प्रज्ञापारमितासूत्र अथवा प्रज्ञापारमिताहृदयम्
ॐ नमो भगवत्यै आर्यप्रज्ञापारमितायै ॥
आर्यावलोकितेश्वरो बोधिसत्त्वो गम्भीरां प्रज्ञापारमिताचार्यां चरमाणो
व्यवलोकयति स्म पञ्चस्कन्धान् तांश्च स्वभावशून्यान् पश्यति स्म ॥
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् ।
रूपान्न पृथक् शून्यता शूनतायाः न पृथग्रूपम् ।
यद्रूपं सा शून्यता या शून्यता तद्रूपम् ।
एवमेव वेदनासंज्ञासंस्कारविज्ञानम् ॥
इह शारिपुत्र सर्वधर्माः शून्यतालक्षणाः ।
अनुत्पन्ना अनिरुद्धाः अमला अविमलाः ।
अनूना अपरिपूर्णाः ॥
तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा
न संस्काराः न विज्ञानम् ।
न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसि ।
न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः ।
न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः ।
न अविद्या न अविद्याक्षयो यावन्न जरामरणं न जरामरणक्षयः ।
न दुःखसमुदयनिरोधमार्गाः ।
न ज्ञानं न प्राप्तिर्न अप्राप्तिः ॥
तस्माच्छारिपुत्र अप्राप्तित्वाद्बोधिसत्त्वस्य
प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः ।
चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो
निष्ठनिर्वाणप्राप्तः ॥
त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्य
अनुत्तरां सम्यक्सम्बोधिमभिसम्बुद्धाः ॥
तस्माज्ज्ञातव्यं प्रज्ञापारमिता महामन्त्रः ।
महाविद्यामन्त्रोऽनुत्तरमन्त्रः समसममन्त्रः ।
सर्वदुःखप्रशमनः सत्यममिथ्यात्वात् ॥
प्रज्ञापारमितायामुक्तो मन्त्रः तद्यथा -
गते गते पारगते पारसङ्गते बोधि स्वाहा ॥
इति प्रज्ञापारमिताहृदयं समाप्तम् ॥
Notes:-
This mantras are secret mantras of Mahayana BuddhisM
and Samayachara Tantra of Kamakhya .
Prajnaparamita is also known as Prajna Lekhini.
She is one of the forms of Lekhini.
Encoded and proofread by Durga Sharma