श्रीराधासायुज्यदायिनीकवचम्

श्रीराधासायुज्यदायिनीकवचम्

ॐ अस्य श्रीराधासायुज्यदायिनी-कवचस्य ईश्वर ऋषिरहम्, गायत्री छन्दः, श्रीराधिका भुवनेश्वरी देवता, ब्रह्मप्राप्तौ विनियोगः ॥ ईश्वर उवाच । श‍ृणु वत्स प्रवक्ष्यामि कवचं सर्व-सिद्धिदम् । गोपनीयं प्रयत्नेन न प्रकाश्यं दुरात्मना ॥ १॥ एकाक्षरी पातु शीर्षं ललाटं भुवनेश्वरी । शिरोदेशं महामाया भ्रूमध्ये च महेश्वरी ॥ २॥ नेत्रद्वयं राधिका मे श्रुती पातु वृषात्मजा । कपोलौ पातु रासेशी नासां पातु सुवर्णका ॥ ३॥ ओष्ठौ पातु कृष्णप्रिया दन्तान् पातु सुभाषिणी । जिह्वां पातु रसज्ञा च मुखं पातु मनोहरा ॥ ४॥ कण्ठं पातु विशालाक्षी कण्ठ-मूलं सुगन्धिनी । स्कन्धौ पातु महाशक्तिः बाहु-मूलं सुवर्णिनी ॥ ५॥ हस्तौ पातु सुन्दरी च अङ्गुलीषु च ईश्वरी । हृदयं पातु गोपीशा वक्षःस्थल-निवासिनी ॥ ६॥ पार्श्वौ पातु महाभागा जठरं च यशस्विनी । नाभिं पातु राधिका च कटि-देशं विलासिनी ॥ ७॥ उरू पातु रसज्ञा च जानु-द्वयं सुशोभनी । जङ्घे पातु च गोपीका गुल्फ-युग्मं सुमध्यमा ॥ ८॥ पादौ पातु च सर्वाङ्गी पादाङ्गुलीषु पावनी । नखानि पातु रासेशी रोम-कूपेषु योगिनी ॥ ९॥ अधस्तात् पातु मे राधा ऊर्ध्वं पातु परात्परा । दिक्षु पातु महाविद्या विदिङ्क्षु च महाप्रिया ॥ १०॥ पूर्वे पातु महालक्ष्मीः दक्षिणे च सुलोचना । पश्चिमे पातु रासेशी उत्तरे च वरप्रदा ॥ ११॥ अग्न्यायां पातु सानन्दा नैरृत्यां च सुमेधसा । वायव्यां पातु गोपीका ईशान्यां सर्वदा स्थिरा ॥ १२॥ रात्रौ पातु च सा देवी दिवसे पातु सा पुनः । स्वप्ने पातु च सा नित्यं जागरे पातु सत्वरा ॥ १३॥ गच्छन् पातु स्थितां पातु शयानां च विशेषतः । अरण्ये पातु मे राधा सङ्कटे पातु सुन्दरी ॥ १४॥ सागरे पातु मे राधा पर्वते पातु सर्वदा । शून्ये पातु महामाया सङ्ग्रामे पातु ईश्वरी ॥ १५॥ ब्रह्मप्राप्ति-विधौ पातु योगिनी-वृन्द-वन्दिता । सायुज्यं च प्रदास्यन्ति मदीया सा परात्परा ॥ १६॥ एतत्कवचमज्ञात्वा यो जपेत राधिकां प्रिये । तस्य सिद्धिर्न भवति कल्पकोटिशतैरपि ॥ १७॥ सहस्रकोटि-जप्तेन कवचेन च मन्त्रिणा । वाञ्छितं लभते सर्वं नात्र कार्या विचारणा ॥ १८॥ अष्टसिद्धिप्रदं दिव्यं महाकवचमद्भुतम् । अकाल-मृत्यु-नाशाय व्याधि-व्याल-विनाशनम् ॥ १९॥ ग्रह-पीडा-प्रशमनं दुःस्वप्न-भय-नाशनम् । अग्नि-चौर-भयं न स्यात् शस्त्रास्त्रेभ्यो न कस्यचित् ॥ २०॥ राजद्वारे सभे चैव युद्धे जयमवाप्नुयात् । स्त्रीणां सौभाग्यदं चैव पुंसां राज्य-विवर्धनम् ॥ २१॥ विद्यार्थी लभते विद्यां धनी लभते च धनम् । पुत्रार्थी लभते पुत्रं यशस्विनं कुलोद्भवम् ॥ २२॥ यः पठेत् प्रातरुत्थाय शुचिर्भूत्वा समाहितः । तस्य गृहे सदा लक्ष्मीः स्थिरा वसति निश्चितम् ॥ २३॥ यत्र यत्र भवेद्वासास्तत्र तत्र जयाऽऽदिशः । पिशाच-भूत-वेतालाः पलायन्ते भयान्विताः ॥ २४॥ मन्त्र-सिद्धिर्महा-सिद्धिः सायुज्यं परमो गतिः । तदन्ते कृष्ण-सारूप्यं लभते राधिका-कृपात् ॥ २५॥ न हि योगेन दानेन न तपस्या-शतैरपि । लभ्यते यत्फलं नित्यं कवचेन च तत्क्षणात् ॥ २६॥ इदं रहस्यं परमं त्रिषु लोकेषु दुर्लभम् । स्व-पुत्राय च शिष्याय परमानन्द-दायिने ॥ २७॥ दद्यात् सायुज्य-सिद्ध्यर्थं विना पात्रं न दापयेत् । गोपयेत् कवचं नित्यं यथा स्व-हृदय-प्रियम् ॥ २८॥ इति गुह्यतमं दिव्यं कवचं समुदाहृतम् । राधा-सायुज्य-दं पुंसां नात्र संशय-लेशकः ॥ २९॥ इति श्रीराधासायुज्यदायिनीकवचं सम्पूर्णम् । Encoded and proofread by Durga Sharma
% Text title            : Radha Sayujyadayini Kavacham
% File name             : rAdhAsAyujyadAyinIkavacham.itx
% itxtitle              : rAdhAsAyujyadAyinIkavacham
% engtitle              : rAdhAsAyujyadAyinIkavacham
% Category              : devii, devI, kavacha, rAdhA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : rAdhA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Durga Sharma
% Proofread by          : Durga Sharma
% Latest update         : June 17, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org