पुरुषोत्तमप्रोक्तं श्रीमहालक्ष्मीमन्त्रस्तोत्रम्
श्रीपुरुषोत्तम उवाच ।
शृणु लक्ष्मि! महालक्ष्म्या मन्त्रान्तरं वदामि ते ।
यदाराधनतो भूयात्साधको भुक्तिमुक्तिमान् ॥ १॥
``ॐ महालक्ष्मी महामाया महानारायण्यै कमलवासिन्यै
महाविष्णुप्रियायै नमः, ॐ श्रीं ह्रीं क्लीं णीं म्लीं ष्णीं
महामात्रे पुरुषार्थवर्षिण्यै स्वाहा'' ॥ २॥
पञ्चाशदक्षरं दिव्यं महामन्त्रं जपेत् सदा ।
ऋषिर्नारायणश्चाऽहं महालक्ष्मीर्हि देवता ॥ ३॥
स्वर्णचम्पकरूपाभां सर्वभूषणभूषिताम् ।
कृपाहास्यप्रसन्नास्यां भक्तानुग्रहतत्पराम् ॥ ४॥
सर्वैश्वर्यादिसम्पूर्णां सर्वाम्बरविराजिताम् ।
कोटिसूर्येन्दुकान्तां च रत्नहारादि बिभ्रतीम् ॥ ५॥
कम्भराश्रीमहालक्ष्मीं श्रीमद्गोपालरूपिणीम् ।
महाविष्णुमहाशक्तिं ध्यायेच्छ्रीमातरं रमाम् ॥ ६॥
जपेन्मन्त्रायुतं मन्त्रलक्षं वाऽथ दशांशतः ।
पायसेन हवनं च कुर्याच्छ्रीचन्दनार्चनम् ॥ ७॥
स्थापनं पूजनं कुर्यादारार्त्रिकं निवेदनम् ।
जलं ताम्बूलकं दद्यात् क्षमापनं विसर्जनम् ॥ ८॥
नवशक्तीः पूजयेच्च महालक्ष्म्याः स्वरूपिणी ।
विभूतिमुन्नतिं कान्तिं सृष्टिं कीर्ति च सन्नतिम् ॥ ९॥
व्युष्टिमुत्कृष्टिमृद्धिं च दक्षिणे तु गजाननम् ।
वामे कुसुमधन्वानं पूजयेच्चन्दनादिभिः ॥ १०॥
उमां श्रीं भारतीं दुर्गां धरणिं वेदमातरम् ।
देवीमुषां चाष्टदिक्षु गङ्गां यमीं च पूजयेत् ॥ ११॥
पादपद्मक्षालनायाऽऽनीता अपः प्रपूजयेत् ।
शङ्खपद्मनिधी चाऽर्चेत् पार्श्वयोर्धृतचामरौ ॥ १२॥
धृतातपत्रं वरुणं पूजयेत् पश्चिमे तथा ।
राशीन्नवग्रहाँश्चापि दिग्गजानर्चयेत्तथा ॥ १३॥
लोकपालाँस्तदस्त्राणि पूजयेत्त्वनले तथा ।
दूर्वाभिराज्यसिक्ताभिर्जुहुयादायुषे नरः ॥ १४॥
गुडूचीमाज्यसंसिक्तां जुहुयात् सप्तवासरान् ।
अष्टोत्तरसहस्रं यः स जीवेत् पूर्णमेव ह ॥ १५॥
हुत्वा तिलान् घृताभ्यक्तान् दीर्घमायुष्यमाप्नुयात् ।
शालिभिर्जुह्वतो नित्यमष्टोत्तरसहस्रकम् ॥ १६॥
अचिरादेव महती लक्ष्मीः सञ्जायते ध्रुवा ।
नारीकेलघृताद्यैर्जुहुयात्कुबेरवद्भवेत् ॥ १७॥
गुडघृताभ्यां हवनादन्नवान् सम्प्रजायते ।
एवं यो भजते लक्ष्मीं कम्भरां ललितां श्रियम् ॥ १८॥
सम्पदस्तस्य जानन्ते महालक्ष्मीः प्रसीदति ।
देहान्ते वैष्णवं धाम लभते पारमेश्वरम् ॥ १९॥
श्रीपुरे दिव्यलोके सा माता लक्ष्मीः परेश्वरी ।
विविधान् स्वावतारान् हि त्रैलोक्यां कुरुते सदा ॥ २०॥
महालक्ष्मीर्महामाया मूलप्रकृतिरीश्वरी ।
पारब्राह्मी चाऽक्षरी च परेशी पुरुषोत्तमी ॥ २१॥
राधालक्ष्मीश्च गङ्गा च विरजा च सरस्वती ।
सावित्री चाथ गायत्री कमला पद्मिनी रमा ॥ २२॥
तुलसी माधवी पद्मा चेत्येवं ख्यायते हि सा ।
विष्णुकाञ्च्यां महालक्ष्मीर्ललिता वर्तते सती ॥ २३॥
शिवकाञ्च्यां सैव देवी कामेश्वरी शिवप्रिया ।
वर्तते परमा पूज्या नैकरूपा हि कम्भरा ॥ २४॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
१२०-अध्यायान्तर्गतं पुरुषोत्तमप्रोक्तं श्रीमहालक्ष्मीमन्त्रस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १२०/१-२४॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 120/1-24..
Proofread by PSA Easwaran