- प्रबोधाकाराय द्युतितुलितनीलोत्पलरुचे । शिवस्याराध्याय स्तनभरविनम्राय सततं नमो यस्मै कस्मैचन भवतु मुग्धाय महसे ॥ २॥ लुठद्गुञ्जाहारस्तनभरनमन्मध्यलतिका- मुदञ्चद्धर्माम्भः कणगुणितनीलोत्पलरुचम् । शिवं पार्थत्राणप्रवणमृगयाकारगुणितं शिवामन्वग्यान्तीं शवरमहमन्वेमि शवरीम् ॥ ३॥ मिथः केशाकेशिप्रधननिधनास्तर्कघटना बहुश्रद्धाभक्तिप्रणयविषयाश्चाप्तविधयः । प्रसीद प्रत्यक्षीभव गिरिसुते! देहि शरणं निरालम्बं चेतः परिलुठति पारिप्लवमिदम् ॥ ४॥ शुनां वा वह्नेर्वा खगपरिषदो वा यदशनं कदा केन क्वेति क्वचिदपि न कश्चित्कलयति । अमुष्मिन्विश्वासं विजहिहिममाह्नाय वपुषि प्रपद्येथाश्चेतः सकलजननीमेव शरणम् ॥ ५॥ अनाद्यन्ताभेदप्रणयरसिकापि प्रणयिनी शिवस्यासीर्यत्त्वं परिणयविधौ देवि! गृहिणी । सवित्री भूतानामपि यदुदभूः शैलतनया नदेतत्संसारप्रणयनमहानाटकसुखम् ॥ ६॥ ब्रुवन्त्येके तत्त्वं भगवति सदन्ये विदुरस- त्परे मातः! प्राहुस्तव सदसदन्ये सुकवयः । परे नैतत्सर्वं समभिदधते देवि! सुधिय- स्तदेतत्त्वन्मायाविलसितमशेषं ननु शिवे! ॥ ७॥ तडित्कोटिज्योतिर्द्युतिदलितषड्ग्रन्थिगहनं प्रविष्टं स्वाधारं पुनरपि सुधावृष्टिवपुषा । किमप्यष्टात्रिंशत्किरणसकलीभूतमनिशं भजे धाम श्यामं कुचभरनतं बर्बरकचम् ॥ ८॥ चतुष्पत्रान्तः षड्दलभगपुटान्तस्त्रिवलय- स्फुरद्विद्युद्वह्निद्युमणिनियुताभद्युतियुते । षडश्रं भित्त्वादौ दशदलमथ द्वादशदलं कलाश्रं च द्व्यश्रं गतवति! नमस्ते गिरिसुते! ॥ ९॥ कुलं केचित्प्राहुर्वपुरकुलमन्ये तव बुधाः परे तत्सम्भेदं समभिदधते कौलमपरे । चतुर्णामप्येषामुपरि किमपि प्राहुरपरे महामाये! तत्त्वं तव कुथुममी निश्चिनुमहे ॥ १०॥ षडध्वारण्यानीं प्रलयरविकोटिप्रतिरुचा रुचा भस्मीकृत्य स्वपदकमलप्रह्वशिरसाम् । वितन्वानः शैवं किमपि वपुरिन्दीवररुचिः कुचाभ्यामानम्रः शिवपुरुषकारो विजयते ॥ ११॥ प्रकाशानन्दाभ्यामविदितचरीं मध्यपदवीं प्रविश्यैतद्द्वन्द्वं रविशशिसमाख्यं कवलयन् । प्रविश्योर्ध्वं नादं लयदहनभस्मीकृतकुलः प्रसादात्ते जन्तुः शिवमकुलमम्ब! प्रविशति ॥ १२॥ प्रियङ्गुश्यामाङ्गीमरुणतरवासः किसलयां समुन्मीलन्मुक्ताफलबहुलनेपथ्यकुसुमाम् । स्तनद्वन्द्वस्फारस्तबकनमितां कल्पलतिकां सकृद्ध्यायन्तस्त्वां दधति शिवचिन्तामणि पदम् ॥ १३॥ षडाधारावर्तैरपरिमितमन्त्रोर्मिपटलै- श्चलन्मुद्राफेनैर्बहुविधलसद्दैवत झषैः । क्रमस्रोतोभिस्त्वं वहसि परनादामृतनदी भवानि! प्रत्यग्रा शिवचिदमृताब्धिप्रणयिनी ॥ १४॥ महीपाथोवह्निश्वसनवियदात्मेन्दुरविभि- र्वपुर्भिग्रस्तांशैरपि तव कियानम्ब! महिमा । अमून्यालोक्यन्ते भगवति! नकुत्राप्यणुतरा- मवस्थां प्राप्तानि त्वयि तु परमव्योमवपुषि ॥ १५॥ मनुष्यास्तिर्यञ्चो मरुत इति लोकत्रयमिदं भवाम्भोधौमग्नं त्रिगुणलहरीकोटिलुठितम् । कटाक्षश्चेदत्रक्वचन तव मातः! करुणया शरीरी सद्योऽयं व्रजति परमानन्दतनुताम् ॥ १६॥ कलां प्रज्ञामाद्यां समयमनुभूतिं समरसां गुरुं पारम्पर्यं विनयमुपदेशं शिवकथाम् । प्रमाणं निर्वाणं परममतिभूतिं परगुहां विधिं विद्यामाहुः सकलजननीमेव मुनयः ॥ १७॥ प्रलीने शब्दौघे तदनु विरते बिन्दुविभवे ततस्तत्त्वे चाष्टध्वनिभिरनुपाधिन्युपरते । श्रिते शाक्ते पर्वण्यनुकलितचिन्मात्र गहनां स्वसंवित्तिं योगी रसयति शिवाख्यां परतनुम् ॥ १८॥ परानन्दाकारां निरवधिशिवैश्वर्य वपुषं निराकारज्ञान प्रकृतिमनवच्छिन्नकरुणाम् । सवित्रीं भूतानां निरतिशयधामास्पदपदां भवो वा मोक्षो वा भवतु भवतीमेव भजताम् ॥ १९॥ जगत्काये कृत्वा तमपि हृदये तच्च पुरुषे पुमांसं बिन्दुस्थं तमपि परनादाख्यगहने । तदेतज्ज्ञानाख्ये तदपि परमानन्दविभवे महाव्योमाकारे! त्वदनुभवशीलो विजयते ॥ २०॥ विधे विद्ये वेद्ये विविधसमये वेदजननि! विचित्रे विश्वाद्ये विनयसुलभे वेदगुलिके । शिवाज्ञे शीलस्थे शिवपदवदान्ये शिवनिधे शिवे मातर्मह्यं त्वयि वितरभक्तिं निरुपमाम् ॥ २१॥ विधेर्मुण्डं हृत्वा यदकुरुत पात्रं करतले हरिं शूलप्रोतं यदऽगमयदंसाभरणताम् । अलञ्चक्रे कण्ठं यदपि गरलेनाम्ब ! गिरिशः शिवस्थायाः शक्तेस्तदिदमखिलं ते विलसितम् ॥ २२॥ विरिञ्च्याख्या मातः! सृजसि हरिसंज्ञा त्वमवसि त्रिलोकीं रुद्राख्या हरसि विदधासीश्वरदशाम् । भवन्ती सादाख्या शिवयसि च पाशौघदलिनी त्वमेवैकाऽनेका भवसि कृतिभेदैर्गिरिसुते! ॥ २३॥ मुनीनां चेतोभिः प्रमृदितकषायैरपि मना- गऽशक्ये संस्प्रष्टुं चकितचकितैरम्ब! सततम् । श्रुतीनां मूर्धानः प्रकृतिकठिनाः कोमलतरे कथं ते विन्दन्ते पदकिसलये पार्वति! पदम् ॥ २४॥ तडिद्वल्लीं नित्याममृत सरितं पाररहितां मलोत्तीर्णां ज्योत्स्नां प्रकृतिमगुणग्रन्थिगहनाम् । गिरां दूरां विद्यामविनतकुचां विश्वजननी- मपर्यन्तां लक्ष्मीमभिदधति सन्तो भगवतीम् ॥ २५॥ शरीरं क्षित्यम्भः प्रभृतिरचितं केवलमिदं सुखं दुःखं चायं कलयति पुमांश्चेतन इति । स्फुटं जानानोऽपि प्रभवति न देही रहयितुं शरीराहङ्कारं तव समयबाह्यो गिरिसुते! ॥ २६॥ पिता माता भ्राता सुहृदऽनुचरः सद्म गृहिणी वपुः पुत्रो मित्रं धनमपि यदा मां विजहति । तदा मे भिन्दाना सपदि भयमोहान्धतमसं महाज्योत्स्ने मातर्भव करुणया सन्निधिकरी ॥ २७॥ सुता दक्षस्यादौ किल सकलमातस्त्वमुदभूः सदोषं तं हित्वा तदनु गिरिराजस्य तनया । अनाद्यन्ता शम्भोरपृथगपि शक्तिर्भगवती विवाहाज्जायासीत्यहह चरितं वेत्ति तव कः ॥ २८॥ कणास्त्वद्दीप्तीनां रविशशिकृशानुप्रभृतयः परं ब्रह्म क्षुद्रं तव नियतमान्दकणिका । शीवादिक्षित्यन्तं त्रिवलयतनोः सर्वमुदरे तवास्ते भक्तस्य स्फुरसि हृदि चित्रं भगवति ॥ २९॥ त्वया यो जानीते रचयति भवत्यैव सततं त्वयैवेच्छत्यम्ब! त्वमसि निखिला यस्य तनवः । गतः साम्यं शम्भुर्वहति परमं व्योम भवती तथाप्येवं हित्वा विहरति शिवस्येति किमिदम् ॥ ३०॥ पुरः पश्चादन्तर्बहिरपरिमेयं परिमितं परं स्थूलं सूक्ष्मं सकुलमकुलं गुह्यमगुहम् । दवीयो नेदीयः सदसदिति विश्वं भगवतीं सदा पश्यन्त्याज्ञां वहसि भुवनक्षोभ जननीम् ॥ ३१॥ मयूखाः पूष्णीव ज्वलन इव तद्दीप्तिकणिकाः पयोधौ कल्लोलप्रतिहतमहिम्नीव पृषतः । उदेत्योदेत्याम्ब त्वयि सह निजैस्तात्त्विककुलै- र्भजन्ते तत्त्वौघाः प्रशममनुकल्पं परवशाः ॥ ३२॥ विधुर्विष्णुर्ब्रह्माप्रकृतिरणुरात्मादिनकरः स्वभावो जैनेन्द्रः सुगतमुनिराकाशमनिलः । शिवः शक्तिश्चेति श्रुतिविषयतां तामुपगतां विकल्पैरेभिस्त्वामऽभिदधति सन्तो भगवतीम् ॥ ३३॥ प्रविश्य स्वं मार्गं सहजदयया दैशिकदृशा षडध्वध्वान्तौघच्छिदुरगणनातीतकरुणाम् । परानन्दाकारां सपदि शिवयन्तीमपि तनुं स्वमात्मानं धन्याश्चिरमुपलभन्ते भगवतीम् ॥ ३४॥ शिवस्त्वं शाक्तस्त्वं त्वमसि समया त्वं समयिनी त्वमात्मा त्वं दीक्षा त्वमयमणिमादिर्गुणगणः । अविद्या त्वं विद्या त्वमसि निखिलं त्वं किमपरं पृथक्तत्त्वं त्वत्तो भगवति! न वीक्षामह इमे ॥ ३५॥ असंख्यैः प्राचीनैर्जननि जननैःकर्मविलया- द्गते जन्मन्यन्तं गुरुवपुषमासाद्य गिरिशम् । अवाप्याज्ञां शैवीं क्रमतनुरपि त्वां विदितवा- न्नयेयं त्वत्पूजास्तुतिविरचनेनैव दिवसान् ॥ ३६॥ यत्षट्पत्रं कमलमुदितं तस्य या कर्णिकाख्या योनिस्तस्याः प्रथितमुदरे यत्तदोङ्कारपीठम् । तस्मिन्नऽन्तः कुचभरनतां कुण्डलीतः प्रवृत्तां श्यामाकारां सकलजननीं सन्ततं भावयामि ॥ ३७॥ भुवि पयसि कृशानौ मारुते खे शशाङ्के सवितरि यजमानेऽप्यष्टधा शक्तिरेका । वहति कुचभराभ्यां या विनम्रापि विश्वं सकलजननि! सात्वं पाहि मामित्यवश्यम् ॥ ३८॥ इति श्रीधर्माचार्यकृतौ श्री पञ्चस्तव्यां सकलजननीस्तवः पञ्चमः समाप्तः । ५ इति पञ्चस्तवी समाप्ता ।
% Text title            : Panchastavi (laghu, charchA, ghaTa, ambA, sakalajananI)
% File name             : panchastavI.itx
% itxtitle              : panchastavI (laghu, charchA, ghaTa, ambA, sakalajananI)
% engtitle              : panchastavI (laghu, charchA, ghaTa, ambA, sakalajananI)
% Category              : devii, devI, dashamahAvidyA, panchaka, sangraha
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Indexextra            : Texts 1, 2*, 3, 4, 5*, 6)
% Latest update         : October 11, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org