राज्ञीकवचम्
ॐ श्रीभैरव उवाच -
शृणु देवि प्रवक्ष्यामि राज्ञीकवचमुत्तमम् ।
त्रैलोक्यविजयं नाम दिव्यं भोगापवर्गदम् ॥ १॥
मूलमन्त्रमयं साध्यमष्टसिद्धिप्रदायकम् ।
सर्वैश्वर्यप्रदं लोके सर्वागमविनिश्चितम् ॥ २॥
पठनाद्धारणाद्देवि महापातकनाशनम् ।
महोत्पातप्रशमनं मूलविद्यामनोहरम् ॥ ३॥
विरूपाक्षः शिवो देवि विष्णुर्नारायणो बली ।
ब्रह्मा पितामहो लोके जिष्णुर्गीर्वाणनायकः ॥ ४॥
महोनिधिस्तथा सूर्यस्तारकाधिपतिः शशी ।
रत्नाकरश्च जलधिः शेषश्चानन्ततां गतः ॥ ५॥
श्रीराज्ञ्याः कवचस्यास्य पठनाद्धारणात्सदा ।
बहुनोक्तेन किं देवि कवचस्यास्य धारणात् ॥ ६॥
मर्त्योप्यमर्त्यतां याति राज्ञीपदमवाप्नुयात् ॥ ७॥
ऋषिरस्य महादेवि ब्रह्मा छन्द उदाहृतम् ।
गायत्रं देवता राज्ञी माया बीजमुदाहृतम् ॥ ८॥
शरच्छक्तिः कीलकं च कामराजो महेश्वरि ।
भोगापवर्गसिद्ध्यर्थे विनियोगः प्रकीर्तितः ॥ ९॥
अस्य श्रीमहाराज्ञिकवचमन्त्रस्य, ब्रह्मा ऋषिः, गायत्रं छन्दः,
श्रीमहाराज्ञी देवता, ह्रीं बीजं, सौः शक्तिः, क्लीं कीलकं,
आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं
महाराज्ञीप्रीत्यर्थं पाठे विनियोगः ॥
ध्यानम् -
ॐ लक्ष्मीर्मे शिरः पातु ह्रीं ललाटं सरस्वती ।
श्रीं बाला पातु मे नेत्रे त्र्य श्रं पातु श्रुती मम ॥ १॥
रां दुर्गा पातु मे नासां क्लीं मुखं पातु शारिका ।
सौः कण्ठं वैखरी पातु भं भुजौ पातु मे शिवा ॥ २॥
गं हस्तौ पातु मे काली वं वक्षस्त्रिपुराऽवतु ।
षडश्रं पातु मे मध्यं वृत्तं पार्श्वौ ममावतु ॥ ३॥
त्यै पृष्ठं पातु मे ब्राह्मी रां नाभिं पातु वैष्णवी ।
ज्ञ्यै गुदं पातु रुद्राणी ह्रीं कटिं मे पराजिता ॥ ४॥
स्वां कौमारी पातु जानू हां जङ्घेऽवतु चण्डिका ।
स्वाहा गुल्फौ च वाराही ॐ पादौ नारसिंहिका ॥ ५॥
विस्मारितं च यत्स्थानं यत्स्थानं नामवर्जितम् ।
तत्सर्वं पातु मे राज्ञी मूलविद्यामयी परा ॥ ६॥
वासुकिः पूर्वतः पातु नीलनागोऽनलेऽवतु ।
तक्षको दक्षिणे पातु नैरृते पद्मनायकः ॥ ७॥
कार्कोटकः पश्चिमेऽव्याद्वायव्यां शङ्खपालकः ।
कुलिकश्चोत्तरे पातु शेष ईशानमण्डले ॥ ८॥
ब्राह्मी ब्राह्मे मुहूर्तेऽव्याद्दिनादौ वैष्णवी मम ।
रुद्राणी पातु मध्याह्ने सायं पात्वपराजिता ॥ ९॥
निशादौ पातु कौमारी निशीथे चण्डिकावतु ।
निशान्ते पातु वाराही सर्वदा नारसिंहिका ॥ १०॥
असिताङ्गः क्षितेः पातु पयसो रुरुभैरवः ।
चण्डो मां पवनात्पातु क्रोधेशः पातु माऽनलात् ॥ ११॥
उन्मत्तः सोमतः पातु भीषणः सूर्यतोऽवतु ।
याजकाच्च कपालेशो व्योम्नः संहारकोऽवतु ॥ १२॥
सदा समन्ततः पातु वपुर्वसुदलं पातु मम ।
गुरवः पान्तु सर्वत्र दिगीशः पातु सर्वतः ॥ १३॥
वृत्तत्रयं पातु नित्यं धरा गेहं सदाऽवतु ।
श्रीचक्रं पातु भीतिभ्यो योगिन्यः पान्तु सर्वदा ॥ १४॥
ऊर्ध्वं चाधः सदा पातु दिग्भ्यो राज्ञीश्वरः शिवः ।
सर्वत्र सर्वदा सर्वं वपुर्भूतेश्वरोऽवतात् ॥ १५॥
पादादिमूर्धपर्यन्तं वपुः सर्वत्र मेऽवतु ।
शिरसः पादपर्यन्तं राज्ञी पञ्चदशाक्षरी ॥ १६॥
इत्येवं कवचं राज्ञ्या मन्त्रगर्भं जयावहम् ।
त्रैलोक्यविजयं नाम दारिद्र्यभयनाशनम् ॥ १७॥
सर्वरोगहरं साक्षात्सिद्दिदं पापनाशनम् ।
महाभयहरं देवि मूलविद्यामयं परम् ॥ १८॥
परमार्थप्रदं नित्यं भोगमोक्षैककारणम् ।
यः पठेत्कवचं देवि रणे राजभये क्षणात् ॥ १९॥
सङग्रामेषु रिपुञ्जित्वा विजयी गृहमेष्यति ।
पठनात्कवचस्यास्य राजकोपः प्रशाम्यति ॥ २०॥
द्यूते धनं लभेद्द्युती श्मशाने सिद्धिमाप्नुयात् ।
त्रिवारं यः पठेद्रात्रौ रेतःस्रावे महेश्वरि ॥ २१॥
तस्य राज्ञी महाविद्या स्वप्नेऽभीष्टप्रदा भवेत् ।
स्वयम्भूकुसुमैः शुद्धै रेतःस्तन्योभयाङ्कितैः ॥ २२॥
रसैर्भूर्जे लिखेद्वर्म रवौ प्रातर्महेश्वरि ।
चीरतन्तुभिरव्यक्तं लाक्षया वेष्टितं तथा ॥ २३॥
सुवर्णगुटिकान्तःस्थं पूजयेद्यन्त्रराजवत् ।
गुटिकैषा महाविद्या राज्ञीमूर्तिरिवापरा ॥ २४॥
मूलविद्यामयी देवि कुक्षिस्था भोगदायिनी ।
पृष्ठस्था बलदा देवि कुक्षिस्था रोगनाशिनी ॥ २५॥
सर्वार्थसाधनी लोके यथाभीष्टफलप्रदा ।
गुटिकेयं शुभा राज्ञ्या न देया यस्य कस्यचित् ॥ २६॥
इदं कवचमीशानि मूलविद्यामयं परम् ।
सारस्वतप्रदं लक्ष्मीपुत्रपौत्रविवर्धनम् ॥ २७॥
आयुष्करं पुष्टिकरं श्रीकरं च यशस्करम् ।
चतुःषष्ट्यादितन्त्राणां सारमादाय वर्णितम् ॥ २८॥
श्मशाने यः पठेत्सायं महाचीनक्रमेश्वरः ।
स साधको महादेवि राज्ञीपुत्रो भविष्यति ॥ २९॥
इदं ते मम सर्वस्वं त्रैलोक्यविजयाभिधम् ।
कवचं मन्त्रगर्भं च गोपनीयं स्वयोनिवत् ॥ ३०॥
इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्रीराज्ञीकवचम् ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com