श्रीराधिकाष्टकम्
श्रीकृष्णदासकविराजविरचितम् ।
कुङ्कुमाक्तकाञ्चनाब्ज गर्वहारि गौरभा
पीतनाञ्चिताब्जगन्धकीर्तिनिन्दसौरभा ।
वल्लवेशसूनु सर्ववाञ्छितार्थसाधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ १॥
कौरविन्दकान्तनिन्दचित्रपत्रशाटिका
कृष्णमत्तभृङ्गकेलि फुल्लपुष्पवाटिका ।
कृष्णनित्यसङ्गमार्थपद्मबन्धुराधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ २॥
सौकुमार्यसृष्टपल्लवालिकीर्तिनिग्रहा
चन्द्रचन्दनोत्पलेन्दुसेव्यशीतविग्रहा ।
स्वाभिमर्शवल्लवीशकामतापबाधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ३॥
विश्ववन्द्ययौवताभिवन्दतापि या रमा
रूपनव्ययौवनादिसम्पदा न यत्समा ।
शीलहार्दलीलया च सा यतोऽस्ति नाधिका
मह्यमात्मपादपद्मदास्यदास्तु राधिका ॥ ४॥
रासलास्यगीतनर्मसत्कलालिपण्डिता
प्रेमरम्यरूपवेशसद्गुणालिमण्डिता ।
विश्वनव्यगोपयोषिदालितोऽपि याऽधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ५॥
नित्यनव्यरूपकेलिकृष्णभावसम्पदा
कृष्णरागबन्धगोपयौवतेषु कम्पदा ।
कृष्णरूपवेशकेलिलग्नसत्समाधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ६॥
स्वेदकम्पकण्टकाश्रुगद्गदादिसञ्चिता
मर्षहर्षवामतादि भावभूषणाञ्चिता ।
कृष्णनेत्रतोषिरत्नमण्डनालिदाधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ७॥
या क्षणार्धकृष्णविप्रयोगसन्ततोदिता-
नेकदैन्यचापलादिभाववृन्दमोदिता ।
यत्नलब्धकृष्णसङ्गनिर्गताखिलाधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ८॥
अष्टकेन यस्त्वनेन नौति कृष्णवल्लभां
दर्शनेऽपि शैलजादियोषिदालिदुर्लभाम् ।
कृष्णसङ्गनन्दतात्मदास्यसीधुभाजनं
तं करोति नन्दतालिसञ्चयाशु सा जनम् ॥ ९॥
इति श्रीकृष्णदासकविराजविरचितं श्रीराधिकाष्टकं सम्पूर्णम् ।
Proofread by PSA Easwaran