श्रीराधिकाष्टकम्
रस-वलित-मृगाक्षी मौलिमाणिक्यलक्ष्मीः
प्रमुदितमुरवैरिप्रेमवापीमराली ।
व्रजवरवृषभानोः पुण्यगीर्वाणवल्ली
स्नपयतु निजदास्ये राधिका मां कदा नु ॥ १॥
स्फुरदरुणदुकूलद्योतितोद्यन्नितम्ब-
स्थलमभिवरकाञ्चीलास्यमुल्लासयन्ती ।
कुचकलशविलासस्फीतमुक्तासरःश्रीः
स्नपयतु निजदास्ये राधिका मां कदा नु ॥ २॥
सरसिजवरगर्भाखर्वकान्तः समुद्यत्-
तरुणिमघनसाराश्लिष्टकैशोरसीधुः ।
दरविकसितहास्यस्यन्दबिम्बाधराग्रा
स्नपयतु निजदास्ये राधिका मां कदा नु ॥ ३॥
अतिचटुलतरं तं काननान्तर्मिलन्तं
व्रजनृपतिकुमारं वीक्ष्य शङ्काकुलाक्षी ।
मधुरमधुवचोभिः संस्तुता नेत्रभङ्गया
स्नपयतु निजदास्ये राधिका मां कदा नु ॥ ४॥
व्रजकुलमहिलानां प्राणभूताऽखिलानां
पशुपपतिगृहिण्याः कृष्णवत्प्रेमपात्रम् ।
सुललितललितान्तः स्नेहफुल्लान्तरात्मा
स्नपयतु निजदास्ये राधिका मां कदा नु ॥ ५॥
निरवधि सविशाखा शाखियूथप्रसूनैः
स्रजमिह रजयन्ती वैजयन्तीं वनान्ते ।
अघविजयवरोरः प्रेयसी श्रेयसी सा
स्नपयतु निजदास्ये राधिका मां कदा नु ॥ ६॥
प्रकटितस्वनिवासं स्निग्धवेणुप्रणादैः
द्रुतगतिहरिमारात्प्राप्य कुञ्जे स्मिताक्षी ।
श्रवणकुहरकण्डूं तन्वती नम्रवक्त्रा
स्नपयतु निजदास्ये राधिका मां कदा नु ॥ ७॥
अमलकमलराजिस्पर्शवातप्रशीते
निजसरसि निदाघे सायमुल्लासिनीयम् ।
परिजनगणयुक्ता क्रीडयन्ती बकारिं
स्नपयतु निजदास्ये राधिका मां कदा नु ॥ ८॥
पठति विमलचेताः मिष्टराधाष्टकं यः
परिहृतनिखिलाशासन्ततिः कातरः सन् ।
पशुपपतिकुमारः कम्रमामोदितस्तं
निजजनगणमध्ये राधिकायास्तनोति ॥ ९॥
इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीराधिकाष्टकं सम्पूर्णम् ।
Proofread by PSA Easwaran