श्रीराधाकृष्णयुगलसहस्रनामावलिः

श्रीराधाकृष्णयुगलसहस्रनामावलिः

श्रीकृष्णनामावलिः १-५०० ॐ देवकीनन्दनाय नमः । शौरये । वासुदेवाय । बलानुजाय । गदाग्रजाय । कंसमोहाय । कंससेवकमोहनाय । भिन्नार्गलाय । भिन्नलोहाय । पितृवाह्याय । पितृस्तुताय । मातृस्तुताय । शिवध्येयाय । यमुनाजलभेदनाय । व्रजवासिने । व्रजानन्दिने । नन्दबालाय । दयानिधये । लीलाबालाय । पद्मनेत्राय नमः ॥ २० ॐ गोकुलोत्सवाय नमः । ईश्वराय । गोपिकानन्दनाय । कृष्णाय । गोपानन्दाय । सताङ्गतये । बकप्राणहराय । विष्णवे । बकमुक्तिप्रदाय । हरये । बलदोलाशयशयाय । श्यामलाय । सर्वसुन्दराय । पद्मनाभाय । हृषीकेशाय । क्रीडामनुजबालकाय । लीलाविध्वस्तशकटाय । वेदमन्त्राभिषेचिताय । यशोदानन्दनाय । कान्ताय नमः ॥ ४० ॐ मुनिकोटिनिषेविताय । नित्यं मधुवनावासिने । वैकुण्ठाय । सम्भवाय । क्रतवे । रमापतये । यदुपतये । मुरारये । मधुसूदनाय । माधवाय । मानहारिणे । श्रीपतये । भूधराय । प्रभवे । बृहद्वनमहालीलाय । नन्दसूनवे । महासनाय । तृणावर्तप्राणहारिणे । यशोदाविस्मयप्रदाय । त्रैलोक्यवक्त्राय नमः ॥ ६० ॐ पद्माक्षाय नमः । पद्महस्ताय । प्रियङ्कराय । ब्रह्मण्याय । धर्मगोप्त्रे । भूपतये । श्रीधराय । स्वराजे । अजाध्यक्षाय । शिवाध्यक्षाय । धर्माध्यक्षाय । महेश्वराय । वेदान्तवेद्याय । ब्रह्मस्थाय । प्रजापतये । अमोघदृशे । गोपीकरावलम्बिने । गोपबालकसुप्रियाय बलानुयायिने । बलवते नमः ॥ ८० ॐ श्रीदामप्रियाय नमः । आत्मवते । गोपीगृहाङ्गणरतये । भद्राय । सुश्लोकमङ्गलाय । नवनीतहराय । बलाय । नवनीतप्रियाशनाय । बालवृन्दिने । मर्कवृन्दिने । चकिताक्षाय । पलायिताय । यशोदातर्जिताय । कम्पिने । मायारुदितशोभनाय । दामोदराय । अप्रमेयात्मने । दयालवे । भक्तवत्सलाय । सुबद्धोलूखलाय नमः ॥ १०० ॐ नम्रशिरसे नमः । गोपीकदर्थिताय । वृक्षभङ्गिने । शोकभङ्गिने । धनदात्मजमोक्षणाय । देवर्षिवचनश्लाघिने । भक्तवात्सल्यसागराय । व्रजकोलाहलकराय । व्रजानन्दविवर्धनाय । गोपात्मने । प्रेरकाय । साक्षिणे । वृन्दावननिवासकृते । वत्सपालाय । वत्सपतये । गोपदारकमण्डनाय । बालक्रीडाय । बालरतये । बालकाय । कनकाङ्गदिने नमः ॥ १२० ॐ पीताम्बराय नमः । हेममालिने । मणिमुक्ताविभूषणाय । किङ्किणिने । कटकिने । सूत्रिणे । नूपुरिणे । मुद्रिकान्विताय । वत्सासुरपतिध्वंसिने । बकासुरविनाशनाय । अघासुरविनाशिने । विनिद्रीकृतबालकाय । आद्याय । आत्मप्रदाय । संज्ञिने । यमुनातीरभोजनाय । गोपालमण्डलीमध्याय । सर्वगोपालभूषणाय । कृतहस्ततलग्रासाय । व्यञ्जनाश्रितशाखिकाय नमः ॥ १४० ॐ कृतबाहुश‍ृङ्गयष्टये नमः । गुञ्जालङ्कृतकण्ठकाय । मयूरपिञ्च्छमुकुटाय । वनमालाविभूषिताय । गैरिकाचित्रितवपुषे । नवमेघवपुषे । स्मराय । कोटिकन्दर्पलावण्याय । लसन्मकरकुण्डलाय । आजानुबाहवे । भगवते । निद्रारहितलोचनाय । कोटिसागरगाम्भीर्याय । कालकालाय । सदाशिवाय । विरिञ्चिमोहनवपुषे । गोपवत्सवपुर्धराय । ब्रह्माण्डकोटिजनकाय । ब्रह्ममोहविनाशकाय । ब्रह्मणे नमः ॥ १६० ॐ ब्रह्मेडिताय नमः । स्वामिने । शक्रदर्पादिनाशनाय । गिरिपूजोपदेष्ट्रे । धृतगोवर्धनाचलाय । पुरन्दरेडिताय । पूज्याय । कामधेनुप्रपूजिताय । सर्वतीर्थाभिषिक्ताय । गोविन्दाय । गोपरक्षकाय । कालीयार्तिकराय । क्रूराय । नागपत्नीडिताय । विराजे । धेनुकारये । प्रलम्बारये । वृषासुरविमर्दनाय । मायासुरात्मजध्वंसिने । केशिकण्ठविदारकाय नमः ॥ १८० ॐ गोपगोप्त्रे नमः । धेनुगोप्त्रे । दावाग्निपरिशोषकाय । गोपकन्यावस्त्रहारिणे । गोपकन्यावरप्रदाय । यज्ञपत्न्यन्नभोजिने । मुनिमानापहारकाय । जलेशमानमथनाय । नन्दगोपालजीवनाय । गन्धर्वशापमोक्त्रे । शङ्खचूडशिरोहराय । वंशिने । वटिने । वेणुवादिने । गोपीचिन्तापहारकाय । सर्वगोप्त्रे । समाह्वानाय । सर्वगोपीमनोरथाय । व्यङ्गधर्मप्रवक्त्रे । गोपीमण्डलमोहनाय नमः ॥ २०० ॐ रासक्रीडारसास्वादिने नमः । रसिकाय । राधिकाधवाय । किशोरीप्राणनाथाय । वृषभानुसुताप्रियाय । सर्वगोपीजनानन्दिने । गोपीजनविमोहनाय । गोपिकागीतचरिताय । गोपीनर्तनलालसाय । गोपीस्कन्धाश्रितकराय । गोपिकाचुम्बनप्रियाय । गोपिकामार्जितमुखाय । गोपीव्यजनवीजिताय । गोपिकाकेशसंस्कारिणे । गोपिकापुष्पसंस्तराय । गोपिकाहृदयालम्बिने । गोपीवहनतत्पराय । गोपिकामदहारिणे । गोपिकापरिमार्जिताय । गोपिकाकृतसन्नी(ल्ली)लाय नमः ॥ २२० ॐ गोपिकासंस्मृतप्रियाय । गोपिकावन्दितपदाय । गोपिकावशवर्तनाय । राधापराजिताय । श्रीमते । निकुञ्जे सुविहारवते । कुञ्जप्रियाय । कुञ्जवासिने । वृन्दावनविकासनाय । यमुनाजलसिक्ताङ्गाय । यमुनासौख्यदायकाय । शशिसंस्तम्भनाय । शूराय । कामिने । कामविमोहनाय । कामाद्याय । कामनाथाय । काममानसभेदनाय । कामदाय । कामरूपाय नमः ॥ २४० ॐ कामिनीकामसञ्चयाय । नित्यक्रीडाय । महालीलाय । सर्वाय । सर्वगताय । परमात्मने । पराधीशाय । सर्वकारणकारणाय । गृहीतनारदवचसे । अक्रूरपरिचिन्तिताय । अक्रूरवन्दितपदाय । गोपिकातोषकारकाय । अक्रूरवाक्यसङ्ग्राहिणे । मथुरावासकारणाय । अक्रूरतापशमनाय । रजकायुःप्रणाशनाय । मथुरानन्ददायिने । कंसवस्त्रविलुण्ठनाय । कंसवस्त्रपरीधानाय । गोपवस्त्रप्रदायकाय नमः ॥ २६० ॐ सुदामागृहगामिने नमः । सुदामापरिपूजिताय । तन्तुवायक- सम्प्रीताय । कुब्जाचन्दनलेपनाय । कुब्जारूपप्रदाय । विज्ञाय । मुकुन्दाय । विष्टरश्रवसे । सर्वज्ञाय । मथुराऽऽलोकिने । सर्वलोकाभिनन्दनाय । कृपाकटाक्षदर्शिने । दैत्यारिणे । देवपालकाय । सर्वदुःखप्रशमनाय । धनुर्भङ्गिने । महोत्सवाय । कुवलयापीडहन्त्रे । दन्तस्कन्धबलाग्रण्ये । कल्परूपधराय नमः ॥ २८० ॐ धीराय नमः । दिव्यवस्त्रानुलेपनाय । मल्लरूपाय । महाकालाय । कामरूपिणे । बलान्विताय । कंसत्रासकराय । भीमाय । मुष्टिकान्ताय । कंसघ्ने । चाणूरघ्नाय । भयहराय । शलारये । तोशलान्तकाय । वैकुण्ठवासिने । कंसारये । सर्वदुष्टनिषूदनाय । देवदुन्दुभिनिर्घोषिणे । पितृशोकनिवारणाय । यादवेन्द्राय नमः ॥ ३०० ॐ सतां नाथाय नमः । यादवारिप्रमर्दनाय । शौरिशोकविनाशिने । देवकीतापनाशनाय । उग्रसेनपरित्रात्रे । उग्रसेनाभिपूजिताय । उग्रसेनाभिषेकिने । उग्रसेनदयापराय । सर्वसात्वतसाक्षिणे । यदूनां अभिनन्दनाय । सर्वमाथुरसंसेव्याय । करुणाय । भक्तबान्धवय । सर्वगोपालधनदाय । गोपीगोपालालसाय । शौरिदत्तोपवीतिने । उग्रसेनदयाकराय । गुरुभक्ताय । ब्रह्मचारिणे । निगमाध्ययने रताय नमः ॥ ३२० ॐ सङ्कर्षणसहाध्यायिने नमः । सुदामासुहृदे । विद्यानिधये । कलाकोशाय । मृतपुत्रप्रदाय । चक्रिणे । पाञ्चजनिने । सर्वनारकिमोचनाय । यमार्चिताय । पराय देवाय । नामोच्चारवशाय । अच्युताय । कुब्जाविलासिने । सुभगाय । दीनबन्धवे । अनूपमाय । अक्रूरगृहगोप्त्रे । प्रतिज्ञापालकाय । शुभाय । जरासन्धजयिने नमः ॥ ३४० ॐ विदुषे नमः । यवनान्ताय । द्विजाश्रयाय । मुचुकुन्दप्रियकराय । जरासन्धपलायिताय । द्वारकाजनकाय । गूढाय । ब्रह्मण्याय । सत्यसङ्गराय । लीलाधराय । प्रियकराय । विश्वकर्मयशःप्रदाय । रुक्मिणीप्रियसन्देशाय । रुक्मिशोकविवर्धनाय । चैद्यशोकालयाय । श्रेष्ठाय । दुष्टराजन्यनाशनाय । रुक्मिवैरूप्यकरणाय । रुक्मिणीवचने रताय । बलभद्रवचोग्राहिणे नमः ॥ ३६० ॐ मुक्तरुक्मिणे नमः । जनार्दनाय । रुक्मिणीप्राणनाथाय । स्वयंसत्यभामापतये । भक्तपक्षिणे । भक्तिवश्याय । अक्रूरमणीदायकाय । शतधन्वप्राणहारिणे । ऋक्षराजसुताप्रियाय । सत्राजित्तनयाकान्ताय । मित्रविन्दापहारकाय । सत्यापतये । लक्ष्मणाजिते । पूज्याय । भद्राप्रियङ्कराय । नरकासुरघातिने । लीलाकन्याहराय । जयिने । मुरारये । मदनेशाय नमः ॥ ३८० धरित्रीदुःखनाशनाय । वैनतेयिने । स्वर्गगामिने । अदित्यै कुण्डलप्रदाय । इन्द्रार्चिताय । रमाकान्ताय । वज्रिभार्याप्रपूजिताय । पारिजातापहारिणे । शक्रमानापहारकाय । प्रद्युम्नजनकाय । साम्बताताय । बहुसुताय । विधवे । गर्गाचार्याय । सत्यगतये । धर्माधाराय । धराधराय । द्वारकामण्डनाय । श्लोक्याय । सुश्लोकाय नमः ॥ ४०० ॐ निगमालयाय । पौन्ड्रकप्राणहारिणे । काशीराजशिरोहरये । अवैष्णवप्रदाहिने । सुदक्षिणभयावहाय । जरासन्धविदारिणे । धर्मनन्दनयज्ञकृते । शिशुपालशिरश्छेदिने । दन्तवक्त्रविनाशनाय । विदूरथान्तकाय । श्रीशाय । श्रीदाय । द्विविदनाशनाय । रुक्मिणीमानहारिणे । रुक्मिणीमानवर्धनाय । देवर्षिशापहर्त्रे । द्रौपदीवाक्यपालकाय । दुर्वासभयहारिणे । पाञ्चालीस्मरणागताय । पार्थदूताय नमः ॥ ४२० ॐ पार्थमन्त्रिणे नमः । पार्थदुःखौघनाशनाय । पार्थमानापहारिणे । पार्थजीवनदायकाय । पाञ्चालीवस्त्रदात्रे । विश्वपालकपालकाय । श्वेताश्वसारथये । सत्याय । सत्यसाध्याय । भयापहाय । सत्यसन्धाय । सत्यरतये । सत्यप्रियाय । उदारधिये । महासेनजयिने । शिवसैन्यविनाशानाय । बाणासुरभुजच्छेत्रे । बाणबाहुवरप्रदाय । तार्क्ष्यमानापहारिणे । तार्क्ष्यतेजोविवर्धनाय नमः ॥ ४४० ॐ रामस्वरूपधारिणे नमः । सत्यभामामुदावहाय । रत्नाकरजलक्रीडाय । व्रजलीलाप्रदर्शकाय । स्वप्रतिज्ञापरध्वंसिने । भीष्माज्ञापरिपालकाय । वीरायुधहराय । कालाय । कालिकेशाय । महाबलाय । वर्वरीषशिरोहारिणे । वर्वरीषशिरःप्रदाय । धर्मपुत्रजयिने । शूरदुर्योधनमदान्तकाय । गोपिकाप्रीतिनिर्बन्धनित्यक्रीडाय । व्रजेश्वराय । राधाकुण्डरतये । धन्याय । सदान्दोलसमाश्रिताय । सदामधुवनानन्दिने नमः ॥ ४६० ॐ सदावृन्दावनप्रियाय । अशोकवनसन्नद्धाय । सदातिलकसङ्गताय । सदागोवर्धनरतये । सदागोकुलवल्लभाय । भाण्डीरवटसंवासिने । नित्यं वंशीवरस्थिताय । नन्दिग्रामकृतावासाय । वृषभानुग्रहप्रियाय । गृहीतकामिनीय । नित्यं रासविलासकृते । वल्ल्बीजनसङ्गोप्त्रे । वल्लवीजनवल्लभाय । देवशर्मकृपाकर्त्रे । कल्पपादपसंस्थिताय । शिलानुगन्धनिलयाया पादचारिणे । घनच्छवये । अतसीकुसुमप्रख्याय । सदालक्ष्मीकृपाकराय नमः ॥ ४८० ॐ त्रिपुरारिप्रियकराय नमः । उग्रधन्वने । अपराजिताय । षड्धुरध्वंसकर्त्रे । निकुम्भप्राणहारकाय । वज्रनाभपुरध्वंसिने । पौण्ड्रकप्राणहारकाय । बहुलाश्वप्रीतिकर्त्रे । द्विजवर्यप्रियङ्कराय । शिवसङ्कटहारिणे । वृकासुरविनाशनाय । भृगुसत्कारकारिणे । शिवसात्विकताप्रदाय । गोकर्णपूजकाय । साम्बकुष्ठविध्वंसकारणाय । वेदस्तुताय । वेदवेत्त्रे । यदुवंशविवर्धनाय । यदुवंशविनाशिने । उद्धवोद्धारकारकाय नमः ॥ ५०० श्रीराधानामावलिः ५०१-१००० ॐ राधायै नमः । राधिकायै । आनन्दायै । वृषभानुजायै । वृन्दावनेश्वर्यै । पुण्यायै । कृष्णमानसहारिण्यै । प्रगल्भायै । चतुर्यै । कामायै । कामिन्यै । हरिमोहिन्यै । ललितायै । मधुरायै । माध्व्यै । किशोर्यै । कनकप्रभायै । जितचन्द्रायै । जितमृगायै । जितसिंहायै नमः ॥ ५२० ॐ जितद्विपायै नमः । जितरम्भायै । जितपिकायै । गोविन्दहृदयोद्भवायै । जितबिम्बायै । जितशुकायै । जितपद्मायै । कुमारिकायै । श्रीकृष्णाकर्षणायै । देव्यै । नित्यं युग्मस्वरूपिण्यै । नित्यं विहारिण्यै । कान्तायै । रसिकायै । कृष्णवल्लभायै । आमोदिन्यै । मोदवत्यै । नन्दनन्दनभूषितायै । दिव्याम्बरायै । दिव्यहारायै नमः ॥ ५४० ॐ मुक्तामणिविभूषितायै नमः । कुञ्जप्रियायै । कुञ्जवासायै । कुञ्जनायकनायिकायै । चारुरूपायै । चारुवक्त्रायै । चारुहेमाङ्गदायै । शुभायै । श्रीकृष्णवेणुसङ्गीतायै । मुरलीहारिण्यै । शिवायै । भद्रायै । भगवत्यै । शान्तायै । कुमुदायै । सुन्दर्यै । प्रियायै । कृष्णक्रिडायै । कृष्णरत्यै । श्रीकृष्णसहचारिण्यै नमः ॥ ५६० ॐ वंशीवटप्रियस्थानायै । युग्मायुग्मस्वरूपिण्यै । भाण्डीरवासिन्यै । शुभ्रायै । गोपीनाथप्रियासख्यै । श्रुतिनिःश्वसितायै । दिव्यायै । गोविन्दरसदायिन्यै । श्रीकृष्णप्रार्थन्यै । ईशानायै । महानन्दप्रदायिन्यै । वैकुण्ठजनसंसेव्यायै । कोटिलक्ष्मीसुखावहायै । कोटिकन्दर्पलावण्यायै । रतिकोटिरतिप्रदायै । भक्तिग्राह्यायै । भक्तिरूपायै । लावण्यसरस्यै । उमायै । ब्रह्मरुद्रादिसंराध्यायै नमः ॥ ५८० ॐ नित्यं कौतूहलान्वितायै नमः । नित्यलीलायै । नित्यकामायै । नित्यश‍ृङ्गारभूषितायै । नित्यवृन्दावनरसायै । नन्दनन्दनसंयुतायै । गोपिकामण्डलीयुक्तायै । नित्यं गोपालसङ्गतायै । गोरसक्षेपिण्यै । शूरायै । सानन्दायै । आनन्ददायिन्यै । महालीलायै । प्रकृष्टायै । नागर्यै । नगचारिण्यै । नित्यमाघूर्णितायै । पूर्णायै । कस्तूरीतिलकान्वितायै । पद्मायै नमः ॥ ६०० ॐ श्यामायै नमः । मृगाक्ष्यै । सिद्धिरूपायै । रसावहायै । कोटिचन्द्राननायै । गौर्यै । कोटिकोकिलसुस्वरायै । शीलसौन्दर्यनिलयायै । नन्दनन्दनलालितायै । अशोकवनसंवासायै । भाण्डीरवनसङ्गतायै । कल्पद्रुमतलाविष्टायै । कृष्णायै । विश्वायै । हरिप्रियायै । अजागम्यायै । भवागम्यायै । गोवर्धनकृतालयायै । यमुनातीरनिलयायै । शश्वद्गोविन्दजल्पिन्यै नमः ॥ ६२० ॐ शश्वन्मानवत्यै नमः । स्निग्धायै । श्रीकृष्णपरिवन्दितायै । कृष्णस्तुतायै । कृष्णवृतायै । श्रीकृष्णहृदयालयायै । देवद्रुमफलायै । सेव्यायै । वृन्दावनरसालयायै । कोटितीर्थमय्यै । सत्यायै । कोटितीर्थफलप्रदायै । कोटियोगसुदुष्प्राप्यायै । कोटियज्ञदुराश्रयायै । मानसायै । शशिलेखायै । श्रीकोटिसुभगायै । अनघायै । कोटिमुक्तसुखायै । सौम्यायै नमः ॥ ६४० ॐ लक्ष्मीकोटिविलासिन्यै । तिलोत्तमायै । त्रिकालस्थायै । त्रिकालज्ञायै । अधीश्वर्यै । त्रिवेदज्ञायै । त्रिलोकज्ञायै । तुरीयान्तनिवासिन्यै । दुर्गाराध्यायै । रमाराध्यायै । विश्वाराध्यायै । चिदात्मिकायै । देवाराध्यायै । पराराध्यायै । ब्रह्माराध्यायै । परात्मिकायै । शिवाराध्यायै । प्रेमसाध्यायै । भक्ताराध्यायै । रसात्मिकायै नमः ॥ ६६० ॐ कृष्णप्राणार्पिण्यै नमः । भामायै । शुद्धप्रेमविलासिन्यै । कृष्णाराध्यायै । भक्तिसाध्यायै । भक्तवृन्दनिषेवितायै । विश्वाधारायै । कृपाधारायै । जीवाधारायै । अतिनायिकायै । शुद्धप्रेममय्यै । लज्जायै । नित्यसिद्ध्यै । शिरोमणये । दिव्यरूपायै । दिव्यभोगायै । दिव्यवेषायै । मुदान्वितायै । दिव्याङ्गनावृन्दसारायै । नित्यनूतनयौवनायै नमः ॥ ६८० ॐ परब्रह्मावृतायै नमः । ध्येयायै । महारूपायै । महोज्ज्वलायै । कोटिसूर्यप्रभायै । कोटिचन्द्रबिम्बाधिकच्छवये । कोमलायै । अमृतवागाद्यायै । वेदाद्यायै । वेददुर्लभायै । कृष्णासक्तायै । कृष्णभक्तायै । चन्द्रावलिनिषेवितायै । कलाषोडशसम्पूर्णायै । कृष्णदेहार्धधारिण्यै । कृष्णबुद्धये । कृष्णसारायै । कृष्णरूपविहारिण्यै । कृष्णकान्तायै । कृष्णधनायै नमः ॥ ७०० ॐ कृष्णमोहनकारिण्यै नमः । कृष्णदृष्टये । कृष्णगोप्त्र्यै । कृष्णदेव्यै । कुलोद्वहायै । सर्वभूतस्थितात्मने । सर्वलोकनमस्कृतायै । कृष्णदात्र्यै । प्रेमधात्र्यै । स्वर्णगात्र्यै । मनोरमायै । नगधात्र्यै । यशोदात्र्यै । महादेव्यै । शुभङ्कर्यै । श्रीशेषदेवजनन्यै । अवतारगणप्रसुवे । उत्पलाङ्कायै । अरविन्दाङ्कायै । प्रसादाङ्कायै नमः ॥ ७२० ॐ अद्वितीयकायै नमः । रथाङ्कायै । कुञ्जाराङ्कायै । कुण्डलाङ्कायै । पदस्थितायै । छत्राङ्कायै । विद्युदङ्कायै । पुष्पमालाङ्कितायै । दण्डाङ्कायै । मुकुटाङ्कायै । पूर्णचन्द्रायै । शुकाङ्कितायै । कृष्णान्नाहारपाकायै । वृन्दाकुञ्जविहारिण्यै । कृष्णप्रबोधनकर्यै । कृष्णशेषान्नभोजिन्यै । पद्मकेसरमध्यस्थायै । सङ्गीतागमवेदिन्यै । कोटिकल्पान्तभ्रूभङ्गायै । अप्राप्तप्रलयाच्युतायै नमः ॥ ७४० ॐ सर्वसत्वनिधये । पद्मशङ्खादिनिधिसेवितायै । अणिमादिगुणैश्वर्यायै । देवृवृन्दविमोहिन्यै । सर्वानन्दप्रदायै । सर्वायै । सुवर्णलतिकाकृतये । कृष्णाभिसारसङ्केतायै । मालिन्यै । नृत्यपण्डितायै । गोपीसिन्धुसकाशाह्वायै । गोपमण्डलशोभिन्यै । श्रीकृष्णप्रीतिदायै । अभीतायै । प्रत्यङ्गपुलकाञ्चितायै । श्रीकृष्णालिङ्गनरतायै । गोविन्दविरहाक्षमायै । अनन्तगुणसम्पन्नायै । कृष्णकीर्तनलालसायै । बीजत्रयमय्यै मूर्त्यै नमः ॥ ७६० ॐ कृष्णानुग्रहवाञ्छितायै नमः । विमलादिनिषेव्यायै । ललिताद्यर्चितायै सत्यै । पद्मवृन्दस्थितायै हृष्टायै । त्रिपुरापरिसेवितायै । वृन्दावत्यर्चितायै । श्रद्धायै । दुर्ज्ञेयायै । भक्तवल्लभायै । दुर्लभायै । सान्द्रसौख्यात्मने । श्रेयोहेतवे । सुभोगदायै । सारङ्गायै । शारदायै । बोधायै । सद्वृन्दावनचारिण्यै नमः । ब्रह्मानन्दायै । चिदानन्दायै ध्यानानन्दायै नमः ॥ ७८० ॐ अर्धमात्रिकायै नमः । गन्धर्वायै । सुरतज्ञायै । गोविन्दप्राणसङ्गमायै । कृष्णाङ्गभूषणायै । रत्नभूषणायै । स्वर्णभूषितायै । श्रीकृष्णहृदयावासमुक्ताकनकनालिकायै । सद्रत्नकङ्कणयुतायै । श्रीमन्नीलगिरिस्थितायै । स्वर्णनूपुरसम्पन्नायै । स्वर्णकिङ्किणिमण्डितायै । अशेषरासकुतुकायै । रम्भोरवे । तनुमध्यमायै । पराकृतये । परानन्दायै । परस्वर्गविहारिण्यै । प्रसूनकबरीचित्रायै । महासिन्दूरसुन्दर्यै नमः ॥ ८०० ॐ कैशोरवयसा बालायै । प्रमदाकुलशेखर्यै । कृष्णाधरसुधास्वादायै । श्यामप्रेमविनोदिन्यै । शिखिपिञ्छलसच्चूडायै । स्वर्णचम्पकभूषितायै । कुङ्कुमालक्तकस्तूरीमण्डितायै । अपराजितायै । हेमहारान्वितायै । पुष्पहाराढ्यायै । रसवत्यै । माधुर्यमधुरायै । अपराजितायै । हेमहारान्वितायै । पुष्पहाराढ्यायै । रसवत्यै । माधुर्यमधुरायै । पद्मायै । पद्महस्तायै । सुविश्रुतायै । भ्रूभङ्गाभङ्गकोदण्डकटाक्षशरसन्धिन्यै । शेषदेवशिरःस्थायै । नित्यस्थलविहारिण्यै । कारुण्यजलमध्यस्थायै । नित्यमत्तायै नमः ॥ ८२० ॐ अधिरोहिण्यै नमः । अष्टभाषावत्यै । अष्टनायिकायै । लक्षणान्वितायै । सुनीतिज्ञायै । श्रुतिज्ञायै । सर्वज्ञायै । दुःखहारिण्यै । रजोगुणेश्वर्यै । शरच्चन्द्रनिभाननायै । केतकीकुसुमाभासायै । सदासिन्धुवनस्थितायै । हेमपुष्पाधिककरायै । पञ्चशक्तिमयीहितायै । स्तनकुम्भ्यै । नराढ्यायै । क्षीणापुण्यायै । यशस्विन्यै । वैराजसूयजनन्यै । श्रीशायै नमः ॥ ८४० ॐ भुवनमोहिन्यै नमः । महाशोभायै । महामायायै । महाकान्त्यै । महास्मृत्यै । महामोहायै । महाविद्यायै । महाकीर्त्यै । महारत्यै । महाधैर्यायै । महावीर्यायै । महाशक्त्यै । महाद्युत्यै । महागौर्यै । महासम्पदे । महाभोगविलासिन्यै । समयायै । भक्तिदायै । अशोकायै । वात्सल्यरसदायिन्यै नमः ॥ ८६० ॐ सुहृद्भक्तिप्रदायै नमः । स्वच्छायै । माधुर्यरसवर्षिण्यै । भावभक्तिप्रदायै । शुद्धप्रेमभक्तिविधायिन्यै । गोपरामायै । अभिरामायै । क्रीडारामायै । परेश्वर्यै । नित्यरामायै । आत्मरामायै । कृष्णरामायै । रसेश्वर्यै । एकानेकजगद्व्याप्तायै । विश्वलीलायै । प्रकाशिन्यै । सरस्वतीशायै । दुर्गेशायै । जगदीशायै । जगद्विधये नमः ॥ ८८० ॐ विष्णुवंशनिवासायै । विष्णुवंशसमुद्भवायै । विष्णुवंशस्तुतायै । कर्त्र्यै । सदा विष्णुवंशावन्यै । आरामस्थायै । वनस्थायै । सूर्यपुत्र्यवगाहिन्यै । प्रीतिस्थायै । नित्ययन्त्रस्थायै । गोलोकस्थायै । विभूतिदायै । स्वानुभूतिस्थितायै । व्यक्तायै । सर्वलोकनिवासिन्यै । अमृतायै । अद्भुतायै । श्रीमन्नारायणसमीडितायै । अक्षरायै । कूटस्थायै नमः ॥ ९०० ॐ महापुरुषसम्भवायै नमः । औदार्यभावसाध्यायै । स्थूलसूक्ष्मायै । अतिरूपिण्यै । शिरीषपुष्पमृदुलायै । गाङ्गेयमुकुरप्रभायै । नीलोत्पलजिताक्ष्यै । सद्रत्नकबरान्वितायै । प्रेमपर्यङ्कनिलयायै । तेजोमण्डलमध्यगायै । कृष्णाङ्गगोपनायै । अभेदायै । लीलावरणनायिकायै । सुधासिन्धुसमुल्लासायै । अमृतास्यन्दविधायिन्यै । कृष्णचित्तायै । रासचित्तायै । प्रेमचित्तायै । हरिप्रियायै । अचिन्तनगुणग्रामायै नमः ॥ ९२० ॐ कृष्णलीलायै । मलापहायै । राससिन्धुशशाङ्कायै । रासमण्डलमण्डिन्यै । नतव्रतायै । सिंहरीच्छायै । सुमूर्तये । सुरवन्दितायै । गोपीचूडामणये । गोपीगणेड्यायै । विरजाधिकायै । गोपप्रेष्ठायै । गोपकन्यायै । गोपनार्यै । सुगोपिकायै । गोपधाम्ने । सुदामाम्बायै । गोपाल्यै । गोपमोहिन्यै । गोपभूषायै नमः ॥ ९४० ॐ कृष्णभूषायै नमः । श्रीवृन्दावनचन्द्रिकायै । वीणादिघोषनिरतायै । रासोत्सवविकासिन्यै । कृष्णचेष्टापरिज्ञातायै । कोटिकन्दर्पमोहिन्यै । श्रीकृष्णगुणगानाढ्यायै । देवसुन्दरिमोहिन्यै । कृष्णचन्द्रमनोज्ञायै । कृष्णदेवसहोदर्यै । कृष्णाभिलाषिण्यै । कृष्णप्रेमानुग्रहवाञ्छितायै । क्षेमायै । मधुरालापायै । भ्रुवोर्मायायै । सुभद्रिकायै । प्रकृत्यै । परमानन्दायै । नीपद्रुमतलस्थितायै । कृपाकटाक्षायै नमः ॥ ९६० ॐ बिम्बोष्ठ्यै नमः । रम्भायै । चारुनितम्बिन्यै । स्मरकेलिनिधानायै । गण्डताटङ्कमण्डितायै । हेमाद्रिकान्तिरुचिरायै । प्रेमाद्यायै । मदमन्थरायै । कृष्णचिन्तायै । प्रेमचिन्तायै । अतिचिन्तायै । कृष्णदायै । रासचिन्तायै । भावचिन्तायै । शुद्धचिन्तायै । महारसायै । कृष्णदृष्टित्रुटियुगायै । दृष्टिपक्ष्मविनिन्दिन्यै । कन्दर्पजनन्यै । मुख्यायै नमः ॥ ९८० ॐ वैकुण्ठगतिदायिन्यै नमः । रासभावायै । प्रियाश्लिष्टायै । प्रेष्ठायै । प्रथमनायिकायै । शुद्धायै । सुधादेहिन्यै । श्रीरामायै । रसमञ्जर्यै । सुप्रभावायै । शुभाचारायै । स्वर्णद्यै । नर्मदायै । अम्बिकायै । गोमत्यै । चन्द्रभागेड्यायै । सरयूताम्रपर्णिसुवे । निष्कलङ्कचरित्रायै । निर्गुणायै । निरञ्जनायै नमः ॥ १००० इति श्रीराधाकृष्णयुगलसहस्रनामावलिः समाप्ता । Proofread by PSA Easwaran
% Text title            : rAdhAkRRiShNayugalasahasranAmAvaliH
% File name             : rAdhAkRRiShNayugalasahasranAmAvaliH.itx
% itxtitle              : rAdhAkRiShNasahasranAmAvaliH rAdhAkRRiShNayugalasahasranAmAvaliH (nAradapurANAntargataM devakInandanAya shauraye)
% engtitle              : rAdhAkRRiShNayugalasahasranAmAvaliH
% Category              : devii, sahasranAmAvalI, rAdhA, krishna, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Vishnu Stuti Manjari Volume 1 p. 579, Naradapurana Purvardha adhyAya 82
% Indexextra            : (Scan VSM 1)
% Latest update         : September 14, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org