श्रीराधाकृष्णप्रादुर्भावः
श्रीमते रामानुजाय नमः ।
श्रीराधानटवराभ्यां नमः ।
नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।
नमो राधाधरसुधासिन्धुनित्यविहारिणे ॥ १॥
राधाकृष्णस्वरूपां वै कृष्णराधास्वरूपिणम् ।
कालात्मानं निकुञ्जस्थं गुरुरूपं सदा भजे ॥ २॥
हरिणीं हारिणीं ह्रीणां हरितां चतुरक्रियाम् ।
कौमारीं सततं वन्दे तप्तचामीकरप्रभाम् ॥ ३॥
मुग्धां स्निग्धां विदग्धां चासन्दिग्धां चतुरक्रियाम् ।
वन्दे रणक्रियाभासा देवर्षिप्रमुखाकृतीः ॥ ४॥
सिञ्जन्नूपुरपादपद्मयुगलां हंसीगतिं बिभ्रतीं
चञ्चत्खञ्जनमञ्जुलोचनयुगां पीनोल्लसत्कन्धराम् ।
बिभ्रत्काञ्चनकङ्कणं द्युतिमिलत्पाणौ चलच्चामरं
कुर्वाणां हरिराधिकोपरि सदा श्रीरङ्गदेवीं भजे ॥ ५॥
नव्यां नूतनचीरधारणपरां नीलप्रभां द्योतितां
नीलेन्दीवरदीर्घसुन्दरदृशां नीलं निरीक्षद्वनम् ।
वृन्दारण्यनिकुञ्जवासमुदितं राजीवनेत्रं हरिं
ध्यायन्ती धरणि स्थिरेण मनसा श्रीनव्यवासां भजे ॥ ६॥
वचनेमृतसागरायतीं गमने मत्तसुरद्विपायतीम् ।
हसने मलमौक्तिकायतीं सततं श्रीसखिविश्वमां भजे ॥ ७॥
उत्तमाङ्गपरिरक्षणस्थिरामुत्तरोत्तररसप्रदायनीम् ।
स्वामिनीं प्रणयपूरनिर्भरामुत्तमां च शिरसाभिवादये ॥ ८॥
निजदासविलासदायिनीं निजनाथैकगुणौघगायिनीम् ।
वयसा नयनेन्दुहायिनीं सुविलासां शिरसा नतोस्म्यहम् ॥ ९॥
रससागरपारधोरणीं रसरूपामृतचन्द्रतोरणीम् ।
सरसस्मितहास्यवादिनीं सरसां रासकरीं भजामहे ॥ १०॥
मधुरां मधुरप्रभाषिणीं हरिराधारतिरङ्गसाक्षिणीम् ।
शशिकोटिविकाससुस्मितां प्रणमामि प्रणयात्मनि स्थिताम् ॥ ११॥
भवतापहरां भयापहां भवपाथोधितरीं दयापराम् ।
दलिताम्बुजनेत्रशालिनीमतिभद्रां मनसा स्मरे मुदा ॥ १२॥
निजवर्गमधुव्रतावलीं कमनीयाङ्गुलिपल्लवप्ररूढाम् ।
स्वजनामलमानसप्रसूतं प्रियपद्मापदपङ्कजं स्मरामि ॥ १३॥
श्यामां श्यामवयोन्वितां परिलसन्नीलाम्बरं बिभ्रतीं
आकर्णायतनेत्रपङ्कजभरैरालस्यमातन्वतिम् ।
लीलालोलमनङ्गरङ्गमधुरव्यापरभारावहां
राधाकृष्णमुखारविन्दमतुलं सञ्चिनयन्तीं भजे ॥ १४॥
वीणावादनतारतानमधुरत्वाविष्करत्रीं मुदां
श्रीवृन्दावनचन्द्रकृष्णविलसत्पादाम्बुजध्यायिनीम् ।
राधाहारविलासभारकुशलां कुन्देन्दुज्योत्स्नामुखा-
मिच्छाशक्तिरतां हरेः प्रिवतरां श्रीशारदाम्बां भजे ॥ १५॥
करेणोत्त्रीयं हसन्ती दधाना द्वितीयेन फुल्लारविन्दान्वहन्ती ।
लसत्पीनवक्षो लसत्पुष्पहारां सदा संस्मरेहं कृपालामुदाराम् ॥ १६॥
रणच्चारुपादाम्बुजन्यासनिर्जिद्गजेन्द्रामुरौ मौक्लिकस्फारहाराम् ।
सुधामाधुरीहारिमन्दस्मितास्यां भजे देवदेवीं सुरप्रार्थ्यदास्याम् ॥ १७॥
स्फुरत्सुन्दरोदारमन्दारहारस्तनद्वन्द्वभारावसीदत्सुमध्याम् ।
लसद्धस्तविन्यस्तताम्बूलपत्रां भजे सुन्दरीं सुन्दराकारछत्राम् ॥ १८॥
पादारविन्दं शिथिलं दधाना पद्मालया पद्मपरागरञ्जिता ।
पद्मप्रभा पद्मकुचाभिरामा नमामि तस्याः पदपङ्कजं सदा ॥ १९॥
अनाप्नुवंस्तन्मुखचन्द्रमस्तुलां विधुर्गतः खं त्रपया ज्वरार्दितः ।
जले पतन्नाप्तमुखाम्बुजश्रीस्तामिन्दिरां चेतसि भावयामि ॥ २०॥
कामाङ्गनाकोटिमनोज्ञरूपां मुखप्रभानीर्जितरात्रिभूपाम् ।
स्वीयप्रियास्नेहनिधानकूपां रामां स्मरे कृष्णमनोनुरूपाम् ॥ २१॥
प्रावृट् प्रफुल्लनवचारुकदम्बपुष्पहारामुखद्युतिविनिर्जितचन्द्रवारा ।
कान्ताङ्गसङ्गजनिताङ्कनिदर्शनाय वामा करोदभिलसन्मुकुरस्वसख्याः ॥ २२॥
कृष्णामहमभिवन्दे युगलपदाम्भोजभावनामुदिताम् ।
कृष्णरसायनतृटमि साक्षादिव सिन्धुजां कॢप्ताम् ॥ २३॥
यमुनातीरनिकुञ्जे मधुकरपुञ्जे विनिद्रतरुवृन्दे ।
पद्मामहमभिबन्दे रटतीं कृष्णेति कृष्णेति ॥ २४॥
अयुतायुतेन्दुरूपां सकलसखीमालिकानूपाम् ।
वन्देहं श्रुतिरूपां कोटिस्मरकान्तिसरूपाम् ॥ २५॥
मदनमोहनमोहनसुन्दरस्मितविलासकलासु कुतूहलाम् ।
प्रमुदितेन हृदा त्वभिवादये मनसि भागवतीं भगवत्प्रियाम् ॥ २६॥
वसन्तकालोदयपुष्पितानि द्विसन्धिरागायुतपङ्कजानि ।
प्रियप्रियाचारुपदाम्बुजेषु प्रीत्यार्पयन्तीं प्रणमामि माधवीम् ॥ २७॥
यच्छोभाभरजलधौ विधिमुखविबुधालयं ययुः सुचिरम् ।
असितायाश्च तदास्यं शारदविधुमण्डलाकृतिं ध्याये ॥ २८॥
शृङ्गारभारं विविधं विधाय प्रातः स्थिताया निजदेवतायाः ।
मुखारविन्दैकनिरीक्षणाय गुणाकरी दर्पणमाचकार ॥ २९॥
द्विजराजकलाविरजमानां मुखशोभाजितफुल्लकञ्जलक्ष्मीम् ।
मृगराजकटिं मृगायताक्षीमहमीडे सततं सुवल्लभाख्याम् ॥ ३०॥
शारदीयविधुबिम्बमुखाभां कुन्दपङ्क्तिरदनश्रियमेकाम् ।
तुङ्गपीनकुचभारविनम्रामानतोऽस्मि शाशिगौरतराङ्गीम् ॥ ३१॥
मयूरपिच्छद्युतिहारचामरप्रभातिरस्कारि निजप्रियायाः ।
सङ्गुम्फयन्तीं विलसत्कराभ्यां धम्मिल्लभारं प्रणमामि केशीम् ॥ ३२॥
जगत्पवित्रं कुरुते हि यस्या दृगन्तपातो वितनोति सौख्यम् ।
श्रीस्वामिनी स्नेहनिधानभूतां श्रीकृष्णमित्रां प्रभजे पवित्राम् ॥ ३३॥
काश्मीरपङ्काङ्कितहृत्सरोजां सम्भावितश्रीपतिपत्सरोजाम् ।
विनिद्ररक्तोत्पललोचनाभां मुदा स्मरे चेतसि कुङ्कुमाभाम् ॥ ३४॥
समस्तनानाविधदेवतागणैर्विरिञ्चिगङ्गाधरशारदादिभिः ।
मूर्ध्नाभिवन्द्यारुणपादपद्मां श्रीश्रीहितां सन्ततमानतोऽस्मि ॥ ३५॥
विलोहितप्रान्तविशाललोचनां मुखप्रभापूर्णनिशाकरोपमाम् ।
सुचामरालङ्कृतहस्तपङ्कजां श्रीरङ्गदेवीं मनसा स्मरामि ताम् ॥ ३६॥
अलिन्दे कालिन्दीकमलसुरभीकुञ्जवसतौ
वसन्ती वासन्ती नवपरिमलोद्गारिवदनाम् ।
तदुत्तुङ्गे लीलामदमुकुलिताक्षीं पुनरिमां
कदाहं सेव्यंसे किसलयकलापप्रमदने ॥ ३७॥
श्यामालिङ्गितगौरदेहलतया विद्युच्छविं निन्दतीं
श्यामाम्भोधरमाधुरीपरिणतीं पद्भयां तिरस्कुर्वतीम् ।
सर्वासां रतिकेलिभावचतुरां स्त्रीणां शिरोभूषणां
श्रीकृष्णस्मरमन्त्रदेशनगुरुं तां राधिकामाश्रये ॥ ३८॥
श्यामप्रेमविलासनीतिनिपुणा शृङ्गारभावान्विता
वैदग्धीमदमञ्जतीरसमयी लावण्यविश्रामभूः ।
रासोल्लासरसप्रबन्धरसिका सौन्दर्यसीमाश्रया
श्रीवृन्दावनदेवता विजयते राधा सुधामञ्जरी ॥ ३९॥
श्रीश्रीकोटिनितान्तरूपरुचिरां सौन्दर्यसम्मोहिनीं
श्रीवृदावनमञ्जुकुञ्जनिभृतिक्रीडरसावेशिनीम् ।
श्रीमद्रासविलासलालसमहानन्दामृतप्लाविनीं
श्रीमद्दुर्लभदुर्लभा विजयते राधा सुधामञ्जरी ॥ ४०॥
उत्तुङ्गस्तनभारभङ्गुरतनुर्विद्याच्छटाकछवी
प्रोद्यन्नीलनवाम्बरा मृदुपदाम्भोजस्फुरन्मञ्जरी ।
सुस्मेराधरबिम्बचन्द्रवदनी कन्दर्पदर्पाङ्कुरा
प्रेमाब्धौ मदमन्थरा विजयते प्राणाधिका राधिका ॥ ४१॥
भस्मीभूतमनोभवं हरदृशोदारस्फुलिङ्गाङ्कुरै-
र्लीलापाङ्गनिरीक्षणेन कुतुका तत्सञ्जयन्ती पुनः ।
मृग्यन्ती स्मरकेलिकुञ्जभवनेकान्तं सखीभिः समं
नित्यं नित्यविनोदिनां विजयते प्राणाधिका राधिका ॥ ४२॥
उन्मीलन्नवनेत्रपङ्कजतरोः फुल्लस्तनालङ्कृता
सुश्रोणीभरभङ्गुरा सुरुचिरां स्मेराधरामेदुराम् ।
रक्षन्ती निजवल्लभं नवघनश्यामालिकेलिस्थली-
प्रोन्मीलन्कुचकोरका विजयते प्राणाधिका राधिका ॥ ४३॥
श्रीमत्कोटिमनोभवैर्विजयते यत्रार्थसंवादिनी
श्रीमद्गानवसन्तरागविलसद् वक्त्राम्बुजामोहिनीम् ।
line missing in the print
श्रीवृन्दावनवल्लभा विजयते राधा सुधामञ्जरी ॥ ४४॥
कलाकुशलरङ्गिनी नटति यत्र राधा नटी
न यत्र मुरलीश्रुतिप्रियसखो भवेहागपि ।
यदीह तरुपक्षिणामनुभवोस्ति सङ्ग्राहक-
स्स्मरामि यमुनातटे रसिकवृन्दवृन्दावनम् ॥ ४५॥
प्रथममिलितभीताह्रायिता सा स्वराशौ
प्रियतमभुजराधाव्यग्रहस्तौ हसन्तौ ।
अनमनमतिलीलागद्गदोक्तेर्मदान्धौ
स्मरनिभृतनिकुञ्जौ राधिकाकृष्णचन्द्रौ ॥ ४६॥
हृतकनकसुगौरस्निग्धमेघौघनील-
च्छविभिरखिलवृन्दारण्यमार्गे व्रजन्तौ ।
मृदुलनवदुकूले नीलपीते दधानौ
स्मरनिभृतनिकुञ्जौ राधिकाकृष्णचन्द्रौ ॥ ४७॥
नवललितवपुष्कौ नव्यलावण्यपुञ्जौ
नवरसचलचित्तौ नूतनप्रेमवृत्तौ ।
नवनिधिवनलीलाकौतुकेनातिलोलौ
स्मरनिभृतनिकुञ्जौ राधिकाकृष्णचन्द्रौ ॥ ४८॥
निखिलनिगमगूढौ नित्यमत्यन्तगूढौ
प्रणतपरनिबद्धौ शृङ्खलाबद्धचेष्टौ ।
सुरतरतिमदान्धौ न्यस्तमिश्रौघकन्दौ
स्मरनिभृतनिकुञ्जौ राधिकाकृष्णचन्द्रौ ॥ ४९॥
जघनलुलितवेणूविस्फुरद्बर्हचूडौ
रुचिरकनकचूडाकङ्कणद्वन्द्वपाणी ।
विलसदरुणरोचिः पीतकौशेयरम्यौ
स्मरनिभृतनिकुञ्जौ राधिकाकृष्णचन्द्रौह ॥ ५०॥
गहनसुरतलीलापाशसंस्विन्नगात्रौ
दयितनिजसखीभिर्वेद्यमानौ पटान्ते ।
सुरतसुभुजवल्लीपीड्यमानौ च भूयः
स्मरनिभृतनिकुञ्जौ राधिकाकृष्णचन्द्रौ ॥ ५१॥
विलुलितवरवेणीहारनालावतंसौ
मृदुलमधुरहासोल्लासवक्त्रारविन्दौ ।
अतिरसमदनान्धौ चित्रकन्दर्पकेली-
स्मरनिभृतनिकुल्लौ राधिकाकृष्णचन्द्रौ ॥ ५२॥
इति श्रीराधाकृष्णप्रादुर्भावः सम्पूर्तिमगात् ॥
Proofread by Pallasena Narayanaswami ppnswami at gmail.com
From shrI sarasa stotrasangrahaH (Lucknow, 1909).