प्रार्थनामृतस्तोत्रम्
श्रीरूपरतिमञ्जर्योरङ्घ्रिसेवैकगृध्नुना ।
असङ्ख्येनापि जनुषा व्रजे वासोऽस्तु मेऽनिशम् ॥ १॥
अयं जीवो रङ्गैर्नयनयुगलस्यन्दिसलिल
प्रधौताङ्गो रङ्गो घटितपटुरोमालिनटनः ।
कदा रासे लास्यैः प्रेमजलपरिक्लिन्नपुलक-
श्रियौ राधाकृष्णौ मदनसुनटौ विजयति भोः ॥ २॥
प्रेमोद्रेकैर्नयननिपतद्वारिधारो धरण्यां
वैवर्ण्यालीसवलितवपुः प्रौढकम्पः कदाहम् ।
स्वेदाम्भोभिः स्नपितपुलकश्रेणिमूलः स्मितोक्तौ
राधाकृष्णौ मदनसमरस्फारदक्षौ स्मरामि ॥ ३॥
मसारक्ष्मासारोद्भवनवतमालोद्भटमद-
प्रहारिश्रीभारोज्ज्वलवपुषमुद्याछुचिरसैः ।
कदा राकाचन्द्रस्तुतवदननिद्रालसदृशं
दृशा कृष्णं वक्षःस्वपनपरराधं सखि भजे ॥ ४॥
सरागं कुर्वत्यः सखि हरिकृते हाररचनं
करे श्रीराधायाः प्रकटपुलकोद्रेकि मयका ।
विचित्यालं चञ्चद्द्युतिविविधवर्णं मणिकुलं
क्रमेणाराद्देयं किमिति कृपया ताचरणयोः ॥ ५॥
मानेनालं कवलितधिया श्यामया राधिकार्द्रा
द्रागाहूता व्यसनकथनायेति संविद्य कीरात् ।
तस्या वेशैर्गतमघहरं तस्य दोषं लपन्तं
तुष्ट्यालिङ्ग्य त्वरितमथ सा ज्ञाततत्त्वा जडासीत् ॥ ६॥
सनीरमुदिरद्युतिः पुरटनिन्दिवस्त्रं दधा-
छिखण्डकृतशेखरः स्फुरितवान्यवेशः सुखी ।
समृद्धविधुमण्डलीस्तवनलङ्घिवक्त्रे धृतं
क एष सखि वादयन्मुरलिमद्य बुद्धिं हरेत् ॥ ७॥
एकं स्वप्नवरं शृणुष्व ललिते हा हा सखि श्रावय
स्वप्ने पुष्पहृतौ त्वया सह मया प्राप्ते वने मत्पुरः ।
तन्वत्या दरवीक्ष्य चञ्चलदृशानङ्गं सदङ्गं बला-
त्स्मेरः कश्चन मेघसुन्दरवपुस्त्वामालिलिङ्गोन्मदः ॥ ८॥
दृष्ट्वा गोपतिनन्दनस्य कदनं वेणुर्गतो मूकतां
सर्वे स्थावरजङ्गमा व्रजवनीजाता ययुः क्षीणताम् ।
सोऽपि व्याग्रसुहृद्वृतो भुवि लुठन्नास्ते विभूषः कृशो
राधे त्वं तु मुदा सदाधिपयसा मानोरगं पोषय ॥ ९॥
क्व राधे त्वं साक्षादित इतवती त्वद्वशमिमं
जनं हा हागत्य स्नपय कृपया कौतुकरसैः ।
इति व्याग्रं शश्वन्मुरलिविवरे घर्घररवं
वितन्वाने कृष्णे स्मितवलितवामेयमुदभूत् ॥ १०॥
कृत्वा वामकरेऽद्य कर्मुकमये पौष्पं करस्यापर-
स्याभुग्नाङ्गुलियुग्मकेन सरलं न्यास्येषुमस्मिन्पुरः ।
कः श्यामो नटवेश एष सुहृदां सङ्गेन रङ्गं सृज-
न्स्मेरः सुन्दरि बम्भ्रमीति मदनस्योन्मादिदृग्विभ्रमः ॥ ११॥
श्यामाश्यामनिकामकामसमरोज्जृम्भच्युतालङ्कृति-
स्तोमामोदितमाल्यकुङ्कुमहिमव्याकीर्णकुञ्जं मुदा ।
दृष्ट्वागत्य सखि श्रमेण पवनं दूरे भजत्तद्युगं
द्रष्टुं न्यस्तदृशौ कदापि मयि तत्स्मेरं दृशं धास्यति ॥ १२॥
सुबलसखाधरपल्लव-
समुदितमधुमाधुरीलुब्धाम् ।
रुचिजितकाञ्चनचित्रां
कञ्चनचित्रां पिकीं वन्दे ॥ १३॥
वृषरविजाधरबिम्बी-
फलरसपानोत्कमद्भुतं भ्रमरम् ।
कृतशिखिपिञ्छकचूलं
पीतदुकूलं चिरं नौमि ॥ १४॥
जितः सुधांशुर्यशसा ममेति
गर्वं मूढ मा बत गोष्ठवीर ।
तवारिनरीनयनाम्बुपाली
जिगाय तातं प्रसभं यतोऽस्य ॥ १५॥
अदृष्टा दृष्टेव स्फुरति सखि केयं व्रजवधूः
कुतोऽस्मिन्नायाता भजितुमतुला त्वां मधुपुरात् ।
अपूर्वेणापुर्वां रमय हरिणैनामिति सरा-
धिकोद्यद्भङ्ग्युक्त्या विदितयुवतित्वः स्मितमधात् ॥ १६॥
त्वद्भाग्यादिन्दुकान्तिर्वनमणिसदनं मण्डयन्ती समन्ता-
द्भ्राजत्यस्मिन्वसन्ती हतमपि तिमिरं मध्यरात्रं च वीतम् ।
तूर्णं तस्माच्चकोर व्रज निजगगनात्सेवितुं तं पिपासो
यावत्सूरोऽभिमन्युर्द्रुतमिह उदितस्त्वां न दूरीकरोति ॥ १७॥
चकोरीव ज्योत्स्नायुतममृतरश्मिं स्थिरतडि-
द्वृतं दिव्याम्भोदं नवमिव रताचातकवधूः ।
तमालं भृङ्गीवोद्यतरुचि कदा स्वर्णलतिका-
श्रितं राधाश्लिष्टं हरिमिह दृगेषा भजति मे ॥ १८॥
दूतीभिश्चटुवारिभिः सखिगणैर्भेदार्द्रशाखाहति-
व्रातैः पादलुठाछिरःश्रितरजोवृष्ट्या बकीविद्विषा ।
राधायाः सखि शक्यते शमयितुं यो मानवह्निर्न यातं
निर्वापयतीह फुत्कृतीकणैस्तां सिद्धवंशीं नुमः ॥ १९॥
प्राणक्ष्वेलिभुवं व्रजं व्रजजनं तातं प्रसूं गाः सखी-
न्गोपीः कामपि तां विना विषमभूद्द्वारावती मित्र मे ।
इत्थं स्वप्निकशीर्णमाधववचः श्रुत्वैव भामापि सा
तद्युक्ता किल लोकितुं तदखिलं तं चाटुना याचते ॥ २०॥
तमालस्य क्रोडे स्थितकनकयूथीं प्रविलस-
त्प्रसूनां लोलालिं सखि कलय वन्द्यं चिरमिमम् ।
तिरस्कर्तुर्मेघद्युतिमघभिदोऽङ्के स्थितचल-
द्दृशं स्मेरां राधां तडिदतिरुचिं स्मारयति या ॥ २१॥
इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां
प्रार्थनामृतस्तोत्रं सम्पूर्णम् ।