श्रीराधागुणवर्णनम्

श्रीराधागुणवर्णनम्

श्वेतचम्पकवर्णाभामतुलां सुमनोहराम् । मोहिनीं मानसानां च मुनीनामूर्ध्वरेतसाम् ॥ ७७॥ सुकेशीं सुन्दरीं श्यामां न्यग्रोधपरिमण्डलाम् । नितम्बकठिनश्रोणीं स्तनयुग्मोन्नताननाम् ॥ ७८॥ कोटीन्दुनिन्दितास्यां तां सस्मितां सुदतीं सतीम् । कज्जलोज्ज्वलरूपां च शरत्कमललोचनाम् ॥ ७९॥ महालक्ष्मीं बीजरूपां परामाद्यां सनातीम् । परमात्मस्वरूपस्य प्राणाधिष्ठातृदेवताम् ॥ ८०॥ स्तुतां च पूजितां चैव परां च परमात्मने । ब्रह्मस्वरूपां निर्लिप्तां नित्यरूपां च निर्गुणाम् ॥ ८१॥ विश्वानुरोधात्प्रकृतिं भक्तानुग्रहविग्रहाम् । मर्त्यस्वरूपां शुद्धां च पूतां पतितपावनीम् ॥ ८२॥ सुतीर्थपूतां सत्कीर्तिं विधात्रीं वेदसामपि । महत्प्रियां च महतीं महाविष्णोश्च मातरम् ॥ ८३॥ रासेश्वरेश्वरीं रम्यां रसिकां रसिकेश्वरीम् । वह्निशुद्धांशुकाधामां स्वेच्छारूपां शुभालयाम् ॥ ८४॥ गोपीभिः सप्तभिः शश्वत्सेवितां श्वेतचामरैः । चतसृभिः प्रियालीभिः पादपद्मोपसेविताम् ॥ ८५॥ अमूल्यरत्ननिर्माणभूषणोच्चैर्विभूषिताम् । चारुकुण्डलयुग्मेन श्रुतिगण्डस्थलोज्ज्वलाम् ॥ ८६॥ सुनासां गजमुक्तार्हां खगेन्द्रचञ्चुनिन्दिताम् । कुङ्कुमालक्तकस्तूरीस्निग्धचन्दनचर्चिताम् ॥ ८७॥ दधानां सुकपोलं च कोमलाङ्गीं सुकामुकीम् । गजेन्द्रगामिनीं रामां कामनीयां सुकामिनीम् ॥ ८८॥ कामास्त्रजयरूपां च कामकाम्यालयां वराम् । क्रीडाकमलमम्लानं पारिजातप्रसूनकम् ॥ ८९॥ अमूल्यरत्ननिर्माणं दधानां दर्पणोज्ज्वलम् । नानारत्नविचित्राढ्यरत्नसिंहासनस्थिताम् ॥ ९०॥ पद्मैः पद्मार्चितं पादपद्मं च मङ्गलालयम् । हृत्पद्मे ध्यायमानं च कृणस्य परमात्मनः ॥ ९१॥ कर्मणा मनसा वाचा स्वप्ने जागरणेऽपि च । तत्प्रीतिं प्रेम सौभाग्यं स्मरन्तीं नित्यनूतनम् ॥ ९२॥ भावानुरक्तसंसक्तां शुद्धभक्तां पतिव्रताम् । धन्यां मान्यां गौरवर्णां शश्वद्वक्षःस्थलस्थिताम् ॥ ९३॥ प्रियासु प्रियभक्तेषु सुप्रियां प्रियवादिनीम् । कृष्णवामाङ्गसम्भूतामभेदां गुणरूपयोः ॥ ९४॥ गोलोकवासिनीं देवदेवीं सर्वोपरिस्थिताम् । वृषभानुसुताख्यां तां पुण्यक्षेत्रे च भारते ॥ ९५॥ गोपीश्वरीं गुप्तरूपां सिद्धिदां सिद्धिरूपिणीम् । ध्यानासाध्यां दुराराध्यां वन्दे सद्भक्तवन्दिताम् ॥ ९६॥ इति ब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे पूर्वभागे चतुर्विंशाधिकशाधिकशततमाध्यायान्तर्गतं श्रीराधा- गुणवर्णनं समाप्तम् । ब्रह्मवैवर्तपुराण । श्रीकृष्णजन्म, उत्तरभाग । अध्याय १२४/८०-९६॥ brahmavaivartapurANa . shrIkRRiShNajanma, uttarabhAga . adhyAya 124/80-96.. Proofread by PSA Easwaran
% Text title            : Shri Radhagunavarnanam
% File name             : rAdhAguNavarNanam.itx
% itxtitle              : rAdhAguNavarNanam (brahmavaivartapurANAntargatam)
% engtitle              : rAdhAguNavarNanam
% Category              : devii, devI, brahmavaivartapurANa, rAdhA
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmavaivartapurANa | shrIkRRiShNajanma, uttarabhAga | adhyAya 124/80-96||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, English 1, 2)
% Latest update         : March 29, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org