राज्ञीस्तोत्रम्
ॐ शीतांशुबालार्ककृशानुनेत्रां चतुर्भुजामेणत्वगासनस्थाम् ।
शङ्खाब्जशूलासिधरां महेशीं राज्ञीं भजेऽहं तुहिनाद्रिरूपाम् ॥ १॥
स्मृतैवान्तर्गता पुंसां हरन्ती सकलं मलम् ।
जयत्येषा महाराज्ञी भक्तानां क्षेमदायिनी ॥ २॥
त्रिजगन्मोहिनीमीडे मयूरीभूतसद्गुणे ।
नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ३॥
शेषाशेषमुखैर्गुण्ये गुणीगुणगणप्रिये ।
नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ४॥
सुरासुरमुनीन्द्राद्यैर्वन्दनीयपदाम्बुजे ।
नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ५॥
चराचरजगत्सृष्टिस्थितिसंहृतिकारिणि ।
नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ६॥
भक्तकल्पलतेऽनल्पवाङ्माधुर्याजिताखिले ।
नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ७॥
ब्रह्मविष्णुमहेशानवन्दिते गिरिनन्दिनि ।
नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ८॥
भक्तानां भीमसंसारपारावारप्रतारिणि ।
नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ९॥
निर्गुणे निष्क्रिये नित्ये सच्चिदानन्दरूपिणि ।
नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ १०॥
राज्ञीस्तोत्रमिदं पुण्यं त्रिसन्ध्यं प्रयतः पठन् ।
असंशयं विशेषेण वशयेदखिलं जगत् ॥ ११॥
इति राज्ञीस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran