राधिके! राधय त्वं मुदा माधवम्
राधिके! राधय त्वं मुदा माधवम् ॥
यं विना गोकुलं नैव संशोभते ।
यं विना गोधनं नैव संवर्द्धते ।
यं विना नैव वृन्दावनं राजते ।
यं विना नैव गोवर्धनं भ्राजते ।
राधिके! राधय त्वं तु तं माधवम् ॥
यामुनं जीवनं नैव मोदायते ।
नैव नैपं सुमं तत्तटे शालते ।
नर्तनं बर्हिणां न प्रमोदायते ।
कूजनं कोकिलानां च वैरायते ।
यं विना जीवनं चापि शून्यायते ।
राधिके! राधय त्वं हि तं माधवम् ॥
ऐन्दवं रश्मिजालं तु ज्वालायते ।
शीतलं चन्दनं किञ्च व्यालायते ।
स्वल्पकालस्त्रुटेरेव कल्पायते ।
वस्तुजातं हितं विपरीतायते ।
यं विना स्पन्दनं नैव संभाव्यते ।
राधिके! राधय त्वं निजं माधवम् ॥
यं हि भक्ता भजन्ते गतिप्राप्तये ।
यत्र युक्ता रमन्ते चिरं शान्तये ।
यत्र वामा अवामा रमन्ते मुदा ।
राधिके राधय त्वं तु तं माधवम् ।
राधिके! राधय त्वं मुदा माधवम् ॥
-- आचार्य डाॅ जयमन्त मिश्र
Encoded and proofread by samskrit.samvadah at gmail.com