श्रीराधासम्मोहनकवचम्
ॐ अस्य श्रीराधा-सम्मोहनकवचस्य श्रीकृष्ण ऋषिः,
अनुष्टुप् छन्दः, श्रीरासेश्वरी देवता, सर्वजन-मोहनार्थे
मम सर्व-वशीकरण-सिद्ध्यर्थे विनियोगः ॥
ॐ रासेश्वरी मे शिरः पातु ललाटं कृष्णमोहिनी ।
नेत्रे पातु च राधिका श्रुती पातु सुलोचना ॥ १॥
नासिकां पातु सर्वाङ्गी मुखं पातु मनोहरा ।
कण्ठं पातु च सुन्दरी बाहू पातु च रासिका ॥ २॥
हस्तौ पातु जगन्माता हृदयं पातु राधिका ।
कुक्षिं पातु महामाया कटिं पातु विलासिनी ॥ ३॥
उरू पातु रति-प्रीतिस्वस्वरूपा महेश्वरी ।
जानु-पादो सदा पातु रासेश्वरी परात्परा ॥ ४॥
इदं लघुकवचं दिव्यं सर्व-सम्मोहनं शुभम् ।
यः पठेत् प्रातरुत्थाय स भवेत् सर्व-मोहिनी ॥ ५॥
न तस्य दुर्लभं किञ्चित् त्रैलोक्ये सचराचरे ।
यस्याश्च हृदये राधा तस्य वश्याः सुरासुराः ॥ ६॥
इति नीलतन्त्रे श्रीराधासम्मोहनकवचं सम्पूर्णम् ।
Encoded and proofread by Durga Sharma