प्रतिसरास्तोत्रम्
ॐ नमः श्रीप्रतिसरायै प्रतिसरै !
अमरौघैः पूजितां त्वां नतोऽस्मि
प्रतिपदजनरक्षाकारिणीं सर्वकालम् ।
भृगुदहनसमुद्रापातदुःखे सुरक्षां
रिपुविषभयहत्रीं राज्यभोगादिकर्त्रीम् ॥ १॥
परिवृतनिजवर्गान् भक्तदत्तापवर्गान्
कलितदुरितवर्गान् मोक्षलाभैकमार्गान् ।
कृतनरसुरसर्गान् कारितानङ्गभङ्गान्
स्तुतिकृतमुनिगर्गान् सर्वरक्षैकसङ्गान् ॥ २॥
प्रहृतसकलविघ्ने सर्वलोकैकमान्ये
दशबलकृतधन्ये पञ्चदेवीवरेण्ये ।
विषमपदशरण्ये सर्वदा त्वां नमस्ये
वसित इव अरण्ये दावदग्धे विरस्ये ॥ ३॥
सकलजनसुवाञ्छापूरणे कामधेनु-
मभिलषितफलाप्त्यै कल्पवृक्षाग्रवल्लीम् ।
असुरसुरनराद्यैर्वन्दिताङ्घ्र्यब्जयुग्मा-
मुरसि ललितानानारत्नमालादियुक्ताम् ॥ ४॥
उडुपतिशतदीप्तां शङ्खकुन्दावदातां
ग्रहभयपरिशान्तां वज्रसत्त्वात्मिकां ताम् ।
श्रवणललितलोले कुण्डले संवहन्तीं
मुकुटमणिशिखाभिः काशितां तां नमामि ॥ ५॥
जननि सकलदुःखात्तारणी त्वं प्रसीद
सपदि विगतरक्षां रक्ष मे मातरं च ।
सकरुणरुदितं मां त्वद्दयास्वस्थभूतं
कृतसरसिनिपातां त्वं गतिस्त्वं गतिर्नौ ॥ ६॥
पठति प्रतिसरायाः स्तोत्रमेतत्सदा यो
ज्वलनजलविषाणां चोरशार्दूलकानाम् ।
सगदनिधनकानां भीतया नाशयन्ती
प्रतिपदमलभग्नं कामुना धैर्यलाभम् ॥ ७॥
निजजनपरियुक्ता धर्मकामार्थवृद्धा
रिपुगणपरिमुक्ता सौख्यमेव प्रभुक्ता ।
ददति विपुलभोग्यं कामदा सर्वदाऽसौ
निहतसकलपापं मोक्षमायान्ति चान्ते ॥ ८॥
विगलितनयनाम्बुः साञ्जलिः संविलापी
स्तुतिमिति प्रचकार त्रैभवानां जनन्याः ।
भवतु मम तु सम्पत् सर्वभावा कृशानो
तनु कुशलसुरक्षा इत्थमेवं सुचित्तः ॥ ९॥
विपचतु मयि सर्वं मादृशं कर्म भोग्यं
ससुरनरचयानां भ्रातृमातृद्रुहाणाम् ।
कुरुत कुरुत धैर्यं येन मोक्षं सुलभ्यं
जठरनिलयवासं मास्तु पापं कदाचित् ॥ १०॥
उदरनरकवासं ये तदा सावतारं
सततशुभसुचेताः साधयिष्यामि बोधिम् ।
कृतजगति सुरक्षां येन कैवल्यप्राप्तिः
इति मुदितसुचेताः कर्मणा दिग्धचित्तः ॥ ११॥
प्रतिसर अवतार्यां साम्बिकां मा विलम्ब
अनिशमितिवदन् सो निन्दयन् वै स्वकर्म ।
प्रतिभयविषदिग्धस्तस्थिवानर्भकः सन्
मुहुरिह हि शरण्यां तां स्मरन् सर्वरक्षाम् ॥ १२॥
अहो सुधन्या जगदेकमाता
प्रक्रान्तदैवा रिपुवर्गभीता ।
यस्याः प्रभावाद्विहितात्यपापात्
प्रयाति वह्निर्जलशीतलत्वम् ॥ १३॥
प्रभावताहो पुनरेव तस्याः
वह्निं जलं चापि गिरिं स्थलं वै ।
यस्याः स्मृतेनैव सविस्मतीयान्
वैश्वानरः प्राप द्विधाकृतिं ताम् ॥ १४॥
गोपाशरीरं ह्रदपातशीतं
शैतं त्वनाशार्थमिवाधिकोष्णाम् ।
दैवादिदत्ताभिजने समन्ता-
न्नितान्तदूरादतिपापदत्ताम् ॥ १५॥
इति श्रीभद्रकल्पावदानोद्धृतं यशोधरागर्भस्थबालकृतं
प्रतिसरास्तोत्रं सम्पूर्णम् ॥