श्रीराधिका त्रैलोक्यमङ्गलकवचम्
श्रीदेव्युवाच ।
देवदेव महादेव सृष्टिस्थित्यन्तकारक ।
राधिकाकवचं देव कथयस्व दयानिधे ॥ १॥
ईश्वरोवाच ।
शृणु देवि वरारोहे कवचं जनमोहनम् ।
गोपितं सर्वतन्त्रेषु इदानीं प्रकटीकृतम् ॥ २॥
या राधा त्रिपुरादूती उपविद्या सदा तु सा ।
उपविद्याक्रमाद्देवि कवचं शृणु पार्वति ॥ ३॥
जपपूजाविधानस्य फलं सर्वस्य सिद्धिदम् ।
यत्र तत्र न वक्तव्यं कवचं गोपितं महत् ॥ ४॥
भक्तिहीनाय देवेशि द्विजनिन्दापरायणम् ।
न शूद्रयाजिविप्राय वक्तव्यं परमेश्वरि ॥ ५॥
शिष्याय भक्तियुक्ताय शक्तिदीक्षापरायणम् ।
वक्तव्यं परमेशानि मम वाक्यं न चान्यथा ॥ ६॥
अथ श्रीराधिका त्रैलोक्यमङ्गल कवचं
विनियोगः -
ॐ अस्य श्रीराधात्रैलोक्यमङ्गलकवचस्य गोपिका ऋषिः,
अनुष्टुप्छन्दः, श्रीराधिका देवता, महाविद्या साधन गोप्यर्थे विनियोगः ॥
ॐ पूर्वे च पातु सा देवी रुक्मिणी शुभदायिनी ।
ह्रीं पश्चिमे पातु सत्या सर्वकामप्रपूरिणी ॥ ७॥
याम्यां ह्रीं जाम्बवती पातु सर्वकामफलप्रदा ।
उत्तरे पातु भद्रा ह्रीं भद्रशक्तिसमन्विता ॥ ८॥
ऊर्ध्वं पातु महादेवी क्लीं कृष्णप्रिया यशस्विनी ।
अधश्च पातु भो देवी ऐं पातालतलवासिनी ॥ ९॥
अधरे राधिका पातु ऐं पातु हृदयं मम ।
नमः पातु च सर्वाङ्गं ङेयुता च पुनः पुनः ॥ १०॥
सर्वत्र पातु मे देवी ईश्वरी भुवनेश्वरी ।
ऐं ह्रीं राधिकायै ह्रीं ऐं शिरः पातु माम् ॥ ११॥
क्लीं क्लीं राधिकायै क्लीं क्लीं दक्षबाहुं रक्षतु मम ।
ह्रीं ह्रीं राधिकायै ह्रीं ह्रीं वामाङ्गं रक्षतु पद्मिनी पद्मगन्धिनी ॥ १२॥
ॐ ह्रीं राधिकायै ऐं ऐं दक्षपादं रक्षतु नमः ।
क्लीं क्लीं ऐं ऐं राधिकायै ह्रीं ह्रीं ऐं ऐं क्लीं कलीं
ॐ सर्वाङ्गं मम रक्षतु ।
ह्रीं राधिकायै ह्रीं वामपादं रक्षतु सदा पद्मिनी ।
ह्रीं राधिकायै ह्रीं अक्षियुग्म रक्षतु मम ।
ऐं राधिकायै ऐं कर्णयुग्मं सदा रक्षतु मम ।
ॐ ह्रीं राधिकायै ह्रीं ॐ दन्तपङ्क्तिं सदा पातु सरस्वती ।
ह्रीं भुवनेश्वरी ललाटं पातु ह्रीं काली मे मुखमण्डलं सदापातु ।
ह्रीं ह्रीं ह्रीं महिषमर्दिन्यै ह्रीं ह्रीं महिषमर्दिनी
द्वारकावासिनी सहस्रारं रक्षतु सदा मम ।
ऐं ह्रीं ऐं मातङ्गी हृदयं सदा मम रक्षतु ।
ह्रीं ऐं ह्रीं उग्रतारा नाभिपद्म सदा रक्षतु मम ।
क्लीं ऐं क्लीं सुन्दरी क्लीं ऐं क्लीं स्वाधिष्ठानं लिङ्गमूलं रक्षतु मम ।
लं ऐं लं पृथिवी गुदमण्डलं रक्षतु मम ।
ऐं ऐं ऐं बगला ऐं ऐं ऐं स्तनद्वयं रक्षतु मम ।
हेसौः भैरवी हेसौः स्कन्धद्वयं रक्षतु मम ।
ह्रीं अन्नपूर्णा ह्रीं घाटां रक्षतु मम ।
ऐं ह्रीं ऐं बीजत्रयं सदा पातु पृष्ठदेशं मम ।
ॐ महादेवः पातु सर्वाङ्गं मे ॐ नारायणः पातु सर्वाङ्गं सदा मम ।
ॐ ॐ कृष्णः पातु सदा गात्रं रुक्मिणीनाथः ।
रुक्मिणी सत्यभामा च सैव्या जाम्बवती तथा ।
लक्ष्मीश्च मित्रविन्दा च भद्रा नाग्नजिता तथा ॥
एताः सर्वा युवतयः शोभनाश्वा सुलोचनाः ।
रक्षेयुर्मामस्तु दिक्षु सततं शुभदर्शनाः ॥
ॐ नारायणश्च गोविन्दः शिवः पद्मदलेक्षणः ।
सर्वाङ्गे मे सदा रक्षेत् केशवः केशिहा हरिः ॥
पद्मिन्याः परमेशानि उपविद्यासु सङ्गतम् ॥
यः पठेत् पाठयेद्वापि सततं भक्तितत्परः ।
निराहरो जलत्यागी अयुतं वत्सरे यदा ॥
तदैव परमेशानि पद्मिनी वशतामियात् ।
एतत्ते कथितं देवि कवचं भुवि दुर्लभम् ॥
फलमूलजलं त्यक्त्वा पठेत् संवत्सरं यदि ।
पद्मिनी वशमायाति तदैव नगनन्दिनि ॥
अनेनैव विधानेन यः पठेत् कवचं परम् ।
विष्णुलोकमवाप्नोति नान्यथा वचनं मम ॥
सङ्गोप्य पूजयेद्विद्या महाविद्या वरानने ।
प्रकटार्थमिदं देवि कवचं प्रपठेत् सदा ॥
महाविद्यां विना भद्रे यः पठेत् कवचं प्रिये ।
तदैव सहसा भद्रे कुम्भीपाके व्रजेत् प्रिये ॥
॥ इति वासुदेवरहस्ये राधातन्त्रे एकत्रिंशत्पटले
श्रीराधिकात्रैलोक्यमङ्गलकवचम् ॥
Note :-
In this Kavach Stotra, Radha has been described as the Yogini or duti of Tripurasundari, hence she is not a Mahavidya but is a sub-mahavidya according to Radha Tantra, Different from the Radha Sadakshari Mahavidya of Narad Pancharatra. Padmini Radha who is a Upavidya is different from Radha Mahavidya who is described in NilTantra, Sammohak tantra, meru tantra, Krishnyamal, and Narad pancharatra.
Encoded and Proofread by Durga Sharma