श्रीराधापञ्जरकवचम्
लघुपञ्जरकवचम्
ॐ अस्य श्रीराधा-पञ्जर-कवचस्य श्रीकृष्ण ऋषिः,
अनुष्टुप् छन्दः, श्रीरासेश्वरी देवता, क्लीं बीजम्, ह्रीं शक्तिः,
श्रीं कीलकम्, मम सर्वाभीष्टसिद्ध्यर्थे विनियोगः ॥
ॐ ह्रीं श्रीं क्लीं पातु शिरो मे रां रासेश्वरी सदा ।
ॐ रूं राधिका पातु ललाटं र्हीं च कृष्णप्रिया सदा ॥ १॥
ॐ कं कृष्णप्राणप्रिया च पातु नेत्रे मम सदा ।
ॐ गं गोपीजनप्रिया च पातु नासां सुराधिपा ॥ २॥
ॐ पं पातु च मुखं राधा यं पातु दन्तपङ्क्तिकम् ।
ॐ सूं पातु मे रसनं राधा वं पातु कण्ठ-पञ्जरम् ॥ ३॥
ॐ र्णं स्कन्धौ पातु रासेशी कां बाहू पातु सर्वदा ।
ॐ सुं सुन्दरी च हस्तौ मे न्दं वक्षः पातु राधिका ॥ ४॥
ॐ र्हीं हृदयं मे सदा पातु श्रीं कुक्षिं पातु योगिनी ।
ॐ गों पाटीं पातु च मे क्लीं कटिं पातु महेश्वरी ॥ ५॥
ॐ पीं पातु मे जघनं च जं पातु जानु-युग्म-कम् ।
ॐ नैः पातु च पादौ मे पं पातु सर्व-सन्धि-कम् ॥ ६॥
ॐ रिं पातु रोमकूपेषु वृं पातु च नखानि मे ।
ॐ तां पातु मे वाम-भागं रां पातु दक्षिणं सदा ॥ ७॥
ॐ धिं पातु मण्डलं सर्वं कां पातु च दिगन्तरम् ।
ॐ तां पातु च स्थितां गात्रां नं पातु देह-बन्धनम् ॥ ८॥
ॐ मां पातु च मनो मे च म्यं पातु बुद्धिमन्तरा ।
ॐ हं पातु सर्व-कालस्य ं पातु नित्य-मञ्जरी ॥ ९॥
इति श्रीराधापञ्जरकवचम् अथवा लघुपञ्जरकवचं सम्पूर्णम् ।
Encoded and proofread by Durga Sharma