प्रह्लादकृतं देवीस्तोत्रम्
प्रह्लाद उवाच ।
स्तौमि देवीं महामायां सृष्टिस्थित्यन्तकारिणीम् ।
सर्वेषां जननीं शक्तिं भक्तानामभयङ्करीम् ॥ ३२॥
व्यास उवाच ।
इत्युक्त्वा विष्णुभक्तस्तु प्रह्लादः परमार्थवित् ।
तुष्टाव जगतां धात्रीं कृताञ्जलिपुटस्तदा ॥ ३३॥
मालासर्पवदाभाति यस्यां सर्वं चराचरम् ।
सर्वाधिष्ठानरूपायै तस्यै ह्रीम्मूर्तये नमः ॥ ३४॥
त्वत्तः सर्वमिदं विश्वं स्थावरं जङ्गमं तथा ।
अन्ये निमित्तमात्रास्ते कर्तारस्तव निर्मिताः ॥ ३५॥
नमो देवि महामाये सर्वेषां जननी स्मृता ।
को भेदस्तव देवेषु दैत्येषु स्वकृतेषु च ॥ ३६॥
मातुः पुत्रेषु को भेदोऽप्यशुभेषु शुभेषु च ।
तथैव देवेष्वस्मासु न कर्तव्यस्त्वयाधुना ॥ ३७॥
यादृशास्तादृशा मातः सुतास्ते दानवाः किल ।
यतस्त्वं विश्वजननी पुराणेषु प्रकीर्तिता ॥ ३८॥
तेऽपि स्वार्थपरा नूनं यथैव वयमप्युत ।
नान्तरं दैत्यसुरयोर्भेदोऽयं मोहसम्भवः ॥ ३९॥
धनदारादिभोगेषु वयं सक्ता दिवानिशम् ।
तथैव देवा देवेशि को भेदोऽसुरदेवयोः ॥ ४०॥
तेऽपि कश्यपदायादा वयं तत्सम्भवाः किल ।
कुतो विरोधसम्भूतिर्जाता मातस्तवाधुना ॥ ४१॥
न तथा विहितं मातस्त्वयि सर्वसमुद्भवे ।
साम्यतैव त्वया स्थाप्या देवेष्वस्मासु चैव हि ॥ ४२॥
गुणव्यतिकरात्सर्वे समुत्पन्नाः सुरासुराः ।
गुणान्विता भवेयुस्ते कथं देहभृतोऽमराः ॥ ४३॥
कामः क्रोधश्च लोभश्च सर्वदेहेषु संस्थिताः ।
वर्तन्ते सर्वदा तस्मात् कोऽविरोधी भवेञ्चनः ॥ ४४॥
त्वया मिथो विरोधोऽयं कल्पितः किल कौतुकात् ।
मन्यामहे विभेदेन नूनं युद्धदिदृक्षया ॥ ४५॥
अन्यथा खलु भ्रातॄणां विरोधः कीदृशोऽनघे ।
त्वं चेन्नेच्छसि चामुण्डे वीक्षितुं कलहं किल ॥ ४६॥
जानामि धर्मं धर्मज्ञे वेद्मि चाहं शतक्रतुम् ।
तथापि कलहोऽस्माकं भोगार्थं देवि सर्वदा ॥ ४७॥
एकः कोऽपि न शास्तास्ति संसारे त्वां विनाम्बिके ।
स्पृहावतस्तु कः कर्तुं क्षमते वचनं बुधः ॥ ४८॥
देवासुरैरयं सिन्धुर्मथितः समये क्वचित् ।
विष्णुना विहितो भेदः सुधारत्नच्छलेन वै ॥ ४९॥
त्वयासौ कल्पितः शौरिः पालकत्वे जगद्गुरुः ।
तेन लक्ष्मीः स्वयं लोभाद्गृहीतामरसुन्दरी ॥ ५०॥
ऐरावतस्तथेन्द्रेण पारिजातोऽथ कामधुक् ।
उच्चैःश्रवाः सुरैः सर्वं गृहीतं वैष्णवेच्छया ॥ ५१॥
अनयं तादृशं कृत्वा जाता देवास्तु साधवः ।
(अन्यायिनः सुरा नूनं पश्य त्वं धर्मलक्षणं। ।)।
संस्थापिताः सुरा नूनं विष्णुना बहुमानिना ॥ ५२॥
नूनं दैत्याः पराभूवन्पश्य त्वं धर्मलक्षणम् ।
क्व धर्मः कीदृशो धर्मः क्व कार्यं क्व च साधुता ॥ ५३॥
कथयामि च कस्याग्रे सिद्धं मैमांसिकं मतम् ।
तार्किका युक्तिवादज्ञा विधिज्ञा वेदवादकाः ॥ ५४॥
उक्ताः सकर्तृकं विश्वं विवदन्ते जडात्मकाः ।
कर्ता भवति चेदस्मिन्संसारे वितते किल ॥ ५५॥
विरोधः कीदृशस्तत्र चैककर्मणि वै मिथः ।
वेदे नैकमतिः कस्माच्छास्त्रेष्वपि तथा पुनः ॥ ५६॥
नैकवाक्यं वचस्तेषामपि वेदविदां पुनः ।
यतः स्वार्थपरं सर्वं जगत्स्थावरजङ्गमम् ॥ ५७॥
निःस्पृहः कोऽपि संसारे न भवेन्न भविष्यति ।
शशिनाथ गुरोर्भार्या हृता ज्ञात्वा बलादपि ॥ ५८॥
गौतमस्य तथेन्द्रेण जानता धर्मनिश्चयम् ।
गुरुणानुजभार्या च भुक्ता गर्भवती बलात् ॥ ५९॥
शप्तो गर्भगतो बालः कृतश्चान्धस्तथा पुनः ।
विष्णुना च शिरश्छिन्नं राहोश्चक्रेण वै बलात् ॥ ६०॥
अपराधं विना कामं तदा सत्त्ववताम्बिके ।
पौत्रो धर्मवतां शूरः सत्यव्रतपरायणः ॥ ६१॥
यज्वा दानपतिः शान्तः सर्वज्ञः सर्वपूजकः ।
कृत्वाथ वामनं रूपं हरिणा छलवेदिना ॥ ६२॥
वञ्चितोऽसौ बलिः सर्वं हृतं राज्यं पुरा किल ।
तथापि देवान्धर्मस्थान्प्रवदन्ति मनीषिणः ॥ ६३॥
वदन्ति चाटुवादांश्च धर्मवादाज्जयं गताः ।
एवं ज्ञात्वा जगन्मातर्यथेच्छसि तथा कुरु ॥ ६४॥
शरणा दानवाः सर्वे जहि वा रक्ष वा पुनः ।
इति देवीभागवते चतुर्थस्कन्धे पञ्चदशाध्यायान्तर्गतं
प्रह्लादकृतं देवीस्तोत्रं सम्पूर्णम् ।
देवीभागवतम् । स्कन्ध ४। अध्याय ५/३२-६४॥
devIbhAgavatam . skandha 4. adhyAya 5/32-64..
Proofread by PSA Easwaran