श्रीपरब्रह्मशक्ति अथवा परशक्तिसहस्रनामस्तोत्रम्
आनन्दभैरव्युवाच -
भगवन् सर्वतत्वज्ञ सर्वसिद्धेश्वरेश्वर ।
रहस्यं परमानन्दं ब्रूहि मे करुणानिधे ॥ १॥
यन्नामकीर्तनान्मर्त्यो जीवन्मुक्तो भवेत्क्षणात् ।
परं ब्रह्म विजानीयात् तन्मे कथय सुव्रत ॥ २॥
आनन्दभैरव उवाच -
शृणु देवि प्रक्ष्यामि परं तत्त्वमनुत्तमम् ।
रहस्यानां रहस्यं च सर्वमन्त्रौघमूर्धजम् ॥ ३॥
परब्रह्मचैतन्यसहस्रनामसंज्ञितम् ।
दिव्यं गुह्यातिगुह्यं च देवैरपि सुदुर्लभम् ॥ ४॥
अस्य श्रीपरब्रह्मचैतन्यसहस्रनामस्तोत्रमन्त्रस्य
आदिपुरुषप्रकृतिरमृतं ऋषिः, गायत्र्यनुष्टुप्छन्दः,
सर्वव्यापी परब्रह्मशक्तिर्देवता, प्रणवः बीजम्, लज्जाबीजं शक्तिः,
वाग्भवबीजं कीलकम्, कूर्चबीजं अस्त्रम्, सोऽहमिति कवचम्,
आत्मज्ञानप्रयोजनसिद्धये विनियोगः ॥
प्रणवं समुपोच्चार्य लज्जाबीजं ततः परम् ।
एषा परब्रह्मकुलूका सर्वतन्त्रेषु गोपिता ॥ ५॥
तारं लज्जाद्वयं पश्चात् तारमुच्चारयेत् पुनः ।
मुखशोधनमेतत् स्यात् परं ब्रह्मप्रकाशकम् ॥ ६॥
आदौ प्रणवमुच्चार्य सेतुरुक्तो मनीषिभिः ।
महासेतुस्तथैवोक्तो वर्णभेदेन गोपितः ॥ ७॥
विप्राणां प्रणवः सेतुः क्षत्रियाणां तथा श्रुतिः ।
बीजं मायामयमुद्दिष्टं वैश्यानां कीर्तितं पुरा ॥ ८॥
शूद्राणां वाग्भवं बीजं महासेतुरयं स्मृतः ।
एवं न्यासं पुरा कृत्वा स्तोत्रराजं पठेन्नरः ॥ ९॥
अङ्गुष्ठयोर्न्यसेत् तारं तर्जन्योर्ग्राह्यमायया ।
मध्यमयोश्च वाग्बीजं कूर्चबीजं त्वनामिकोः ॥ १०॥
कनिष्ठयोर्न्यसेदस्त्रं करतलकरपृष्ठयोः ।
एवमेव हृदाद्यङ्गेष्वङ्गन्यासं समाचरेत् ॥ ११॥
ततः परं महादेवि व्यापकन्यासमाचरेत् ।
ॐ सच्चिदेकं ब्रह्मेति मन्त्रेण चतुरक्षरात् ॥ १२॥
सृष्टिस्थितिलयाकारं त्रिधा न्यासं पृथक् पृथक् ।
मूर्ध्नि वक्त्रे च हृदये नाभौ गुह्ये च पादयोः ॥ १३॥
सृष्टिन्यासं प्रकुर्वीत ब्रह्मबुद्ध्या समाहितः ।
पादादिमूर्धपर्यन्तं स्थितिन्यासं समाचरेत् ॥ १४॥
मूर्ध्नादिपादपर्यन्तं संहारन्यासमुत्तमम् ।
कुर्यात् समाहितमनाः परब्रह्ममयो भवेत् ॥ १५॥
ध्यानं -
कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् ।
अवाङ्मनसगोचरं शक्तिव्याप्तं जगन्मयम् ॥ १६॥
सच्चिदानन्दरूपं च निर्गुणं सगुणं परम् ।
ध्यात्वा परब्रह्मशक्तिं आत्मज्ञानं विन्दति क्षणात् ॥ १७॥
अथ सहरनामस्तोत्रम् ।
ॐ चित्पुञ्जपिण्डिताखण्डतेजोराशिर्जगत्प्रसूः ।
व्योमातीतपदान्तस्था शून्याशून्यविलक्षणा ॥ १८॥
निर्विकल्पमहादीप्तिर्निराकारसमुज्ज्वला ।
भावशून्या प्रपञ्चार्ता सत्त्वमात्रावभासिनी ॥ १९॥
अदृश्यदृग्रूपधरा गम्भीरागाधवैभवा ।
निस्तरङ्गचिदाभासा निष्प्रपञ्चपरामृता ॥ २०॥
अवाच्यमहिमोपेता केवलज्ञानमूर्तिमती ।
मूर्तामूर्तपरित्यागा महासंविन्मयीश्वरी ॥ २१॥
अनाख्येयात्मसंस्थाना कूटस्थाचलमङ्गला ।
नीलजीमूतसङ्काशव्यालवद्रम्यकुन्तला ॥ २२॥
प्रफुल्लमीननेत्रान्ता सुवक्त्रा चारुनासिका ।
सहस्रबाहुविभवा मन्त्रसिद्धचतुर्भुजा ॥ २३॥
रागद्वेषलसत्पाशा क्रोधान्कुशविमर्दिनी ।
मनोभवेक्षुकोदण्डा तन्मात्रकुसुमायुधा ॥ २४॥
अरुणारुणसङ्काशा बालसूर्यसमप्रभा ।
सूर्याचन्द्रमसोद्भासिमुकुटोन्नतशेखरा ॥ २५॥
नखदीप्तिविनिर्धूतकोटिब्रह्माण्डमण्डला ।
नखरोमप्रसूताद्यानेककल्पसुरासुरा ॥ २६॥
कोटीशवन्द्यचरणा दुर्गमागमपादुका ।
कल्पमन्वन्तरातीता महाकालविहारिणी ॥ २७॥
अनौपम्यस्वरूपा च समाधिकरहिता सती ।
सर्वमयी जगत्पूज्या लेपशून्या चिदम्बरा ॥ २८॥
अजन्मा जन्मरहिता पुनरावृत्तिवर्जिता ।
निमेषोन्मेषनिग्धूतकोटिकालातिगाविनी ॥ २९॥
महोदयी महापुण्या महासत्त्वा महोज्ज्वला ।
गुह्यातिगुह्यगोप्त्री च सर्वतत्त्वमयी परा ॥ ३०॥
अनादिनिधना स्वस्था परब्रह्मात्मिकाद्युतिः ।
प्रपञ्चशमनोद्युक्ता महाभैरववल्लभा ॥ ३१॥
निष्कला निस्तुलानन्ता विशुद्धज्ञानविग्रहा ।
घोरसंसारवारिधिसन्तारणमहातरी ॥ ३२॥
चिच्छक्तिश्चित्स्वरूपा च परमानन्ददायिनी ।
चिद्घना च चिदाकारा चिदुल्लासा चिदञ्चिता ॥ ३३॥
अमूर्ता मूर्तिकाव्याप्ता सर्वसङ्कल्पवर्जिता ।
महामन्त्रमयी माता महातन्त्रप्रकाशिनी ॥ ३४॥
व्योमविस्फोटसञ्जातनादब्रह्ममयी परा ।
प्रणवोद्गारहृदया महाबिन्दुसमुज्ज्वला ॥ ३५॥
अकारप्रथमाभासा सर्ववर्णशिरोमणिः ।
शब्दब्रह्मात्मिका देवी शब्दमालाविभूषिता ॥ ३६॥
नादपुञ्जपरिष्वङ्गा बिन्दुनादकलान्तगा ।
षट्त्रिंशत्तत्त्वसन्दोहा तत्त्वातीता चिदाश्रया ॥ ३७॥
शिवशक्तिद्वयीरूभा सदाशिवपदोन्मुखी ।
ईश्वरत्वविधात्री च शुद्धविद्यामयीश्वरी ॥ ३८॥
मायामयतरोर्बीजं कलाकालविभेदिनी ।
नियत्यर्गलसंरुद्धा विद्याविद्याप्रकाशिनी ॥ ३९॥
रागरागिणिचित्संस्था पुरुषत्वविधायिनी ।
प्रकृतिप्रसवाभिख्या गुणत्रयविभाविनी ॥ ४०॥
महत्तत्त्वमहादीप्तिरहङ्कारविकारिणी ।
मनोबुद्धीन्द्रियप्राणा पञ्चतन्मात्रमूर्तिमती ॥ ४१॥
स्थूलभूतपरिच्छिन्ना विप्रविस्फोटकारिणी ।
ब्रह्ममयी ब्रह्मरूपा परब्रह्मप्रकाशिनी ॥ ४२॥
भगवती भगाढ्या च भगरूपप्रपञ्चिनी ।
भगवानिति शब्दार्या भगासनसुसंस्थिता ॥ ४३॥
परमात्मा परं ज्योतिः परमात्माक्षरप्रसूः ।
ईश्वरी चेश्वराख्याता सर्वेश्वरहृदाश्रया ॥ ४४॥
कूटस्था स्वप्रकाशा च सर्वव्यापिपरान्विता ।
जगद्वीजबीजभूता बीजशून्या सनातनी ॥ ४५॥
महामाया महाविद्येत्युच्चार्या वाच्यवर्जिता ।
चित्प्रकाशा चिदाल्हादा सच्चिदानन्दविग्रहा ॥ ४६॥
नादरूपरसस्पर्शगन्धशब्दातिशायिनी ।
महाकारणरूपा च कार्यकारणवर्जिता ॥ ४७॥
सर्वशून्या सर्वपूर्णा सर्वसत्त्वसमाश्रया ।
विश्वोत्पत्तिलयोन्मेषा विश्वपालनतत्परा ॥ ४८॥
कालरात्रिकलातीता महाकालकलामयी ।
अक्षराक्षरसम्बन्धा क्षराक्षरविलक्षणा ॥ ४९॥
सर्वज्ञा सर्वकर्त्री च सर्वशक्तिसमन्विता ।
अनिर्वाच्यापरानन्दा सच्चिदेकरसात्मिका ॥ ५०॥
इच्छाज्ञानक्रियाशक्तित्रिवेणीसङ्गमोज्ज्वला ।
चित्प्रभा चित्कला चिन्मयी संविदुन्मेषतारिणी ॥ ५१॥
सन्धिन्याधारसम्पूता ह्लादिनीह्लादवर्धिनी ।
आह्लादिनी महाह्लादा ह्लादनानन्ददायिनी ॥ ५२॥
ऋक्प्रपञ्चजटाजूटा यजुःसामविभाविनी ।
अथर्वाङ्गिरसाम्भोधिः षडङ्गश्रुतिभूषिता ॥ ५३॥
उपवेदकलाधारा पुराणप्रसवोन्मुखी ।
इतिहासमहाकाया मीमांसाद्वयलोचना ॥ ५४॥
षड्दर्शनमहाहंसा न्यायवैशेषिकारणिः ।
आगमेन्द्रमहामञ्चा तन्त्रमन्त्रैकसेतुका ॥ ५५॥
मन्त्रबीजप्रकाशा च यन्त्रराजप्रतिष्ठिता ।
नवधाभक्तिगम्भीरा प्रेमपीयूषवाहिनी ॥ ५६॥
वैष्णवी विष्णुरुपस्था शाक्ता शाक्तजनप्रिया ।
शैवी शिवपदाराध्या गाणपत्यमहोदया ॥ ५७॥
सौरलोकमहादीप्तिः कौमारी गुहमानसा ।
ऐन्द्री मरुद्वृता स्मार्ता कौलिकाचारवर्धिनी ॥ ५८॥
जैनसत्त्वमयी शुद्धा बोधिसत्त्वैकविग्रहा ।
सारस्वतप्रवाहा च वैदिकाचारमङ्गला ॥ ५९॥
वामाचाररहस्यस्था दक्षिणाचारदीपिका ।
समयाचारसन्तुष्टा समयान्तर्विहारिणी ॥ ६०॥
मिश्राचारमहावेगा म्लेच्छाचारविमर्दिनी ।
सर्वतन्त्रमयी स्वच्छा सर्वमन्त्रमयी परा ॥ ६१॥
प्रकृतिप्रलयानन्दा महापुङ्खानुपुङ्खिका ।
नामशतमहोल्लासा ब्रह्मचैतन्यवाहिनी ॥ ६२॥
चातुर्वर्ण्यमयी चक्री वर्णाश्रमविभाविनी ।
ब्रह्मचर्यव्रताधारा गृहमेधिप्रियावहा ॥ ६३॥
वानप्रस्थाश्रमावासा सन्न्यासोल्लासविग्रहा ।
स्त्रीरूपा पुंस्वरूपा च नपुंसकपदस्थिता ॥ ६४॥
अप्सरोगणसङ्गीता यक्षयक्षिणिसेविता ।
ब्रह्मराक्षससंहर्त्री ब्रह्मपिशामविमर्दिनी ॥ ६५॥
भूतवेतालकौतुका कूष्माण्डगणमातृका ।
शाकिनीडाकिनीलोला हाकिनीचक्रवर्तिनी ॥ ६६॥
काकिनीलाकिनीमूर्ती राकिनीयाकिनीमयी ।
मूलाधाराब्जमध्यस्था स्वाधिष्ठानविहारिणी ॥ ६७॥
मणिपूरप्रकाशा च अनाहतध्वनिमयी ।
विशुद्धिचक्रनिलया आज्ञापद्मनिवासिनी ॥ ६८॥
सहस्रारमहारम्भा षट्चक्रभेदभेदिनी ।
दशनाख्योत्थविष्णुश्रीर्दशविद्यामहोदया ॥ ६९॥
मन्दस्मितविनिर्मातकोटिकोटीशमण्डला ।
गात्रकम्पमहाकम्पविस्फूर्जज्जगदण्डका ॥ ७०॥
रुदितोत्पादितन्यक्प्रलयाकालप्रभञ्जनी ।
नित्यनैमित्तिकात्यन्तप्रलयार्णवतारिणी ॥ ७१॥
महासंहारझञ्झा च महाकल्पावसानिका ।
षोडशसंस्कृताकारा गर्भाधानशुभोदया ॥ ७२॥
पुंसवनस्वरूपस्था सीमन्तोन्नयनप्रिया ।
जातकर्ममयी दीप्तिर्नामकरणभूषिता ॥ ७३॥
निष्क्रमणमहोत्साहा अन्नप्राशनहर्षिणी ।
चूडाकर्ममयी देवी कर्णवेधविधायिनी ॥ ७४॥
उपनयनवेदाढ्या समावर्तनमङ्गला ।
विवाहव्रतसम्पूर्णा अन्त्येष्टिसंस्कृताक्षरा ॥ ७५॥
दीक्षामयी दीक्षयित्री गुरुमन्त्रप्रकाशिनी ।
गुरुस्वरूपा गुरुगा गुरुगम्या गुहाश्रया ॥ ७६॥
यज्ञरूपा यज्ञभोक्त्री यजमानस्वरूपिणी ।
यज्ञकर्त्री यज्ञसिद्धा महायज्ञफलप्रदा ॥ ७७॥
मदनमोहनमोहार्द्रा महामन्मथमोहिनी ।
राधाप्रिया राधिका च षडक्षरी रसात्मिका ॥ ७८॥
परमाणुप्रमाणस्था ब्रह्माण्डपरमावधिः ।
मन्दस्मितविनिर्जीवशिवजीवनदायिनी ॥ ७९॥
स्वतन्त्रा च स्वतन्त्रोत्था स्वच्छन्दामितशक्तिका ।
सृष्टिकर्त्री सृष्टिरूपा सृष्टिपालनतत्परा ॥ ८०॥
संहर्त्री संहृतिमुखा तिरोधानविधायिनी ।
अनुग्रहप्रदा नित्या पञ्चकृत्यधुरन्धरा ॥ ८१॥
प्रत्यायकलनायज्ञरावणान्वयनाशिनी ।
दाक्षायणी दक्षयज्ञविनाशातिभयङ्करी ॥ ८२॥
आत्मविद्या ब्रह्मविद्या महाविद्या महेश्वरी ।
षोडशाक्षरमन्त्राढ्या पञ्चदश्यक्षरावलिः ॥ ८३॥
श्रीविद्या श्रीमयी श्रीदा श्रीमती त्रिपुरसुन्दरी ।
गङ्गा यमुनावर्ताना नर्मदा गण्डकी नदी ॥ ८४॥
सरस्वती सिन्धुकन्या गोदावरी तरङ्गिणी ।
कावेरी सरयू कृष्णा चन्द्रभागा महानदी ॥ ८५॥
सर्वतीर्थमयी शुद्धा तीर्थराजप्रतिष्ठिता ।
महाजलौघगम्भीरा जगत्पावनपावनी ॥ ८६॥
निष्कम्पदीपरूपा च महाभैरवसाक्षिणी ।
स्वप्रकाशचिदानन्दा परब्रह्मावभासिनी ॥ ८७॥
अष्टाङ्गयोगनिरता यमनियममूर्तिमती ।
आसनप्राणसंरोधा प्रत्याहारप्रकाशिनी ॥ ८८॥
धारणाध्यानमग्ना च समाधिसमविग्रहा ।
क्रियायोगमयी क्षेम्या हठयोगविशारदा ॥ ८९॥
राजयोगमहापीठा लययोगतरङ्गिणी ।
ज्ञानयोगप्रकाशा च भक्तियोगमहोदया ॥ ९०॥
कर्मयोगपथाधारा सर्वयोगेश्वरेश्वर ।
कुण्डलीयोगसन्दोहा नादयोगसुखप्रदा ॥ ९१॥
वामभागलसद्रूपा प्रकृतिः प्रकृतेः परा ।
दक्षिणभागसम्पूता पुरुषः पुरुषोत्तमा ॥ ९२॥
स्वयमेव परं ब्रह्म सच्चिदानन्दलक्षणम् ।
माता पिता च भ्राता च भगिनी बन्धुरूपिणी ॥ ९३॥
वधूः पुत्रश्च पुत्री च पौत्रपौत्रीकुलाकुला ।
वंशकृद् वंशरूपा च वंशनाशननाशिनी ॥ ९४॥
सुमुखी च समुखी च त्रिपाद्गायत्रीरूपिणी ।
मातङ्गी राज्यश्यामाला सर्वमन्त्रवशङ्करी ॥ ९५॥
विष्णुरूपा विष्णुशक्तिर्मधुसूदनमर्दिनी ।
सर्ववेदान्ततात्पर्या सर्वदर्शनगोचरा ॥ ९६॥
शब्दार्थग्रन्थसन्दोहा कविकल्पलता शुभा ।
अभेदा भेदरूपा च भेदाभेदविलक्षणा ॥ ९७॥
परानन्दामृतोत्सेका चिद्विलासतरङ्गिणी ।
परब्रह्मचैतन्यदीप्तिः सर्वमङ्गलमङ्गला ॥ ९८॥
कुब्जिका कुब्जरूपा च कुलूका कुलनायिका ।
कुरुकुल्ला कराला च करालवदना शुभा ॥ ९९॥
कालिका कालकान्ता च कालकूटविमर्दिनी ।
कदम्बवनवासस्था कदम्बकुसुमोत्सुका ॥ १००॥
कदम्बमालालङ्कारा कादम्बरीमदालसा ।
परब्रह्मसूत्रधरा परब्रह्ममयी सती ॥ १०१॥
परब्रह्ममहाबिन्दुसिन्दूरतिलकोज्ज्वला ।
स्वकीयभर्तृरूपा च स्वयं वै पतिरूपिणी ॥ १०२॥
स्वपत्न्यभेदसंसिद्धा स्वशक्त्यैकात्मविग्रहा ।
महात्रिपुरसुन्दर्या महासाम्राज्यशालिनी ॥ १०३॥
चतुःषष्टिकलामयी कलातीता कलानिधिः ।
सिंहासनसमारूढा राजराजेश्वरी परा ॥ १०४॥
बिन्दुचक्रकृतावासा नवचक्रक्रमोन्मुखी ।
त्रैलोक्यमोहनचक्रप्रकटिताक्षरमालिका ॥ १०५॥
सर्वाशापरिपूरस्था सर्वसङ्क्षोभिणी तथा ।
सर्वसौभाग्यदायित्री सर्वार्थसाधिकोज्ज्वला ॥ १०६॥
सर्वरक्षाकराकारा सर्वरोगहराक्षरा ।
सर्वसिद्धिप्रदा देवी सर्वाह्लादमयी परा ॥ १०७॥
महाकुण्डलिनीशक्तिः परमानन्दलहरी ।
सुधामयप्रवाहा च चन्द्रमण्डलवर्तिनी ॥ १००॥
महामयूखकलिता महातेजोमयीश्वरी ।
सर्ववेदान्तनिलया सर्वसङ्कल्पवर्जिता ॥ १०९॥
अचिन्त्यदिव्यमहिमा वाङ्मनसातिगाविनी ।
नित्यशुद्धा बुद्धरूपा परब्रह्मप्रकाशिनी ॥ ११०॥
चिदाकाशमहागर्भा महाशून्यविहारिणी ।
अनन्तकोटिब्रह्माण्डभाण्डस्पन्दनकारिणी ॥ १११॥
महाकल्पाग्निसन्दोहा महाप्रलयनर्तिकी ।
महाकालग्रसत्प्राणा सर्वग्रासमहोत्सवा ॥ ११२॥
विनाशतुलनारहिता सर्वोत्पत्तिविवर्जिता ।
निराधारप्रतिष्ठा च स्वप्रतिष्ठा परात्परा ॥ ११३॥
अतीतानागतज्ञाना वर्तमानप्रकाशिनी ।
त्रिकालज्वालामुकुटा त्रिकालभुवनेश्वरी ॥ ११४॥
अदेशकालपरिच्छिन्ना सर्वदेशमयी सती ।
अमूर्ता मूर्तसङ्घाता व्यक्ताव्यक्तस्वरूपिणी ॥ ११५॥
अनाद्यन्तचिदाभासा मध्यशून्या महोदया ।
महारहस्यमन्त्राढ्या गूढगुह्यतमप्रभा ॥ ११६॥
निरञ्जना निर्गुणा च निष्कला निरुपद्रवा ।
निर्विकारा निराकारा निर्विकल्पा निरामया ॥ ११७॥
अमेयमहिमा देवी प्रमाणज्ञानवर्जिता ।
प्रमातृरूपा प्रमेया प्रमितिप्रसवोन्मुखी ॥ ११८॥
महामहोपाध्यायप्रिया वेदवेदाङ्गपारगा ।
शास्त्रार्थजल्पजल्पस्था वादजल्पविमर्दिनी ॥ ११९॥
सिद्धसेव्या सिद्धमयी सिद्धसङ्घप्रमोदिनी ।
महासिद्धेश्वरप्राणा सिद्धिविज्ञानदायिनी ॥ १२०॥
स्वयम्भूः स्वप्रकाशस्था स्वकीयानन्दवाहिनी ।
परब्रह्मरसाम्भोधिः परब्रह्ममयोत्तमा ॥ १२१॥
अकाररूपा प्रथमा आद्यशक्तिरनाकुला ।
इकारमन्मथकला ईश्वरीपदमङ्गला ॥ १२२॥
उकारवीर्यविभवा ऊरुवेगविहारिणी ।
ऋकारमन्त्रमूर्ता च ॠकारवर्णमातृका ॥ १२३॥
ऌकारतन्त्रसंसिद्धा ॡकारभैरवी परा ।
एकारैकारपीठस्था ओकारौकाररूपिणी ॥ १२४॥
अङ्कारबिन्दुमध्यस्था अःकारपरमक्षरा ।
कादिहादिमहान्तस्था कादिमन्त्रार्थभाविनी ॥ १२५॥
अकारादिक्षकारान्तसर्ववर्णस्वरूपिणी ।
वर्णमालामहाभूषा नादपुञ्जविलासिनी ॥ १२६॥
आकाशमातृका मुख्या आनन्दामृतवाहिनी ।
इच्छाशक्तिप्रकाशा च ईहाशून्यपदे स्थिता ॥ १२७॥
उत्पत्तिस्थितिसंहारमूलभूता उमा सती ।
ऊर्ध्वरेतोमहादीप्तिरूर्ध्वचक्रविभेदिनी ॥ १२८॥
ऋषिवन्द्या ऋजुप्रज्ञा ॠतावृद्धिविधायिनी ।
ऌतुल्यशून्यसंस्था च एकवीरामहोदया ॥ १२९॥
ऐश्वर्यदात्री ऐशानी ओजोराशिः ओषधीशः ।
औदार्यनिलया औग्र्यनाशिनी अनुत्तमा ॥ १३०॥
अन्तर्मुखजनाराध्या अन्धकारविनाशिनी ।
अक्षरप्रसवित्री च अक्षरातीतगाविनी ॥ १३१॥
सर्ववर्णमयी स्वच्छा सर्वमन्त्रार्थदीपिका ।
परब्रह्माक्षराभासा परब्रह्ममयीश्वरी ॥ १३२॥
कमला कमनीया च कल्याणी कलिकल्मषा ।
कठोरकर्मनिर्मुक्या करुणारसवाहिनी ॥ १३३॥
खड्गधारिणिदुर्धर्षा खेटकप्रकटप्रभा ।
खगासनमहादीप्तिः खद्योतद्युतिहासिनी ॥ १३४॥
गम्भीरावर्तनाभिस्था गङ्गावर्ततरङ्गिणी ।
गदाधारिणिगन्धर्वा गुणिगुह्यतमाश्रया ॥ १३५॥
घण्टानादमहाह्लादा घर्घराघोरनादिनी ।
घनस्तनभरानम्रा घनश्यामा घनोत्सुका ॥ १३६॥
ङकारवर्णमध्यस्था ङस्वरूपा ङमातृका ।
चतुर्वर्गप्रदा चक्रचञ्चच्चक्रविहारिणी ॥ १३७॥
चन्द्रमण्डलशङ्काशा चण्डमुण्डविमर्दिनी ।
छत्रचामरसम्पूता च्छिन्नमस्तकमूर्तिमती ॥ १३८॥
जगत्प्रसूतिर्जगती जनार्दनजनप्रिया ।
जाड्यविध्वंसनचतुरा जितामित्रा जितेन्द्रिया ॥ १३९॥
झङ्कारनूपुरोपेता झञ्झावातझणत्कृता ।
ञकारवर्णसंसिद्धा ञरूपा ञविभाविनी ॥ १४०॥
टङ्कारबाणहस्ता च टङ्कधारिणिटङ्किनी ।
ठकारपीठनिलया ठरूपा ठमहोदया ॥ १४१॥
डम डमरुहस्ता च डाकिनीडमरुप्रिया ।
ढक्कारवनिबोद्धा च ढुण्ढिराजप्रपूजिता ॥ १४२॥
णकारवर्णमूर्धस्था तान्त्रिकी तन्त्रमन्त्रिणी ।
तरुणी तापशमनी तामसी तारिणी तथा ॥ १४३॥
स्थूलसूक्ष्ममहाकाया स्थैर्यरूपा स्थिरा सती ।
दन्तदीप्तिविनिर्धूतदैत्यदानवदर्पका ॥ १४४॥
दुर्गा दुर्गार्तिशमनी दुष्टदानवघातिनी ।
धनुर्धारिणिधर्माढ्या धरिणी धनदायिनी ॥ १४५॥
नन्दिनी नन्दपुत्रा च नागहारविभूषिता ।
नाभिह्रदमहावर्ता निर्गुणा निरुपद्रवा ॥ १४६॥
पद्मनाभप्रिया पद्मा पद्मनेत्रा पदोन्मुखी ।
पञ्चप्रेतासनासीना पञ्चबाणप्रमर्दिनी ॥ १४७॥
फुल्लपङ्कजसङ्काशा फेत्कारभैरवी परा ।
बन्धनोन्मोचनी बन्द्या बलभद्रप्रसूः सती ॥ १४८॥
बहुबाहुरुपा सिद्धा बालसूर्यसमप्रभा ।
भवानी भवरोगघ्नी भीमा भीमवदोज्ज्वला ॥ १४९॥
मधुप्रिया मदोन्मत्ता मातङ्गी मदिरोन्मुखी ।
महालक्ष्मीर्महाकाली महासरस्वती मयी ॥ १५०॥
यज्ञप्रिया यज्ञमूर्ती यजमानस्वरूपिणी ।
यशोदा यमुनावर्ता यक्षराट्प्रकटप्रभा ॥ १५१॥
रक्ता रक्ताम्बरधरा रक्तदन्तिका रञ्जनी ।
रमणी रमणीया च राजराजेश्वरी परा ॥ १५२॥
लज्जाबीजप्रकाशा च ललिता ललिताम्बिका ।
लम्बस्तनभरानम्रा लोकलोचनलोचना ॥ १५३॥
वसुप्रदा वसुमती वरुणा वर्णिनी वरा ।
वाग्भवेशी वाग्मयी च वाजपेयफलप्रदा ॥ १५४॥
शङ्खचक्रगदाहस्ता शशाङ्कमुकुटोन्मुखी ।
श्यामा श्यामलतन्वाङ्गी श्मशाननिलया शिवा ॥ १५५॥
षट्चक्रभेदिनी षोढा षट्त्रिंशत्तत्त्वभूषिता ।
षडङ्गश्रुतिरूपा च षडाम्नायमहोदया ॥ १५६॥
सरस्वती सागरस्था सुभद्रा सर्वमङ्गला ।
सच्चिदानन्दरूपा च सर्वसिद्धेश्वरेश्वर ॥ १५७॥
हंसहीना हंसमूर्ती हठयोगविशारदा ।
हरिप्रिया हराराध्या हकारवर्णविग्रहा ॥ १५८॥
क्षकारसङ्कटहरा क्षमा क्षेमङ्करी क्षितिः ।
क्षुत्पिपासास्वरूपस्था क्षीरोदार्णवकन्यका ॥ १५९॥
सर्ववर्णमहाव्याप्ता सर्वमन्त्रार्थदीपिका ।
परब्रह्माक्षराभासा परब्रह्ममयीश्वरी ॥ १६०॥
मनोलेखनलेखस्था विधात्री विश्वभाग्यदा ।
सर्वसङ्कल्पचित्रज्ञा नित्यलेखनतत्परा ॥ १६१॥
कादिविद्या हादिविद्या सादिविद्या महोदया ।
परमहंसिनीविद्या चक्षुर्विद्या सुखप्रदा ॥ १६२॥
शुकविद्या शुभाकारा सञ्जीवनीमहाद्युतिः ।
मर्मीविद्या मर्मभेत्ता मर्मरहस्यगोपिता ॥ १६३॥
कामरूपा कामकला कामचारविहारिणी ।
योगिनीपर्वतमध्यस्था योनिकुण्डसुसंस्थिता ॥ १६४॥
योनिपीठमहाधारा नीलशैलनिवासिनी ।
नीलाञ्चलविलासस्था नीलाचलशिरोमणिः ॥ १६५॥
योनिपीठपरापीठा कामाख्या कामदायिनी ।
प्रसिद्धललिताम्बिका महाविद्या महेश्वरी ॥ १६६॥
गुप्ताभिचारा शमनी शत्रुसङ्घविमर्दिनी ।
गुह्यकाली गुह्यरूपा गुह्यमन्त्रप्रकाशिनी ॥ १६७॥
महाभैरवमूर्धस्था महाकालेश्वराश्रया ।
सिद्धासनसमारूढा सिद्धामृततरङ्गिणी ॥ १६८॥
चिन्मयी चित्कलातीता चेतनाचेतनप्रसूः ।
महामन्त्रमयीमाता महातन्त्रैकदीक्षिता ॥ १६९॥
स्वप्रकाशचिदाभासा परब्रह्मात्मिका द्युतिः ।
जगदुत्पत्तिबीजाढ्या सर्वमङ्गलमङ्गला ॥ १७०॥
अखण्डानन्दपीयूषधारासारविवर्धिनी ।
ब्रह्माण्डकोटिसङ्क्षोभकारिणी कालमर्दिनी ॥ १७१॥
महाविद्येश्वरप्राणनाडीमण्डलचारिणी ।
चित्सूर्यमण्डलान्तस्था महामोहाद्रिभेदिनी ॥ १७२॥
अचिन्त्यव्यक्तरूपा च व्यक्तलोकमहेश्वरी ।
नादबिन्दुकलातीता शुद्धसंवित्प्रकाशिनी ॥ १७३॥
यज्ञेशार्चितपादब्जा सर्वयज्ञफलप्रदा ।
त्रिकालज्ञानसम्पन्ना भूतभव्यभवत्प्रसूः ॥ १७४॥
मायाजालावृताकारा मायाजालविमर्दिनी ।
गुहातिगुह्यगन्धर्वा गुह्यमण्डलवर्तिनी ॥ १७५॥
अनन्तरश्मिसन्दोहा महातेजःप्रसारिणी ।
स्वप्रकाशचिदाकाशा सर्वलोकैकसाक्षिणी ॥ १७६॥
भवबन्धप्रशमनी भक्तकल्याणकारिणी ।
नामरूपविनिर्मुक्ता नामरूपप्रकाशिनी ॥ १७७॥
ब्रह्मविष्णुशिवाराध्या ब्रह्मविष्णुशिवात्मिका ।
सर्वशून्यास्पदस्था च सर्वलोकमयी परा ॥ १७८॥
महामन्त्रार्थमूर्ता च मन्त्रशक्त्युदयप्रदा ।
अनाहतमहाध्वानरञ्जिता लोकधारिणी ॥ १७९॥
महोदयनिलया च महाकल्याणसन्ततिः ।
परब्रह्मचैतन्यरूपा परापरफलप्रदा ॥ १८०॥
अचिन्त्यानन्दविभवा सच्चिदानन्दविग्रहा ।
महामहोदयोत्सिक्ता चिद्विलासतरङ्गिणी ॥ १८१॥
सर्ववेदान्तसिद्धान्ता सर्वशास्त्रार्थदीपिका ।
स्वप्रकाशचिदाभासा निराधारपदस्थिता ॥ १८२॥
कालचक्रभ्रमेशानी महाकालप्रमर्दिनी ।
नित्यमुक्ता नित्यसिद्धा नित्यमङ्गलदायिनी ॥ १८३॥
गुह्यातिगुह्यगोप्त्री च गुह्यमण्डलवर्तिनी ।
महासंविन्मयी शुद्धा महाबिन्दुविभूषिता ॥ १८४॥
जगदुत्पत्तिहेतुस्था जगत्पालनतत्परा ।
जगत्संहाररभसा तिरोधानविधायिनी ॥ १८५॥
अनुग्रहमयी नित्या पञ्चकृत्यसमुत्सुका ।
ब्रह्मविष्णुशिवेन्द्रादिदिव्यवैभवदायिनी ॥ १८६॥
अनाद्यन्तापरिच्छिन्ना सर्वदेशमयी सती ।
सर्वकालकलातीता सर्ववस्त्ववभासिनी ॥ १८७॥
परमार्थैकसंसिद्धा परमानन्दलहरी ।
महाभैरवसाक्षिण्या महाभैरववल्लभा ॥ १८८॥
अवाङ्मनसगम्या च शब्दब्रह्मात्मिका परा ।
चिद्घना चित्कला सूक्ष्मा स्थूलमूर्तामूर्ताक्षरा ॥ १८९॥
श्रीपरापरशक्तिः श्रीमती परब्रह्मात्मिका ।
एवं श्रीपरमब्रह्मशक्तिसहस्रकं जगुः ॥ १९०॥
आनन्दभैरव उवाच -
इतीदं कथितं देवि रहस्यानां रहस्यकम् ।
परब्रह्मचैतन्यदं सर्वमन्त्रौघमूर्धजम् ॥ १९१॥
य इदं पठति नित्यं शृणुते वापि मानवः ।
स सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ॥ १९२॥
ब्रह्महत्यासहस्राणि ज्ञानतोऽज्ञानतोऽपि वा ।
स्तोत्रराजस्य पाठाद्धि नश्यन्ति क्षणामिषतः ॥ १९३॥
न तस्य दुर्भिक्षं देवि न दारिद्र्यं न भीतयः ।
यस्य गेहे तिष्ठतीदं स्तोत्रं दिव्यं सुगोपितम् ॥ १९४॥
यत्रैतत्पठ्यते स्तोत्रं परब्रह्मात्मकं शुभम् ।
तत्र नारायणः शम्भुः स्वयं तिष्ठति सर्वदा ॥ १९५॥
शत्रवो नाशमायन्ति भूतप्रेतपिशाचकाः ।
दिशो द्रवन्ति भीतास्ताः स्तोत्रध्वनिसमुत्सुकाः ॥ १९६॥
राजद्वारे महाघोरे सङ्ग्रामे प्राणसङ्कटे ।
आवर्तनेन चैतस्य जयमाप्नोति निश्चितम् ॥ १९७॥
किमत्र बहुनोक्तेन शृणु देवि कुलेश्वरि ।
स्तोत्रस्यास्य प्रसादेन जीवन्मुक्तो भवेन्नरः ॥ १९८॥
गुरुं प्रपूज्य विधिवद् वस्त्रालङ्कारचन्दनैः ।
ततः स्तोत्रमिदं गृह्य सिद्धो भवति नान्यथा ॥ १९९॥
अदीक्षिताय मन्दाय नास्तिकाय खलाय च ।
न दातव्यं महादेवि गोपितं मातृजाइवत् ॥ २००॥
य उद्दिश्य पठेद्देवि यत्कामं कुरुते हृदि ।
तत्सर्वं सफलं तस्य भवेदेव न संशयः ॥ २०१॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रं मोक्षार्थी मोक्षमाप्नुयात् ॥ २०२॥
शनैश्चरादिदोषघ्नं सर्वग्रहनिवारकम् ।
दुःस्वप्नशमनं दिव्यं सर्वसौभाग्यवर्धनम् ॥ २०३॥
त्रिकालं यः पठेन्नित्यं वर्षमेकं समाहितः ।
अणिमादिगुणैश्वर्यं स लभेन्नात्र संशयः ॥ २०४॥
महाशत्रुप्रशमनं परसैन्यविमर्दनम् ।
राजवश्यकरं दिव्यं सर्वलोकवशङ्करम् ॥ २०५॥
यद्गृहे लिखितं पुस्तकं पूजितं गन्धचन्दनैः ।
न तत्र बाधते कश्चिद् व्याधिर्वा मरणादिकम् ॥ २०६॥
इदं स्तोत्रं महागुह्यं योगिनीवृन्दवन्दितम् ।
देवानां दुर्लभं नित्यं तन्त्राणां सारमुत्तमम् ॥ २०७॥
गोपनीयं प्रयत्नेन स्वयोनिनाव शङ्करि ।
प्रकटो न हि कर्तव्यं सामान्ये भुवि मानवे ॥ २०८॥
यस्मै कस्मै न दातव्यं परशिष्यायापि च ।
दत्ते च वीरहानिः स्यात् सत्यं सत्यं वदाम्यहम् ॥ २०९॥
तस्मात्सर्वप्रयत्नेन गोप्तव्यं वीरवन्दिते ।
पठनीयं महाभक्त्या परब्रह्ममयो भवेत् ॥ २१०॥
रहस्यं शृणु मे देवि यदुक्तं तन्त्रमण्डले ।
स्तोत्रस्यास्य प्रभावेण साक्षाद्ब्रह्ममयो भवेत् ॥ २११॥
यत्र यत्र चरेन्मर्त्यो गृहीत्वा स्तोत्रमुत्तमम् ।
तत्र तत्र महादेवी भैरवी भ्रमति स्वयम् ॥ २१२॥
अश्वमेधसहस्राणि वाजपेयशतानि च ।
सकृत्पाठस्य माहात्म्यात् कलां नार्हन्ति षोडशीम् ॥ २१३॥
गङ्गादिदिग्यतीर्थेषु यत्फलं स्नानतर्पणैः ।
तत्फलं लभते मर्त्यो ध्यात्वा परपदं परम् ॥ २१४॥
वाराणस्यां कुरुक्षेत्रे प्रभासे पुष्करेऽपि च ।
यत्कृतं सुमहत्पुण्यं तदस्य स्मरणाद्भवेत् ॥ २१५॥
अरण्ये प्रान्तरे दुर्गे सिंहव्याघ्राकुले पथि ।
नास्य विघ्नं भवेत्क्वापि परब्रह्माश्रितस्य च ॥ २१६॥
शस्त्राणि नो स्पृशन्त्येव वह्निर्न दहति क्षणात् ।
न मज्जति जले कश्चिद् ग्रन्थेऽस्मिन् हृदिसंस्थिते ॥ २१७॥
तन्त्रोक्ताः सकलाः सिद्ध्यो मन्त्रसिद्धिस्तथैव च ।
कराआमलकवत्तस्य हस्ते तिष्ठन्ति सर्वदा ॥ २१८॥
यस्य वक्त्रे वसेदेतद् दिव्यं नामसहस्रकम् ।
तस्य वाक्यं भवेद्वेदाः सत्यं सत्यं कुलेश्वरि ॥ २१९॥
न यमस्य भयं तस्य न च कालकृतं भयम् ।
यः पठेत् परमं स्तोत्रं चैतन्यघनमुज्ज्वलम् ॥ २२०॥
रहस्यातिरहस्यं च पुरश्चरणपूर्वकम् ।
यः पठेच्छ्रद्धया युक्तो देवो भूत्वा यजेच्छिवाम् ॥ २२१॥
महानिशायां पूजान्ते श्मशाने वा चतुष्पथे ।
एकान्ते विजने देशे सिद्धपीठेषु वा शिवे ॥ २२२॥
कृत्वा न्यासविधिं सर्वं षोढाविस्तारलक्षणम् ।
जपेत् स्तोत्रमिदं धीमान् अष्टोत्तरशतं शुभम् ॥ २२३॥
तस्य प्रत्यक्षमूर्त्या च परब्रह्ममयी कला ।
ददाति वाञ्छितं सर्वं सिद्धत्वं चिरदुर्लभम् ॥ २२४॥
खेचरत्वं भवेत्तस्य वाक्सिद्धिः सर्वकामदा ।
दृष्टिपातेन मर्त्यानां मोहयेज्जगतीत्रयम् ॥ २२५॥
आकर्षणं च शत्रूणां स्तम्भनं मारणादिकम् ।
यद्यत् करोति सङ्कल्पं तत्सर्वं सिद्ध्यति क्षणात् ॥ २२६॥
सर्वलोकेषु पूज्योऽसौ देवराज इवापरः ।
महापण्डितसङ्घेषु वाक्पतिः सदृशो भवेत् ॥ २२७॥
गुरुवक्त्रात् श्रुतं स्तोत्रं धारयेद्यो जनः सदा ।
तस्य हस्तगता मुक्तिः परब्रह्मप्रसादतः ॥ २२८॥
न तपोभिर्न दानैश्च न योगैश्च न चाध्वरैः ।
तल्लभ्यते परं धाम यदेतद्वर्तते शिवे ॥ २२९॥
तस्मात् सर्वं परित्यज्य ध्यात्वा तद्ब्रह्म शाश्वतम् ।
पठेत् स्तोत्रमिदं दिव्यं सर्वमन्त्रौघविग्रहा ॥ २३०॥
आनन्दभैरव्युवाच -
कृतकृत्याऽस्मि देवेश शङ्कर प्रमथाधिप ।
इति श्रीआनन्दभैरवभैरवीसंवादे श्रीपरब्रह्मशक्ति अथवा परशक्तिसहस्रनामस्तोत्रकथनं सम्पूर्णम् ।
This Stotra was Given by Baba Trijata Aghori
to Swami Nikhileshwarannd (Narayan Dutt Shrimali)
during Tantrik Sammelan.
Source - Swami DivyaChetanananda Book
Encoded and proofread by Durga Sharma