श्रीपरमानन्दसन्दोहकवचम्
ॐ ह्रीं अस्य श्रीपरमानन्दसन्दोहकवचमहास्तोत्रमहामन्त्रस्य,
श्रीनारायण ऋषिः, अनुष्टुप् छन्दः, श्रीराधिका त्रिपुरसुन्दरी
देवता, श्रीकृष्णदास्यभक्तिप्राप्त्यर्थे पाठे विनियोगः ॥
ऋष्यादिन्यासः ।
ॐ नारायणऋषये नमः शिरसि ।
ॐ अनुष्टुप्छन्दसे नमः मुखे ।
ॐ श्रीराधिका त्रिपुरसुन्दरीदेवतायै नमः हृदि ।
ॐ श्रीकृष्णदास्यभक्तिप्राप्त्यर्थे नमः नाभौ ।
ॐ विनियोगाय नमः सर्वाङ्गे ॥
करन्यासः ।
ॐ ह्रां अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ ह्रूं मध्यमाभ्यां नमः ।
ॐ ह्रैं अनामिकाभ्यां नमः ।
ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ॥
षडङ्गन्यासः ।
ॐ ह्रां हृदयाय नमः ।
ॐ ह्रीं शिरसे स्वाहा ।
ॐ ह्रूं शिखायै वषट् ।
ॐ ह्रैं कवचाय हुम् ।
ॐ ह्रौं नेत्रत्रयाय वौषट् ।
ॐ ह्रः अस्त्राय फट् ॥
अथ कवचम् ।
ॐ सर्वाद्या में शिरः पातु केशं केशवकामिनी ।
भालं भगवती पातु लोला लोचनयुग्मकम् ॥ १॥
नासां नारायणी पातु सानन्दा चाधरोष्ठकम् ।
जिह्वां पातु जगन्माता दन्तं दामोदरप्रिया ॥ २॥
कपोलयुग्मं कृष्णेशा कण्ठं कृष्णप्रियाऽवतु ।
कर्णयुग्मं सदा पातु कालिन्दीकूलवासिनी ॥ ३॥
वसुन्धरेशा वक्षो मे परमा सा पयोधरम् ।
पद्मनाभप्रिया नाभिं जठरं जाह्नवीश्वरी ॥ ४॥
नित्या नितम्बयुग्मं मे कङ्कालं कृष्णसेविता ।
परात्परा पातु पृष्ठं सुश्रोणी श्रोणिकायुगम् ॥ ५॥
परमाद्या पादयुग्मं नखरांश्च नरोत्तमा ।
सर्वाङ्गं मे सदा पातु सर्वेशा सर्वमङ्गला ॥ ६॥
पातु रासेश्वरी राधा स्वप्ने जागरणे च माम् ।
जले स्थले चान्तरिक्षे सेविता जलशायिनी ॥ ७॥
प्राच्यां मे सततं पातु परिपूर्णतमप्रिया ।
वह्नीश्वरी वह्निकोणे दक्षिणे दुःखनाशिनी ॥ ८॥
नैऋत्ये सततं पातु नरकार्णवतारिणी ।
वारुणे वनमालीशा वायव्यां वायुपूजिता ॥ ९॥
कौबेरे मां सदा पातु कूर्मेण परिसेविता ।
ईशान्यामीश्वरी पातु शतशृङ्गनिवासिनी ॥ १०॥
वने वनचरी पातु वृन्दावनविनोदिनी ।
सर्वत्र सततं पातु सर्वेशा विरजेश्वरी ॥ ११॥
प्रथमे पूजिता या च कृष्णेन परमात्मना ।
षडक्षर्या विद्यया च सा मां रक्षतु कातरम् ॥ १२॥
इति श्रीनारदपञ्चरात्रे श्रीपरमानन्दसन्दोहकवचं सम्पूर्णम् ।
Encoded and proofread by Durga Sharma