उद्धवकृतं श्रीराधास्तोत्रम्
उद्धव उवाच ।
वन्दे राधापदाम्भोजं ब्रह्मादिसुरविन्दतम् ।
यत्कीर्तिः कीर्तनेनैव पुनाति भुवनत्रयम् ॥ ६४॥
नमो गोकुलवासिन्यै राधिकायै नमो नमः ।
शतशृङ्गनिवासिन्यै चन्द्रावत्यै नमो नमः ॥ ६५॥
तुलसीवनवासिन्य वृन्दारण्यै नमो नमः ।
रासमण्डलवासिन्यै रासेश्वर्यै नमो नमः ॥ ६६॥
विरजातीरवासिन्यै वृन्दायै च नमो नमः ।
वृन्दावनविलासिन्यै कृष्णायै च नमो नमः ॥ ६७॥
नमः कृष्णप्रियायै च शान्तायै च नमो नमः ।
कृष्णवक्षःस्थितायै च तत्प्रियायै नमो नमः ॥ ६८॥
नमो वैकुण्ठवासिन्यै महालक्ष्म्यै नमो नमः ।
विद्याधिष्ठातृदेव्यै च सरस्वत्यै नमो नमः ॥ ६९॥
सर्वैश्वर्याधिदेव्यै च कमलायै नमो नमः ।
पद्मनाभप्रियायै च पद्मायै च नमो नमः ॥ ७०॥
महाविष्णोश्च मात्रे च पराद्यायै नमो नमः ।
नमः सिन्धुसुतायै च मर्त्यलक्ष्मयै नमो नमः ॥ ७१॥
नारायणप्रियायै च नारायण्यै नमो नमः ।
नमोऽस्तु विष्णुमायायै वैष्णव्यै च नमो नमः ॥ ७२॥
महामायास्वरूपायै सम्पदायै नमो नमः ।
नमः कल्याणरूपिण्यै शुभायै च नमो नमः ॥ ७३॥
मात्रे चतुर्णां वेदानां सावित्र्यै च नमो नमः ।
नमोऽस्तु बुद्धिरूपायै ज्ञानदायै नमो नमः ॥ ७४॥
नमो दुर्गविनाशिन्यै दुर्गादेव्यै नमो नमः ।
तेजःसु सर्वदेवानां पुरा कृतयुगे मुदा ॥ ७५॥
अधिष्टानकृतायै च प्रकृत्यै च नमो नमः ।
नमस्त्रिपुरहारिण्यै त्रिपुरायै नमो नमः ॥ ७६॥
सुन्दरीषु च रम्यायै निर्गुणायै नमो नमः ।
नमो निद्रास्वरूपायै निर्गुणायै नमो नमः ॥ ७७॥
नमो दक्षसुतायै च नमः सत्यै नमो नमः ।
नमः शैलसुतायै च पार्वत्यै च नमो नमः ॥ ७८॥
नमो नमस्तपस्विन्यै ह्युमायै च नमो नमः ।
निराहारस्वरूपायै ह्यपर्णायै नमो नमः ॥ ७९॥
गौरीलौकविलासिन्यै नमो गौर्यै नमो नमः ।
नमः कैलासवासिन्यै माहेश्वर्यैः नमो नमः ॥ ८०॥
निद्रायै च दयायै च श्रद्धायै च नमो नमः ।
नमो धृत्यै क्षमार्यै च लज्जायै च नमो नमः ॥ ८१॥
तृष्णायै क्षुत्स्वरूपायै स्थितिकर्त्र्यै नमो नमः ।
नमः संहाररूपिण्यै महामार्यै नमो नमः ॥ ८२॥
भयायै चाभयायै च मुक्तिदायै नमो नमः ।
नमः स्वधायै स्वाहायै शान्त्यै कान्त्यै नमो नमः ॥ ८३॥
नमस्तुष्ट्यै च पुष्ट्यै च दयायै च नमो नमः ।
नमो निद्रास्वरूपायै श्रद्धायै च नमो नमः ॥ ८४॥
क्षुत्पिपासास्वरूपायै लज्जायै च नमो नमः ।
नमो धृत्यै क्षमायै च चेतनायै नमो नमः ॥ ८५॥
सर्वशक्तिस्वरूपिण्यै सर्वमात्रे नमो नमः ।
अग्नौ दाहस्वरूपायै भद्रायै च नमो नमः ॥ ८६॥
शोभायै पूर्णचन्द्रे च शरत्पद्मे नमो नमः ।
नास्ति भेदो यथा देवि दुग्धधावल्ययोःसदा ॥ ८७॥
यथैव गन्धभूम्योश्च यथैव जलशैत्ययौः ।
यथैव शब्दनभसोर्ज्योतिः सूर्यकयोर्यथा ॥ ८८॥
लोके वेदे पुराणे च राधामाधवयोस्तथा ।
चेतनं कुरु कल्याणि देहि मामुत्तरं सति ॥ ८९॥
इत्युक्त्वा चोद्धवस्तत्र प्रणनाम पुनः पुनः ।
इत्युद्धवकृतं स्तोत्रं यः पठेद्भक्तिपूर्वकम् ॥ ९०॥
इह लोके सुखं भुक्त्वा यात्यन्ते हरिमन्दिरम् ।
न भवेद्बन्धुविच्छेदो रोगः शोकः सुदारुणः ॥ ९१॥
प्रोषिता स्त्री लभेत्कान्तं भार्याभेदी लभेत्प्रियाम् ।
अपुत्रो लभते पुत्रान्निर्धनो लभते धनम् ॥ ९२॥
निर्भूमिर्लभते भूमिं प्रजाहीनो लभेत्प्रजाम् ।
रोगाद्विमुच्यते रोगी बद्धो मुच्येत बन्धनात् ॥ ९३॥
भयान्मुच्येत भीतस्तु मुच्येताऽऽपन्न आपदः ।
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः ॥ ९४॥
इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे उत्तरे
द्विनवतितमाध्यायान्तर्गतं उद्धवकृतं राधास्तोत्रं
समाप्तम् ।
ब्रह्मवैवर्तपुराण । श्रीकृष्णजन्म, उत्तरभाग । अध्याय ९२/६४-९४॥
brahmavaivartapurANa . shrIkRRiShNajanma, uttarabhAga . adhyAya 92/64-94..
Encoded and proofread by Daniel Mohanpersad, PSA Easwaran