प्रद्युम्नकृतं पार्वतीस्तोत्रम्
प्रद्युम्न उवाच ।
ॐ नमः कात्यायन्यै गुहस्य जनन्यै नमः ।
नमस्त्रैलोक्यमायायै कात्यायन्यै नमो नमः ॥ १॥
नमः शत्रुविनाशिन्यै नमो गार्ग्यै गिरीशये ।
नमस्ये शुम्भहननीं निशुम्भहृदिदारणीम् ॥ २॥
कालरात्रिं नमस्येऽहं कुमारीं चापि नित्यशः ।
कान्तारवासिनीं देवीं नमस्यामि कृताञ्जलिः ॥ ३॥
विन्ध्यवासिनीं दुर्गघ्नीं रणदुर्गां रणप्रियाम् ।
नमस्यामि महादेवीं जयां च विजयां तथा ॥ ४॥
अपराजितां नमस्येऽहमजितां शत्रुतापनीम् ।
घण्टाहस्तां नमस्यामि घण्टामालाकुलां तथा ॥ ५॥
त्रिशूलिनीं नमस्यामि महिषासुरघातिनीम् ।
सिंहवाहां नमस्यामि सिंहप्रवरकेतनाम् ॥ ६॥
एकानंशां(?) नमस्यामि गायत्रीं यज्ञसत्क्रियाम् ।
सावित्रीं चापि विप्राणां नमस्येऽहं कृताञ्जलिः ।
रक्ष मां देवि सततं संग्रामे विजयं कुरु ॥ ७॥
इति हरिवंशान्तर्गतं प्रद्युम्नकृतं पार्वतीस्तोत्रं सम्पूर्णम् ।
हरिवंश । अनुबन्ध - परिशिष्ट । अध्याय अ३०.३६१॥
harivaMsha . anubandha - parishiShTa . adhyAya a30.361..
Proofread by PSA Easwaran