राधापरीहारस्तोत्रम्
कृष्णवक्षसि या राधा सर्वसौभाग्यसंयुता ।
रासे रासेश्वरीरूपा वृन्दा वृन्दावने वने ॥ ४७॥
कृष्णप्रिया च गोलोके तुलसीकानने तु या ।
चम्पावती कृष्णसङ्गे क्रीडा चम्पककानने ॥ ४८॥
चन्द्रावली चन्द्रवने शतशृङ्गे सतीति च ।
विरजा दर्पहन्त्री च विरजातटकानने ॥ ४९॥
पद्मावती पद्मवने कृष्णा कृष्णसरोवरे ।
भद्रा कुञ्जकुटीरे च काम्या वै कम्यके वने ॥ ५०॥
वैकुण्ठे च महालक्ष्मीर्वाणी नारायणोरसि ।
क्षीरोदे सिन्धुकन्या च मर्त्ये लक्ष्मीर्हरिप्रिया ॥ ५१॥
सर्वस्वर्गे स्वर्गलक्ष्मीर्देवदुःखविनाशिनी ।
सनातनी विष्णुमाया दुर्गा शङ्करवक्षसि ॥ ५२॥
सावित्री वेदमाता च कलया ब्रह्मवक्षसि ।
कलया धर्मपत्नी त्वं नरनारायणप्रभोः ॥ ५३॥
कलया तुलसी त्वं च गङ्गा भुवनपावनी ।
लोमकूपोद्भवा गोप्यः कलांशा रोहिणी रतिः ॥ ५४॥
कला कलांशरूपा च शतरूपा शची दितिः ।
अदितिर्देवमाता च त्वत्कलांशा हरिप्रिया ॥ ५५॥
देव्यश्च मुनिपत्न्यश्च त्वत्कलाकलया शुभे ।
कृष्णभक्तिं कृष्णदास्यं देहि मे कृष्णपूजिते ॥ ५६॥
एवं कृत्वा परीहारं स्तुत्वा च कवचं पठेत् ।
पुरा कृतं स्तोत्रमेतद्भक्तिदास्यप्रदं शुभम् ॥ ५७॥
एवं नित्यं पूजयेद्यो विष्णुतुल्यः स भारते ।
जीवन्मुक्तश्च पूतश्च गोलोकं याति निश्चितम् ॥ ५८॥
कार्त्तिकीपूर्णिमायां च राधां यः पूजयेच्छिवे ।
एवं क्रमेण प्रत्यब्दं राजसूयफलं लभेत् ॥ ५९॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे
पञ्चपञ्चाशत्तमाध्यायान्तर्गतं राधापरीहारस्तोत्रं
समाप्तम् ।
ब्रह्मवैवर्तपुराण । प्रकृतिखण्ड । अध्याय ५५/४७-५९॥
brahmavaivartapurANa . prakRRitikhaNDa . adhyAya 55/47-59..
Proofread by PSA Easwaran